पूर्वम्: १।२।१९
अनन्तरम्: १।२।२१
 
प्रथमावृत्तिः

सूत्रम्॥ मृषस्तितिक्षायाम्॥ १।२।२०

पदच्छेदः॥ मृषः ५।१ तितिक्षायाम् ७।१ निष्ठा १।१ १९ १८ सेट् १।१ १८ कित् १।१

अर्थः॥

तितिक्षायाम् अर्थे वर्त्तमानात् मृष्-धातोः परः सेट् निष्ठा-प्रत्ययः न कित् भवति। तितिक्षा = क्ष्मा।

उदाहरणम्॥

मर्षितः, मर्षितवान्।
काशिका-वृत्तिः
मृषस् तितिक्षायाम् १।२।२०

मृषेर् धातोः तितिक्षायाम् अर्थे निष्ठा सेण् न किद् भवति। तितिक्षा क्षमा। मर्षितः, मृषितवान्। तितिक्षायाम् इति किम्? अपमृषितं वाक्यम् आह।
न्यासः
मृषस्तितिक्षायाम्। , १।२।२०

तितिक्षा = क्षमा, क्षान्तिरिति। यद्येवम्, क्षान्तिग्रहणेव कत्र्तव्यम्,लघु ह्रेवं सूत्रं भवति? सत्यमेतत्; वैचित्र्यार्थं तु न कृतम्। "अपमृषितम्" इति। अपरामृष्टमित्यर्थः, अनेकार्थत्वातद्धातूनाम्। अनेकार्थत्वं तु तितिक्षाग्रहणाद्विज्ञायते। असति हि तत्र मृषस्तितिक्षायामेव पठ()त इति तन्न कुर्यात्, व्यवच्छेद्याभावात्।
बाल-मनोरमा
मृषस्तितिक्षायाम् ८६२, १।२।२०

मृषस्तितिक्षायाम्। तितिक्षा -- क्षमा। सेण्निष्ठा किन्नेति -- शेषपूरणमिदम्। "निष्ठा शी"ङित्यतो निष्ठेति, "न क्त्वा से"डित्यतः सेण्नेति, "असंयोगा"दित्यतः किदिति चानुवर्तत इति भावः।

तत्त्व-बोधिनी
मृषस्तितिक्षायाम्। ७०७, १।२।२०

अविस्पष्टमिति। मृषधातोस्तितिक्षायामेव वृत्तिसत्त्वेऽपि सूत्रस्थतितिक्षाग्रहणमेव ज्ञापयत्यनेकार्था धातव इति।