पूर्वम्: १।२।१४
अनन्तरम्: १।२।१६
 
प्रथमावृत्तिः

सूत्रम्॥ यमो गन्धने॥ १।२।१५

पदच्छेदः॥ यमः ५।१ १६ गन्धने ७।१ सिच् १।१ १४ आत्मनेपदेषु ७।३ ११ कित् १।१

अर्थः॥

गन्धने अर्थे वर्त्तमानात् यम्-धातोः परह् सिच् आत्मनेपदविषये किद्वत् भवति। गन्धनम् = सूचनम्, परस्य दोषाविष्करणम्

उदाहरणम्॥

उदायत, उदायसाताम्, उदायसत।
काशिका-वृत्तिः
यमो गन्धने १।२।१५

सिच आत्मनेपदेषु इति वर्तते। यमेर् धातोर् गन्धने वर्तमानात् परः सिच् प्रत्ययः किद् भवति आत्मनेपदेषु परतः। गन्धनं सूचनं, परेण प्रच्छाद्यमानस्यावद्यस्याविष्करणम्। अनेकार्थत्वाद् धातूनां यमिस् तत्र वर्तते। उदयत, उदायसाताम्, उदायसत। सूचितवानित्यर्थः। सिचः कित्त्वादनुनासिकलोपः। आङो यमहनः १।३।२८ इत्यात्मनेपदम्। गन्धन इति किम्? उदायंस्त पादम्। उदायंस्त कूपादुदकम्। उध्दृतवानित्यर्थः। सकर्मकत्वे ऽपि समुद्दाङ्भ्यो य्मो ऽग्रन्थे १।३।७५ इत्यात्मनेपदम्।
न्यासः
यमो गन्धने। , १।२।१५

ननु च "यम उपरमे" (धा।पा।९८४) इति पठ()ते, तत् कथमयं गन्धने वर्तते, इत्यत आह-- "अनेकार्थत्वात्" इति। "आङो यमहनः" १।३।२८ इत्यत्र "अकर्मकाच्च" १।३।२६ इत्यतोऽकर्मकग्रहणमनुवर्तते। तत् कथमिह सकर्मकत्वे सत्यात्मनेपदमित्यत आह-- "सकर्मकत्वेऽपि इत्यादि। सकर्मकत्वन्तु पदादेः क्रमणोऽत्र विद्यमानत्वात्। "उदायंस्त पादम्" इति। आकृष्टवानित्यर्थः॥
बाल-मनोरमा
यमो गन्धने ५२२, १।२।१५

यमो गन्धने। सिच्कित्स्यादिति। शेषपूरणम्। सिचः कित्त्वे मकारस्य "अनुदात्तोपदेशे" ति लोपः।