पूर्वम्: १।१।७३
अनन्तरम्: १।२।१
 
प्रथमावृत्तिः

सूत्रम्॥ एङ् प्राचां देशे॥ १।१।७४

पदच्छेदः॥ एङ् १।१ प्राचाम् ६।३ देशे ७।१ यस्य ६।१ ७२ आचाम् ६।३ ७२ आदिः १।१ ७२ वृद्धम् १।१ ७२

अर्थः॥

यस्य समुदायस्य अचाम् आदिः {एङ्} तस्य प्राचां देशाभिधाने वृद्धसंज्ञा भवति।

उदाहरणम्॥

एणीपचने भवः, एणीपचनीयः। गोनर्दे भव, गोनर्दीयः। भोजकटे भवः, भोजकटीयः।
काशिका-वृत्तिः
एङ् प्राचाम् देशे १।१।७५

यस्य अचाम् आदिग्रहणम् अनुवर्तते। एङ् यस्य अचाम् आदिः तत् प्राचां देशाभिधाने वृद्धसंज्ञं भवति। एणीपचनीयः। भोजकटीयः। गोनर्दीयः। एङिति किम्? आहिच्छत्रः। कान्यकुब्जः। प्राचाम् इति किम्? देवदत्तो नाम बाहीकेषु ग्रामह्, तत्र भवः दैवदत्तः। देशे इति किम्? गोमत्यां भवा मत्स्याः गौमताः। प्रागुदञ्चौ विभजते हंसः क्षीरोदके यथा। विदुषां शब्दसिद्ध्यर्थं सा नः पातु शरावती। इति श्रीजयादित्यविरचितायां काशिकायाम् वृत्तौ प्रथमाध्यायसय् प्रथमः पादः।
न्यासः
एङ् प्राचां देशे। , १।१।७४

"प्राचां देशाभिधाने" इति। प्राचां सम्बन्धी यो देशस्तदभिधान इत्यर्थः। एतेन प्राचामिति देशविशेषणं न विकल्पार्थमिति दर्शयति। प्राचां मतेनेत्यस्याविवक्षितत्वादित्याख्यातं भवति। "एणीपचनीयः" इत्यादि। एणीपचन इत्यादिभ्यच्छः। "आहिच्छत्रः" इति, "कान्यकुब्जः" इति अहिच्छत्रकान्यकुब्जशब्दाभ्यामणेव भवति। "देवदत्तः" इति। वृद्धा-धिकारे विहितो "वाहीकग्रामेभ्यश्च" ४।२।११६ इति ठञ्()ञिठौ न भवतः, काश्यपादि- पाठादपि तौ न भवतः; क्रियानिमित्तको हि देवदत्तशब्दस्तत्र पठ()ते संज्ञाशब्दस्य चेदं प्रत्युदाहरणम्। एतच्च यदा "वा नामधेयस्य" (वा। १५) इति वृद्धसंज्ञा नास्ति; तदा वेदितव्यम्। "गौमताः"इति। अत्र सर्वमस्ति न तु देशाभिधानम्। तथा हि गोमती नदी प्रग्देशे, न देशः। न हि नदी देशग्रहणेन गृह्रते;"नदीदेशोऽग्रामाः" २।४।७ इत्यत्र नद्याः पृथग्ग्रहणात्। "एङ् प्राचां देशे" इति। "उदीचां वृद्धादगोत्रात्" ४।१।१५७ इत्येवमादिषु प्रागुदञ्चौ श्रूयेते, तयोश्च विभागो न विज्ञायते। अतस्तत्परिज्ञानायाह-- " प्रागुदञ्चौ" इत्यादि। शरावती नाम नदी , तस्याः पूर्वेण व्यवस्थितो देशः प्राग्देशः, उत्तरेण उदग्देशः। तौ शरावती विभजते = विभागेन व्यवस्थापयति तस्यां हि मर्यादायां सत्यां तयोर्विभागः परिज्ञायते। किमर्थं विभजते? "विदुषां शब्दसिद्ध्यर्थम्" इति। पण्()डितानां वैयाकरणानां शब्दव्युत्पत्त्यर्थम्। कतं विभजते? "हंसः क्षीरोदकं यथा"। क्षीरोदकमिति "जातिरप्राणिनाम्" २।४।६ इत्येकवद्भावः। क्वचित् क्षीरोदके इति पाठः। सः "सर्वो द्वन्द्वो विभाषयैकवद्भवति" (व्या।प।९१) इति वेदितव्यः। यथा हंसः क्षीरमुदकं च मिश्रीभावमुपगतं पृथगसङ्करेण व्यवस्थापयति, तथा शरावती प्रागुदञ्चौ। यत्-तदोर्नित्याभिसम्बन्दात् सेति वचनादनुक्तमपि येत्येतल्लभ्यते। या विभजते सा नोऽस्मान् पातु रक्षतु। प्रसिद्धस्तु पाठो यत्र श्लोके प्रागुदीचाविति, तत्राऽचः "उद ईत्" (६।४।१३९) इति भसंज्ञकस्योच्यमानः कथमीकारः? कथं च "उगिदचां सर्वनामस्थानेऽधातोः" ७।१।७० इति नुम न भवतीति चिन्त्यम्। अत्र वर्णयन्ति-- "अच्प्रत्यन्ववपूर्वात् सामलोम्नः" ५।४।७५ इत्यत्राजितियोगविभागेनाच्प्रत्ययः कृतः, तेनात्राचि परतो भसंज्ञामीत्वं भवति। नुम् न भवति; अचा सर्वनामस्थानस्य व्यवहितत्वादिति। अनये तु प्रागुदीचमिति समाहारे कुर्वन्ति। तेषां "द्वन्द्वाच्चुदषहान्तात् समाहारे" ५।४।१०६ इति टचि समासान्ते कृते पूर्ववदीकारो नुमभावश्च भवति। क्वचित्तु प्रागुदीच इति पाटः। तत्रावयवदेशापेक्षया बहुत्वविवक्षायां बहुवचनम्। प्राग्देशानुदग्देशाश्च विभजत इत्यर्थः। श्रीबोधिसत्त्वदेशीयाचार्यजिनेन्द्रबुद्धपादविरचितायां काशिकाविवरणपञ्जिकायां प्रथमाध्यायस्य प्रथमः पादः ------------ अथ प्रथमाध्ययस्य द्वितीय पादः
बाल-मनोरमा
एङ् प्राचां देशे १३१९, १।१।७४

एङ् प्राचां। देशविशेषनाम्नश्चेदेङादिरेव वृद्धसंज्ञक इति नियमार्थमिदम्।

वा नामधेयस्येति। रूढशब्दत्वमिह नामत्वं, न त्वाधुनिकसंकेतितत्वमेव। तेन घटीयमित्यादि सिद्धम्।