पूर्वम्: १।२।२२
अनन्तरम्: १।२।२४
 
प्रथमावृत्तिः

सूत्रम्॥ नोपधात्थफान्ताद्वा॥ १।२।२३

पदच्छेदः॥ नोपधात् ५।१ थफान्तात् ५।१ वा २६ क्त्वा १।१ २२ १८ सेट् १।१ १८ कित् १।१

समासः॥

न उपधायां यस्य सः नोपधः, तस्मात् नोपधात्, बहुव्रीहिः।
थश्च फश्च थफौ, थफौ अन्ते यस्य सः थफान्तः, तस्मात् थफान्तात्, द्वन्द्वगर्भो बहुव्रीहिः।

अर्थः॥

नकारोपधात् थकारान्तात् फकारान्तात् च धातोः परः सेट् क्त्वा प्रत्ययः वा न कित् भवति।

उदाहरणम्॥

ग्रथित्वा, ग्रन्थित्वा। गुफित्व, गुम्फित्वा।
काशिका-वृत्तिः
नौपधात् थफान्ताद् वा १।२।२३

निष्ठा इति निवृत्तम्। निकारौपधाद् धातोः थकारान्तात् फकरान्ताच् च परः क्त्वा प्रत्ययः सेड् व न किद् भवति। ग्रथित्वा, ग्रन्थित्व। श्रथित्वा, श्रन्थित्वा। गुफित्वा, गुम्फित्वा। नौपधातिति किम्? रेफित्वा। गोफित्वा। थफान्तातिति किम्? स्रंसित्व। ध्वंसित्वा।
न्यासः
नोपधात्थफान्ताद्वा। , १।२।२३

"निष्ठेति निवृत्तम्" इति। पूर्वसूत्रे चानुकृष्टत्वात्। "ग्रथित्वा" इति। कित्त्वपक्षे "अनिदिताम्" ६।४।२४ इत्यनुनासकिलोपः। "गुफित्वा" इति। "गुफ गुन्फ ग्रन्थे" (धा।पा।१३१७,१३१८) "रिफित्वा" इति। "रिफ कत्थनयुद्धनिन्दाहिंसादानेषु" (धा।पा।१३०६)। ननु चैतद्विक्पाभावेऽपि "रलो व्युपधात्" १।२।२६ इत्यादिनैवात्र विकल्पेन भवतव्यम्, न चानयोर्विकल्पयोः कश्चिद्विशेषोऽप्यस्ति? एवं तर्हि नोपधग्रहणसाम- थ्र्याद्योगान्तरकृतोऽपबि विकल्पोऽनेन बाध्यते। ननु च ऋकारोपधो नोपधग्रहणस्य प्रत्युदाहरणविषयो भविष्यति, "ऋफ ऋन्फ हिंसायाम्" (धा।पा।१३१५,१३१६), अर्फित्वेति, नैतद्स्ति; इहास्माभिरनयोर्धात्वो रूपत्रयं साध्यम्-- अर्फित्वा, ऋम्फित्वा, ऋफित्वेति। एतत् तु सत्यसति वा नोपधग्रहणऽनेनैव सिद्ध्यत्येव। सति तावन्नोपधग्रहणे, अनोपधस्य ऋफेः "न क्त्वा सेट्" १।२।१८ इति प्रतिषेधे सत्यर्फित्वेति सिद्ध्यति। नोपधस्य तु ऋम्फेरस्मिन् विकल्पे सति, ऋम्फित्वा ऋफित्वेतीदमपरं रूपद्वयं सिद्धयति। असत्यपि नोपधग्रहणे सर्वथास्मिन् विकल्पे सतीदं रूपत्रयं सिद्ध्यत्येव। तस्माद् युक्तमुक्तं प्रत्युदाहरणं रेपित्वेति। "येन विधिस्तदन्तस्य" १।१।७१ इति तदन्तविधौ सिद्धेऽन्तग्रहणम् "इह क्त्वाप्रत्यकाण्डे यत्नमन्तरेण तदन्तविधर्न भवति" इति ज्ञापनार्थम्। तेनोत्तरसूत्रे "ऋत" इति धातुः स्वरूपेण गृह्रते, न तु तदन्त इति।
तत्त्व-बोधिनी
नोपधात्थफान्ताद्वा १५९२, १।२।२३

नोपधात्थ। अन्तग्रहणं स्पष्टार्थम्। "थफा" दित्युक्तेऽपि धातोरेव क्तवाप्रत्ययविधानाद्विशेष्यसंनिधानेन तदन्तविधिना थफान्तादिति लाभात्। कोथित्वा। रेफित्वेति। कुथ पूतीभावे, रिफ कत्थनयुद्धनिन्दाहिंसादानेषु। इह "रलो व्युपधा" दिति विकल्पोऽपि न भवति, नोपधग्रहसामथ्र्यात्।