यस्य अचाम् आदिग्रहणम् उत्तरार्थम् अनुवर्तते। इह तु न सम्बध्यते। त्यदादीनि शब्दरूपाणि वृद्धसंज्ञानि भवन्ति। त्यदीयम्। तदीयम्। एतदीयम्। इदमीयम्। अदसीयम्। त्वदीयम्। त्वादायनिः। मदीयम्। मादायनिः। भवतीयम्। किमीयम्।
"उत्तरार्थम्" इति। उत्तरसूत्रेऽस्य प्रयोजनवत्त्वात् यद्यनुवत्र्तते,एतद-र्थमपि कस्मान्न भवतीत्याह-- "इह न सम्बध्यते" इति। यदीहापि सम्बध्येत तदायमर्थः
स्यात्--- "त्यदादीनि यस्याचामादिभूतानि तद्()वद्धम्" इति। ततश्च त्वत्पुत्र इत्यादावेव स्यात्, केवालानां च त्यदादीनां न स्यादित्यभिप्रायः। ननु च त्वत्पुत्रो
मत्पुत्र इत्यादावुपसर्जनानि त्यदादीनि, उपसर्जनानां च तेषां त्यदादित्वं
निवर्तितम्,
तत् कुतोऽयं प्रसङ्गः? यदि यस्याचामादेरित्येतदिह सम्बध्यते तदा
सत्युपसर्जनत्वे वचनात् त्यदादावेव संज्ञा स्यात्, न केवलानामिति मन्यते;
कथं
पुनरिहानुवर्तमानं शक्यमसम्बन्धुम्? स्वसम्ब्नधानुवृत्तेः। "वृद्धिर्यस्याचामादिस्तद्()वृद्धम्"
१।१।७२ इति त्यदादीनि च वृद्धिसंज्ञकानि भवन्ति। "वृद्धिर्यस्याचामादिस्तद्()वृद्धम्" इति तद्()वृद्धम्, "एङ प्राचां देशे"
१।१।७४ यस्याचामादिग्रहणमनुवत्र्तते। वृद्धिग्रहणं निवृत्तम्। एवं वृद्धिग्रहणं निवृत्तम्। एवं वृद्धिशब्देन
सम्बन्धमनुवत्र्तमानं न शक्यते त्यदादिभिः सम्बन्धुम्। "त्वादायनिः, मादायनिः" इति। "उदीचां वृद्धादगोत्रात्"
४।१।१५७ इति फिञ्(), "प्रत्ययोत्तरपदयोश्च"
७।२।९७
इति युष्मदस्मदोस्त्वामादेशौ। चकारोऽनुक्तसमुच्चयार्थः। तेन "वा नामधेयस्य" (वा।
१५) इत्यादि वक्तव्यं न भवति॥