पूर्वम्: १।२।२४
अनन्तरम्: १।२।२६
 
प्रथमावृत्तिः

सूत्रम्॥ तृषिमृषिकृशेः काश्यपस्य॥ १।२।२५

पदच्छेदः॥ तृषि-मृषि-कृशेः ५।१ काश्यपस्य ६।१ वा २३ क्त्वा १।१ २२ १८ सेट् १।१ १८ कित् १।१

समासः॥

तृषिश्च मृषिश्च कृशिश्च, तृषिमृषिकृशि, तस्मात्, तृषि-मृषि-कृशेः, समाहारो द्वन्द्वः।

अर्थः॥

{ञितृष पिपासायाम् (दिवा॰ प॰)}, {मृष तितिक्षायाम् (दिवा॰ उ॰)}, {कृश तनूकरणे (दिवा॰ प॰)}, इत्येतेभ्यः धातुभ्यः परः सेट् क्त्वा वा न कित् भवति, काश्यपस्य आचार्यस्य मतेन।

उदाहरणम्॥

तृषित्वा, तर्षित्वा। मृषित्वा, मर्षित्वा। कृशित्वा, कर्षित्वा।
काशिका-वृत्तिः
तृषिमृषिकृशेः काश्यपस्य १।२।२५

न क्त्वा सेट् १।२।१८ इति प्रतिषेधे प्रापे कित्त्वं विकल्प्यते। तृषि मृषि कृशि इत्येतेभ्यः परः क्र्वा प्रत्ययः सेट् काश्यपस्य आचार्यस्य मते वा न किड् भवति। तृषित्वा, त्र्षित्वा। मृषित्व, म्र्षित्व। कृशित्व, कर्शित्वा। कश्यपग्रहणं पूजार्थम्। वा इत्येव हि वर्तते।
न्यासः
तृषिमृषिकृशेः काश्यपस्य। , १।२।२५

"ञितृषा पिपासायाम्" (धा।पा।१२२८), "मृष तितिक्षायाम्" (धा।पा।११६४), "कृश तनूकरणे" (धा।पा।१२२७)। "काश्यपग्रहणं पूजार्थम्" इति। "काश्यपस्यैवैतद्विषयकं ज्ञानं नान्येषाम्" इत्यसाधारणज्ञानोद्भावनमेव पूजा। तस् तत्पूजाद्वारेण शास्त्रस्यापि महार्थतोद्भावनलक्षणा पूजा कृता भवति। एवन्नाम शास्त्रस्य महार्थत्वं येन तथाविधा मुमुक्षवोऽप्याद्रियन्त इति। तेन विकल्पार्थं काश्यपग्रहणं कस्मान्न भवतीत्यत आह-- वेत्येव हि वत्र्तते" इति॥
तत्त्व-बोधिनी
तृषिमृषिकृशेः काश्यपस्य १५९४, १।२।२५

तृषिमृषि। ञितृषा पिपासायां, मृष तितिक्षायां, कृश तनूकरणे। "नोपधा"दित्यतो वेत्यनुवर्तनात्काश्यपग्रहणं पूजार्थम्। अञ्चेरिति। "उदितो वे"ति विकल्पप्राप्तावयमारम्भः। अञ्चित्वेति। "न क्त्वा से"डिति कित्त्वाऽभावान्नलोपो न। एवं चेह "नाञ्चेः पूजाया"मिति नलोपो नेति प्रसादकारोक्तिर्वृथेत्याहुः।