पूर्वम्: १।२।९
अनन्तरम्: १।२।११
 
प्रथमावृत्तिः

सूत्रम्॥ हलन्ताच्च॥ १।२।१०

पदच्छेदः॥ हलन्तात् ५।१ ११ इकः ५।१ झल् १।१ सन् १।१ कित् १।१

समासः॥

हल् चासौ, अन्तश्च, हलन्तः, तस्मात् हलन्तात्, कर्मधारयतत्पुरूषः।

अर्थः॥

इकः समीपात् यः हल् तस्मात् परः झलादिः, सन् किद्वत् भवति। अन्तशब्दः अत्र सामीप्यवाची।

उदाहरणम्॥

बिभित्सति, बुभुत्सते।
काशिका-वृत्तिः
हलन्ताच् च १।२।१०

हलन्तादिको झल् कितिति वर्तते। सनिति निवृत्तम्। इगन्तदिक्समीपाद्धलः परौ झलादी।
लघु-सिद्धान्त-कौमुदी
हलन्ताच्च ७४६, १।२।१०

इक्समीपाद्धलः परो झलादिः सन् कित्। निविविक्षते॥
न्यासः
हलन्ताच्च। , १।२।१०

इक इत्यनुवत्र्तते। अत्र यदि चान्तशब्दोऽवयववाची स्यादिको हला सह सम्बन्धोन स्यात्, न हीको हलवयवः सम्भवति। यो हि येनारभ्यते, अपृथग्()देशभूतः स तस्यावयवो भवति; यथा-- पटस्य तन्तव इति। न च हलेगारभ्यते, तस्मान्नायमन्तशब्दोऽवयववाची; अपि तु समीपवचनो युक्त इति मत्वाऽ‌ऽह-- "समीपवचनोऽ‌ऽयमन्तशब्दः" इति। ननु च धातुरत्र सामथ्र्यादाक्षिप्तः, अत्सतदपेक्षया हलोऽवयवत्वं भविष्यति, नैतदस्ति; एवं तह्र्रन्तशब्दोऽतिरिच्येत, "येन विधिस्तदन्तस्य" (१।१।७२० इत्यनेनैव तदन्तविधेर्लब्धत्वात्। हल् चासावन्तश्चेति विग्रहविशेषेण कर्मधारयत्वं दर्शयति। कस्य पुनरसावन्तः? प्रकृतस्येकः। यद्येवम्, सापेक्षमसमर्थं भवतीतिकमपेक्षमाणस्यान्तशब्दस्य समासो नोपपद्यते, नैष दोषः; अन्तशब्दो ह्रत्र प्रधानः। भवति च प्रधानस्य सापेक्षस्यापि समास #इति द्वितीयेऽध्याये ज्ञापयिष्यति "उपमितं व्याघ्रादिभिः सामान्याप्रयोगे" २।१।५५ इत्यत्र सामान्याप्रयोगग्रहणेन। "इगन्तात्िति। षष्ठीसमासोऽयम्। ननु चेक इति पञ्चम्यन्तं प्रकृतम्, तत् कथं षष्ठीसमासः? नैष दोषः; यद्यपि पञ्चम्यन्तं प्रकृतम्, तथापीह समीपसमीपिसम्बन्धे सति विभक्तिविपरिणामेन षष्ठ()न्ततामनुभवति-- "इकः समीपगतात्" इति। इकः समीपवर्तिन इति। "बुभुत्सते" इति। "बुध अवगमने" (धा।पा।११७२), "एकाचो बशो भष्" ८।२।३७ इत्यादिना भष्भावः। एवमुत्तरत्रापि यत्र भष्भावस्तत्रानेनैव बोद्धव्यः। "खरि च" ८।४।५४ इति चत्र्वम् = धकारस्य तकारः। "यियक्षते" इति। यजेव्र्रश्चादिना ६।१।१५ इत्यादिना संप्रसारणं न भवति। यदि समीपवचनोऽमन्तशब्दस्तदा दम्भेः परस्य सनः कित्त्वं न सिध्यति। तथा हि-- तस्य य इकः समीप गतो हल् न तस्मात् परः सन्, यस्मात् परः सन् नासाविकः समीपगत इत्यत आह-- "दम्भेः" इत्यादि। हलित्यनेन हल्जातिरुच्यते, न तु व्यक्तिः। तेन यदा "ता एव व्यक्तयस्त्यक्तभेदा जातिः" इति दर्शनम्; तदा तासां व्यक्तीनां हल्त्वेनाश्रितानां नास्ति व्यवधानम्। अतो यैव हल्जातिरिकः समीपवर्तिनी तत एव परः सन्निति दम्भेर्विहितस्य सनः कित्त्वं सिद्धमेव। यदाप्यर्थान्तरभूता जातिव्र्यक्तिषु प्रत्येकं परिसमाप्ता निरवयवैका, तदापि नास्ति व्यवधानम्; यस्माद्व्यक्तिव्र्यक्त्यन्तरस्य व्यवधायिका भवति, न तु जातेः; तस्या अशरीरिणीत्वात्। तस्मादिहापि दर्शने यैव हल्जातिरिकः समीपगता तत एव परः सन्निति दम्भेः परस्य सनः कित्त्वं भवति। तस्यास्तु व्यक्तिव्यतिरिक्ताया जातेर्यदिकमपेक्ष्य समीपवर्तिनीत्वम्, यच्च तज्जातिमपेक्षमाणस्य सनः परत्वम्-- तदुभयं व्यक्तिद्वारकं वेदितव्यम्। तत्र नकारव्यक्तिरिकः समीपगतेति तदाधारा हल्जातिरपीकः समीपगतेति भकारस्य व्यक्तेः परः सन्निति तदाधारभूताया जातेरपि परः सन्, न तु जातेव्र्यक्तिनिरपेक्षं समीपवर्तिनीत्वं सम्भवति। नापि जात्यपेक्षं सनः परत्वम्; तदुभयं व्यक्तिद्वारकं वेदितव्यम्। तत्र नकारव्यक्तिरिकः समीपगतेति तदाधारा हल्जातिपीकः समपीगतेति भकारस्य व्यक्तेः परः सन्निति तदाधारभूताया जातेरपि परः सन, न तु जातेव्र्यक्तिनिरपेक्षं समीपवर्तिनीत्वं सम्भवति नापि जात्यपेक्षं सनः परत्वम्; जातेरशरीरिणीत्वात्। यदि तर्हि व्यक्तिद्वारकमेतदुभयम्? एवं तर्हि विपर्ययोऽपि व्यक्तिद्वारकः स्यात्। भकारव्यक्तिरिकः समीपगता न भवतीति जातिरपि न स्यात्; नकारव्यक्तेः परः सन् न भवतीति जातेरपि न स्यात्, ततश्च हल्ग्रहमस्य सत्यपि जातिवाचकत्वे दम्भेः परस्य सनः कित्त्वं न सिध्यत्येव? नैतदस्ति; यद्यपि जातेव्र्यक्तिद्वारकमिकः समीपवर्तिनीत्वं तद्विपर्ययश्च, सनोऽपि यद्यपि व्यक्तिद्वारकं जात्यपेक्षं परत्वं तद्विपर्ययश्च; तथापि यदत्र हल्त्वसामान्यस्येकः समीपगतत्वं यदपेक्षञ्च सनः परत्वं तदाश्रयं कित्त्वं भविष्यतीति विपर्ययस्तु विद्यमानोऽपि नापेक्ष्यत एव, लक्ष्यानुरोधात्। ननु च हल्त्वं नाम जातिर्नासत्येव, तथा हि-- हलिति संज्ञाशब्दः संङ्केतवशादेव प्रवर्तते डित्थादिशब्दवत्। न हि यथा गवादिषु गोत्वादिकं नाम सामान्यमभिन्नमस्ति, तथा हकारादिषु वर्णेषु हल्त्वं नाम सामान्यमभिन्नमस्तीति शक्यमभ्युपगन्तुम्; तन्नबन्धनस्याभावात्। ततश्चायुक्तमुक्तम्-- दम्भेर्हल्ग्रहणस्य जातिवाचकत्वात्त सिद्धमिति, नैतदस्ति; जातिपदार्थवादिनां मते येऽपि तावदेकवस्त्वभिधायिनः संज्ञाशब्दा देवदत्तादयस्तदर्थानामप्यवस्थाभेदे परिकल्पितानानात्वेन जातिरभ्युपगम्यते, किं पुनर्हलित्येवमादीनामनेकवर्णविषयाणां संज्ञाशब्दानाम !अन्यथा ह्रतिव्यापिनी शब्दार्थस्य व्यवस्था स्यात्। इदञ्च तावद्भवान् प्रष्टव्यः-- गवादिषु जातेरस्तित्वस्य किं निबन्धनं येनासौ तत्राभ्युपगम्यत इति? भिन्नेष्वभिन्नाभिधानप्रत्ययाविति चेत्, एतावितरत्रापि समानौ।यथैव हि गवादिषु भिन्नेष्वपि प्राक् सह्केतादुत्तरकालमनुयायिनौ तौ भवतः, तथा हकारादिष्वपि। प्राक् सङ्केताद्यथा तेषु तौ न भवतस्तथा गवादिष्वपि। तस्माद् यौ भिन्नेष्वभिन्नाभिधनाप्रत्ययौ जातिसद्भावसम्प्रत्ययहेतुभूतौ हल्ष्वपि स्त इति तत्रापि हल्त्वं नाम जातिरभ्युपेया, न तु गवादिष्वेव गोत्वादिकमस्तीत्येकान्त एव। "धिप्सति, धीप्सति" इति। "सनीवन्तर्ध" ७।२।४९ इत्यादिना यत्र पक्ष इण् नास्ति तत्रेदमुदाहरणम्। "दम्भ इच्च" ७।४।५६ इतीत्त्वम्, ईत्त्वञ्च, "अत्र लोपोऽभ्यासस्य" ७।४।५८ इत्यभ्यासलोपः। "खरि च" ८।४।५४ इति चर्तम् = भकारस्य पकारः। कित्त्वे सति "अनिदिताम्" ६।४।२४ इति न लोपः। दकारस्य भष्भावेन धकारः॥
बाल-मनोरमा
हलन्ताच्च ४४०, १।२।१०

हलन्ताच्च। "इको झ"लिति पूर्वसूत्रमनुवर्तते। "रुदविदमुषे"त्यतः सनिति,"असंयोगाल्लि"डित्यतः किदिति च। "ह"लिति लुप्तपञ्चमीकं पदम्। अन्तशब्दः समीपवाची। तदाह-- इक्समीपादित्यादि। जुघुक्षतीति। सनः कित्त्वान्न गुणः। "सनि ग्रहगुहोश्चे"त्यूदित्त्वेऽपि नित्यं नेट्। हस्य ढत्वे भष्भावे कत्वषत्वे इति भावः। बिभित्सतीति। भिदेः सनः कित्त्वान्न गुणः। यियक्षते इति। अत्र हलः इक्समीपत्वाऽभावान्न कित्त्वम्। सति तु कित्त्वे यजेः संप्रसारणं स्यादिति भावः। विवर्धिषते इति। वृधेः सनि रूपम्। अत्र सन इटि झलादित्वं नेति भावः। ननु "तृंहू हिंसायाम्" तुदादिर्नोपधोऽयम्। कृतानुस्वारस्य निर्देशः। अस्मात्सनः "अनिदिता"मिति नलोपार्थं कित्त्वमिष्यते। तन्नोपपद्यते। न ह्रत्र इक्समीपादनुस्वारात्सन् परो भवति, हकारेण व्यवधानात्। हकारात्तु परः सन् इक्समीपाद्धलः परो न भवति, अनुस्वारेण व्यवधानादित्यत आह-- हल्ग्रहमं जातिपरमिति। हल्त्वजात्याक्रान्तैकाऽनेकव्यक्तिपरमित्यर्थः। तृंह्विति। तृंहूधातोः प्रदर्शनामिदम्।तितृक्षतीति।ऊदित्त्वादिडभावपक्षे रूपम्। सनः कित्त्वान्नलोपः, लघूपधगुणाऽभावश्च। ढत्वकत्वषत्वानि। इट्पक्षे आह-- तितृंहिषत#ईति। झलादित्वाऽभावेन कित्त्वाऽभावान्नलोपो नेति भावः।

तत्त्व-बोधिनी
हलन्ताच्च ३८४, १।२।१०

हलन्ताच्च। इगित्यनुर्तते। तदवयवत्वं हलो न संभवतीति समीपवाच्यत्राऽन्तशब्द इत्याशयेन व्याचष्टे--- इक्समीपादिति। सौत्रत्वाद्विशेषणस्याऽन्तशब्दस्य परनिपातः। तितृक्षतीति। कित्त्वे सति "अनिदिता" मिति नलोपः।