पूर्वम्: १।२।११
अनन्तरम्: १।२।१३
 
प्रथमावृत्तिः

सूत्रम्॥ उश्च॥ १।२।१२

पदच्छेदः॥ उः ५।१ लिङ्सिचौ १।२ ११ आत्मनेपदेषु ७।३ ११ झल् १।१ कित् १।१

अर्थः॥

ऋवर्णान्तात् धातोः परौ झलादी लिङ्सिचौ, आत्मनेपदविषये किद्वत् भवतः।

उदाहरणम्॥

लिङ् - कृषीष्ट, हृषीष्ट। सिच् - अकृत, अहृत।
काशिका-वृत्तिः
उश् च १।२।१२

ऋवर्णान्ताद् धातोः परौ लिङ्सिचौ आत्मनेपदेशु झलादी कितौ भवतः। कृषीष्ट। हृषीष्ट। सिचः खल्वपि अकृत। अहृत। झलित्येव। वरिषीष्ट। अवरिष्ट। वृऋतो वा ७।२।३८ अवरीष्ट।
लघु-सिद्धान्त-कौमुदी
उश्च ५४६, १।२।१२

ऋवर्णात्परौ झलादी लिङ्सिचौ कितौ स्तस्तङि। भृषीष्ट। भृषीयास्ताम्। अभार्षीत्॥
न्यासः
उश्च। , १।२।१२

लिङसिचाविहानुवर्तमानौ धातुं सन्निधापयतः, तत एव तयोर्विधानात्। न च ऋकारेण विशिष्यते। "येन विधिस्तदन्तस्य " १।१।७१ इति ऋकारेण तदन्तविधिर्विज्ञायत इत्याह--"ऋकारान्ताद्धातोः" इत्यादि। अथ "ऋ गतौ" (धा।पा।१०९८) इत्यस्य धातोग्र्रहणं कस्मान्न भवति? शैलीहेयमाचार्यस्य यत्र यस्य धातोग्र्रहणमिच्छति तत्र यस्य श्तिपा निर्देशः करोति, यथा-- "अर्तिपिपत्र्योश्च" ७।४।७७ "सर्तिशास्त्यर्तिभ्यश्च" ३।१।५६ इति, न चेह श्तिपा निर्देशः कृतः; तस्मादृवर्ण्सयैवेदं ग्रहणम्, न धातोः। "अकृत" इति। "ह्यस्वादङ्गात् ८।२।२७ इति सिचो लोपः। "वरिषीष्ट" इति। वृङो वृञो वैकस्य रूपम्। "लिङसिचोरात्मनेपदेषु" ७।२।४२ इतीट्।
बाल-मनोरमा
उश्च २०५, १।२।१२

आशीर्लिङि भृषीष्टेत्यत्र गुणे प्राप्ते-- उश्च। "लिङ्गिचावात्मनेपदेषु" इति सूत्रमनुवर्तते। "इको झ"लित्यतो झलिति च। तदाह--ऋवर्णादिति। भृषीष्टेति। कित्त्वान्न गुणः। अभार्षीदिति। परस्मैपदे सिचि वृद्धौ रपरत्वम्।

तत्त्व-बोधिनी
उश्च १७७, १।२।१२

उश्च। "इको झ"लित्यतो झल्ग्रहणं , "लिङ्सिचौ" इति पूर्वसूत्रं चानुवर्तते। तदाह-- ऋवर्णादित्यादि। अभार्षीदिति। "सिचि वृद्धि"रिति वृद्धिः।