पूर्वम्: १।१।६३
अनन्तरम्: १।१।६५
 
प्रथमावृत्तिः

सूत्रम्॥ अलोऽन्त्यात् पूर्व उपधा॥ १।१।६४

पदच्छेदः॥ अलः ५।१ अन्त्यात् ५।१ पूर्वः १।१ उपधा १।१

अर्थः॥

अत्रापि पूर्ववत् अन्ते भवम्, अन्त्यम् इति बोध्यम्
अन्त्यात् अलः पूर्वः यः अल्, सः उपधा-संज्ञकः भवति

उदाहरणम्॥

भेत्ता, चेत्ता
काशिका-वृत्तिः
अलो ऽन्त्यात् पूर्व उपधा १।१।६५

धात्वादौ वर्णसमुदाये ऽन्त्यादलः पूर्वो यो वर्णः सो ऽलेव उपधासंज्ञओ भवति। पच्, पठकरः। भिद्, छिदिकारः। बुध्, युधुकारः। वृत्, वृधृकारः। अलः इति किम्? शिष्टः, शिष्टवान्। समुदायात् पूर्वस्य मा भूत्। उपधाप्रदेशाःअत उपधायाः ७।२।११५ इत्येवम् आदयः।
लघु-सिद्धान्त-कौमुदी
अलोऽन्त्यात्पूर्व उपधा १७६, १।१।६४

अन्त्यादलः पूर्वो वर्ण उपधासंज्ञः॥
न्यासः
अलोऽन्त्यात्पूर्व उपधा। , १।१।६४

अलोऽन्त्यादितिसमानाधिकरणे पञ्चम्यौ। "धात्वादौ वर्णसमुदाये"इति। ननु च नेह वर्णसमुदाय ग्रहणमस्ति, नापि तत् प्रकृतम्। तत् कथमेषोऽर्थो लभ्यते? अन्त्यग्रहणात्, समुदायस्यैवान्त्योऽल् भवति, न केवलः। तस्मादन्त्यग्रहणादेषोऽर्थो लभ्यते। "अलेव" इति।एवकारकरणादेवाल्समुदायो व्यवच्छिद्यते। ननु च नेह द्वितीय- मल्ग्रहणमस्ति, तदल्सुमुदायस्याप्येषा संज्ञा कसमान्न भवति? लोकतश्च। लोके ह्रमीषां बाहृणानामन्त्यात् पूर्व आनीयतामित्युक्तएक एवान्त्यात् पूर्व आनीयते, न समुदायः। एवमप्यल एव व्यवहितस्य कस्मादेषा संज्ञा न भवति? व्यहितेऽपि पूर्वशब्दो वत्र्तत एव। अत एव लौकिकाद् दृष्टान्तात्-- लोके ह्रन्त्यात् पूर्वमानयेत्युक्ते न कश्चिद् व्यवहितमानयति, अपि त्वननतरमेव। यदि ह्रल एवैषा संज्ञा, नाल्समुदायस्य, "ऋतश्च संयोगादेर्गुणः"७।४।१० इत्यत्र यद् वक्ष्यति-- "संयोगादिगुणविधाने संयोगोपधग्रहणं कत्र्तव्यम्" इति, तद्व्याहन्यते; न ह्रल एवोपधासंज्ञायामनेकानन्तरहल्समुदायात्मनः संयोगस्योपधात्वमुपपद्यते। संयोगावयवस्योपधात्वादवयवधर्मेण समुदायस्य तथा व्यपदेश इत्यविरोधः। भवति ह्रवयवधर्मेण समुदायस्य तथा व्यपदेशः, यथा-- आढ()मिदं नगरमिति। अथ वा- संयोगस्याल्पूर्वत्वोपलक्षणार्थं तत्रोपधाग्रहणं द्रष्टव्यम्। अकार इत्यादीनि रूपोदाहरणानि। कार्यं त्वकारस्योपधासंज्ञायां पाचकः, पाठक इत्यत्र "अत उपधायाः" ७।२।११६ इति वृद्धिः। इकारलृकारयोस्तु भेदकः, छेदकः, वत्र्तकः वद्र्धक इति। अत्र "पुगन्तलघूपधस्य" ७।३।८६ इति गुणः। "शिष्टः" इति। "शासु अनुशिष्टौ" (धा।पा।१०७५), निष्ठा, "शास इदङ हलोः" ६।४।३४ इति उपधाया इत्त्वम्। तत्र हि "अनिदिताम्" ६।४।२४ इत्यादेः सुत्रादुपधाग्रहणमनुवत्र्तते। "शासिवसि" ८।३।६० इत्यादिना षत्वम्। "समुदायात्" इत्यादि। अकारसकारसमुदायात्। पूर्वस्य शकारस्योपधासंज्ञा मा भूदित्यर्थः। यदि हि स्यात्,तस्यैवेत्त्वं स्यात्॥
बाल-मनोरमा
अलोऽन्त्यात्पूर्व उपधा २४७, १।१।६४

सखन्-स् इति स्थिते उपधाकार्यं वक्ष्यन्नुपधासंज्ञामाह--अलोन्त्यात्। "अल" इति पञ्चमी, "अन्त्या"दिति सामानाधिकरण्यात्। अल्प्रत्याहारो वर्णपर्यायः। पूर्वोऽप्यलेव गृह्रते, साजात्यादित्याह--अन्त्यादल इत्यादिना। अलः किम्?। "शिष्ट" इत्यत्र शास्धातौ आसिति संघातात्पूर्वशकारस्योपधात्वं न भवति। अन्यथा "शास इदङ्हलो"रिति शकारस्येकारप्रसङ्गः। वर्णग्रहणं किम्?। शास्धातौ "शा" इति समुदायस्य उपधात्वं न भवति। अन्यथा "शा" इति समुदायस्य इकारः स्यात्। न चालोन्त्यपरिभाषया आकारस्यैव इकारो भवतीति वाच्यं, "नानर्थकेऽलोन्त्यविधि"रिति तन्निषेधात्।

तत्त्व-बोधिनी
अलोऽन्त्यत्पूर्व उपधा २०८, १।१।६४

अलोऽन्त्यात्पूर्व। "अल"इति पञ्चमी "अन्त्या" दित्यनेन विशेष्यात इत्याह-अन्त्यादल इति। अलः किम्()। "शिष्टाः" "शिष्टवा" नित्यादावन्त्यात्सङ्घातात्पूर्वस्य शकारस्य मा भूत्। सत्यां हि संज्ञायां "शास इदङ्हलोः" इति शस्येत्त्वं स्यात्। नन्वेवमप्यन्त्यादलः पूर्वस्य सङ्घातेस्योपधासंज्ञायां "शिष्ट"इत्यादौ शकारविशिष्टस्याकारस्य इत्त्वं स्यादित्यतिप्रसङ्गदोषस्तदवस्थ एवेति चेदुच्यते--यथा हि लोके "अमीषां ब्राआहृआणानामन्त्यात्पूर्व आनीयिता"मित्यक्ते यथाजातीयकोऽन्त्यस्तथाजातीयकोऽन्त्यात्पूर्व आनीयते, तथाऽत्राप्यन्त्योऽलात्मक इति तत्पूर्वोऽप्यलेव गृह्रते। तदेतदाह--पूर्वो वर्ण इति। अत्र"अचोऽन्त्यादि टी" त्यत्रेव "अल" इति निर्धारणे षष्ठीत्यपि सुवचमिति केचिदाहुः, "अलां मध्ये योऽन्त्यस्तस्मात्पूर्वो वर्ण उपधासंज्ञः स्या"दिति व्याख्याया अपि संभवदुक्तिकत्वात्।