पूर्वम्: १।१।५९
अनन्तरम्: १।१।६१
 
प्रथमावृत्तिः

सूत्रम्॥ प्रत्ययस्य लुक्श्लुलुपः॥ १।१।६०

पदच्छेदः॥ प्रत्ययस्य ६।१ लुक्-श्लु-लुपः १।३ अदर्शनम् १।१ ५९

समासः॥

लुक् च श्लु च लुप् च लुक्श्लुलुपः, इतरेतरद्वन्द्वः

अर्थः॥

({इति} इत्येतत् पदम् अत्रापि सम्बध्यते)॥ प्रत्ययस्य अदर्शनस्य लुक्-श्लु-लुप् इत्येताः संज्ञाः भवन्ति।

उदाहरणम्॥

लुक् - विशाखः स्तौति। श्लु - जुहोति। लुप् - वरणाः पञ्चालाः।
काशिका-वृत्तिः
प्रत्ययस्य लुक्श्लुलुपः १।१।६१

अदर्शनम् इति वर्तते। प्रत्यय। अदर्शनस्य लुक्, श्लु, लुपित्येताः संज्ञा भवन्ति। अनेकसंज्ञाविधनाच्च तद्भावितग्रहणम् इह विज्ञायते। लुक्संज्ञाभावितं प्रत्ययादर्शनं लुक्संज्ञम् भवति, श्लुसंज्ञाभावितं श्लुसंज्ञं भवति, लुप्संज्ञा भावितं लुप्संज्ञं भवति। तेन संज्ञानां सङ्करो न भवति। विधिप्रदेशेषु च भाविनी संज्ञा विज्ञायते। अत्ति। जुहोति। वरणाः। प्रत्ययग्रहणम् किम्? अगस्तयः। कुण्डिनाः। लुक्श्लुलुप्प्रदेशाः लुक्तद्धितलुकि १।२।४९, जुहोत्यादिभ्यः श्लुः २।४।७५, जनपदे लुप् ४।२।७० इत्येवम् आदयः।
लघु-सिद्धान्त-कौमुदी
प्रत्ययस्य लुक्श्लुलुपः १८९, १।१।६०

लुक्श्लुलुप्शब्दैः कृतं प्रत्ययादर्शनं क्रमात्तत्तत्संज्ञं स्यात्॥
न्यासः
प्रत्ययस्य लुक्?श्लुलुपः। , १।१।६०

यथा वृद्धिशब्दस्तद्भावितानमतद्भावितानामपि संज्ञा, तथा लुगित्यादिका अप्यतद्भावितस्यापि संज्ञाः प्राप्नुवन्ति, ततश्च संज्ञासंकरः स्यात्। संज्ञासंकरे हि सति संकीर्येरन्नित्यत आह-- "अनेकसंज्ञाविधानाच्च" इत्यादि। यद्यतद्भावितस्या- प्येताः संज्ञाः स्युः, अनेकसंज्ञाकरणमर्थकं स्यात्; एकस्यैव सर्वकार्यसिद्धः। तस्मादनेकसंज्ञाविधानाद् यददर्शनं यया संज्ञयोच्चारितया भावितम्= निष्पादितं, तस्यैव प्रत्ययादर्शनस्य सा संज्ञा, नान्यस्येति न भवति संकरः। एवं तर्हीतरेतराश्रयदोषः प्राप्नोति, तथा हि-- संज्ञया विशिष्टमदर्शनं भाव्यम्, सति च तस्मिन् प्रत्यया- दर्शने संज्ञया भाव्यमित्यत आह-- "विधिप्रदेशेषु च" इत्यादि। तददर्शनं विधीयते यस्य विहितस्य लुगित्येवमादिकाः संज्ञा भवन्तीति भाविन्याः संज्ञया विज्ञानान्न भवतीतरेतराश्रयदोषः। "अत्ति" इति। "अदिप्रभृतिभ्यः शपः" २।४।७२ इति शपो लुक्। "जुहोति" इति। "जुहोत्यादिभ्यः श्लुः" २।४।७५। "वरणाः" इति। वरणानां वृक्षाणामदूरभवो ग्राम इति। "प्राग्दीव्यतोऽण्" ४।१।८३ तस्य "वरणादिभ्यश्च" ४।२।८१ इति लुप्। "अगस्तयः, कुण्डिनाः" इति। यदि प्रत्ययग्रहमं न क्रियेत, आगस्त्यस्याप- त्यानि बहूनि "ऋष्यन्धकवृष्णिकुरुभ्यः" ४।१।११४ इति ऋष्यण्। कुण्डिन्या अपत्यानि बहूनि गर्गादित्वाद् यञ् ४।१।१६५, तयोरागस्त्यकौण्डिन्यशब्दयोर्जसि परतो यदा " आगस्त्यकौण्डिन्ययोरगस्तिकुण्डिनच्" २।४।७० इति लुक् क्रियते,अगस्तिकुण्डिनचौ चादेशौ; तदा वैषम्यादेकैकस्य षष्ठीनिर्दिष्टस्य स्थानिनस्त्रय आदेसाः पर्यायेण स्युः। तत्र यदा लुक् क्रियते तदा विभक्तिमात्रस्य श्रवणं प्राप्नोति। अथाप्यलोऽ- न्त्यस्य स्यात्ेवमप्यागस्त्यः,कौण्()डिन्यः इति स्यात्; अगस्तयः, कुण्डिना इति चेष्यते। यदाप्यागस्त्यशब्दस्य कुण्डिनजादेशः, कौण्डिन्यशब्दस्य चागसत्यादेशः, तथाप्यनिष्टमेव प्राप्नोति। आगस्त्यशब्दस्य हि जसन्तस्य अगस्तयैति रूपमिष्यते, कौण्डिन्यशब्दस्य तु कुण्डिना इति। अत एवागस्तयः कुण्डिना इत्यनयानुपूव्र्या तयोरुपन्यासः। अथाप्यान्तरतम्यादागस्त्यशब्दस्यागस्तिशब्द एवादेशो भवति, न कुण्डिनजिति? कौण्डिन्यशब्दस्यापि कुण्डिनजादेशो भवति, नागस्तिशब्द इति? एवमपि नैवानिष्टापत्ते- र्मुक्तिः। तथा हि-- एवं ह्रगस्तयः, कुण्डिना इति च सिध्यति, तथापि प्राग्दीव्यतीये-ऽजादौ प्रत्यये विवक्षिते सति "वृद्धाच्छः" ४।२।११३ इति च्छोः न स्यात्वृद्ध-त्वात्। प्रकृतेः। प्रत्ययग्रहणे तु सति तददर्शनस्यैवेयं संज्ञा विहितेति तस्यैव लुग् भवति। परिजादिप्रत्ययविवक्षायामपि "गोऽत्रेऽलुगचि" ४।१।८९ इति लुकि प्रतिषिद्धे वृद्धाच्छप्रत्ययश्च। अगस्तीनां छात्रा आगस्तीया इति। कौण्डिन्यशब्दात् तु सत्यपि लुकि "कण्वादिभ्यो गोत्रे" ४।२।११० इत्यणेव भवति-- कौण्डिन्याश्चात्रा इति। तेन तत्र छप्रत्ययाभावदोषो न प्रसञ्जनीयः।
बाल-मनोरमा
प्रत्ययस्य लुक्श्लुलुपः २५८, १।१।६०

अतो नैवमर्थः, किं तु लुक्श्लुलुप इत्यावर्तते। ततश्च लुक् श्लु लुप इत्युच्चार्य विहितं प्रत्ययाऽदर्शनं यथासङ्ख्यपरिभाषया क्रमाल्लुगादिसंज्ञं स्यादिति लभ्यते, अतो नोक्तसङ्कर इत्यभिप्रेत्याह-लुक्श्लुलुप्शब्दैरित्यादिना। "फले लुक्", "जुहोत्यादिभ्यः श्लुः" "जनपदे लुप्" इत्यादिविधिप्रदेशेषु "अस्य सूत्रस्य शाटकं वये"तिवद्भाविज्ञानान्नान्योन्याश्रयः। तदेवं कतिशब्दस्य षट्संज्ञायाम्--।

तत्त्व-बोधिनी
पत्ययस्य लुक्श्लुलुपः २१९, १।१।६०

पत्ययस्य लुक्श्लुलुपः। "अदर्शनं लोपः"इत्यतोऽनुवृत्तस्याऽदर्शनस्यानेकसंज्ञाकरणसामथ्र्यात्तन्त्त्राद्यश्रित्य तद्भावितसंज्ञा इह विज्ञायन्ते, तेन संज्ञासङ्करोऽत्र न भवति, तदेतदाह--लुक्श्लुलुप्शब्दैरित्यादि। सति तु संज्ञासङ्करे "हन्ती"त्यत्र शब्लुकि "श्लौ"इति द्वित्वं स्याति। "जुहेती"त्यत्र श्लौ सति "उतोवृद्धिर्लुकि हली"ति वृद्धिः स्यात्। न च तत्र "अभ्यस्तस्य ने"त्यनुवृत्तेर्योयोति नोनोतीत्यादाविव वृद्धिर्न भविष्यतीति वाच्यं, संज्ञासङ्करपक्षे तदनुवृत्त्यसंभवात्, अन्यथा सूत्रस्य निर्विषयत्वापत्तेः। न च "यौती"त्यादिरवकाशः, संज्ञसङ्करे तत्रापि द्वित्वस्य दुर्वारत्वादिति भावः। "फले लुक्" "जुहोत्यादिभ्याः श्लुः""जनपदे लु"बित्यादिविधिप्रदेशेषु सूत्रशाटक वद्भाविसंज्ञाविज्ञानान्नान्योन्याश्रयः।