पूर्वम्: १।२।२५
अनन्तरम्: १।२।२७
 
प्रथमावृत्तिः

सूत्रम्॥ रलो व्युपधाद्धलादेः संश्च॥ १।२।२६

पदच्छेदः॥ रलः ५।१ व्युपधात् ५।१ हलादेः ५।१ सन् १।१ वा २३ क्त्वा १।१ २२ १८ सेट् १।१ १८ कित् १।१

समासः॥

उश्च इश्च वी {इको यणचि (६।१।६४) इत्यनेन यणादेशः}। वी उपधे यस्य सह् व्युपधः, तस्मात् व्युपधात्, द्वन्द्वगर्भो बहुव्रीहिः।

अर्थः॥

उकारोपधात् इकारोपधात् च, रलन्तात् हलादेः धातोः परः सेट् सन्, सेट् क्त्वा च वा कितौ न भवतः।

उदाहरणम्॥

द्युतित्वा, द्योतित्वा, लिखित्वा, लेखित्वा। दिद्यतिषते, दिद्योतिषति, लिलिखिषति, लिलेखिषति।
काशिका-वृत्तिः
रलो व्युपधद्धलादेः संश् च १।२।२६

वा इति वर्तते सेटिति च। उश्च इश्च वी। वी उपधेयस्य स व्यौपधः। उकारौपधादिकारौपधच् च धातो रलन्ताद्धलादेः परः संश्च क्त्वा च सेटौ व कितौ भवतः। द्युतित्वा, द्योतित्वा। दिद्युतिषते, दिद्योतिषते। लिखित्वा, लेखित्वा। लिलिखिषति, लिलेखिषति। रलः इति किम्? देवित्वा, दिदेविषति। व्युपधातिति किम्? वर्तित्वा, विवर्तिषते। हलादेः इति किम्? एषित्व, एषिषिष्ति। सेटित्येव। भुक्त्वा, बुभुक्षते।
न्यासः
रलो व्युपधाद्धलादेः संश्च। , १।२।२६

क्त्वाप्रत्ययश्च "न क्त्वा सेट्" १।२।१८ इति कित्त्वे प्रतिषिद्धे सनोऽप्यकित्वे स्वभावत एव व्यवस्थित उभयत्रेदं विधिमुखेनैव प्रवत्र्तत इतिपक्षे कित्त्वं भवतीति। "{दिद्युतिषते" -- काशिका,पदमंजरी च} विदद्युतिषते" इति। "द्युतिस्वाप्योः संप्रासरणम्" ७।४।६७ इत्यभ्यासस्य संप्रासरणम्। "एषिषिषति" इति। "इषु इच्छायाम्" (धा।पा।१३५१), इडागमे कृते "अजादेर्द्वितीयस्य" ६।१।२ इति द्वितीयस्यैकाचो द्विर्वनचम्। "बुभुक्षते" इति। "हलन्ताच्च" २।१।१० इति नित्यं कित्त्वं भवति। लाघवार्थम् "इणुपधात्" इति वाच्ये, इण्ग्रहणानि सर्वाणि परेम णकारेणेति ज्ञापनार्थं "व्युपधात्" इत्युक्तम्। तेन "लण्" इत्यत्र यदुक्तम्-- "इण्ग्रहणानि सर्वाणि परेण णकारेण" इति तदुपपन्नं भवति॥
बाल-मनोरमा
रलो व्युपधाद्धादेः संश्च ४४४, १।२।२६

रलो। क्त्वासनाविति। चकारेण पूङः क्त्वा चे"त्यतः क्त्वाया अनुकर्षादिति भावः। सेटाविति। "न क्त्वा सेडि"त्यतस्तदनुवृत्तेरिति भावः। वा किताविति। "नोपधात्थफान्ताद्वे"त्यतः "असंयोगाल्लिट्कि"दित्यतश्च तनदुवृत्तेरिति भावः। दिद्युतिषते इति। "द्युत दीप्तौ" अनुदात्तेत्। सनि द्वित्वे कित्त्वात् "द्युतिस्वाप्यो"रित्यभ्यासस्य संप्रसारणे पूर्वरूपे सनः कित्त्वान्न लघूपधगुण इति भावः। सनः कित्त्वाऽभावे आह-- दिद्योतषते इति। "पूर्ववत्सनः" इत्यात्मनेपदम्। एषिषिषतीति। इष्()धातोः सन्। इट्। हलादित्वाऽभावेन कित्तवाऽभावाद्गुणे एष् इस ति इति स्थिते "अजादेर्द्वितीयस्ये"ति षिस् इत्यस्य द्वित्वे हलादिशेषे सनः षत्वे रूपम्। नन्विह सत्यपि कित्त्वे नित्यत्वात्परमपि गुणं बाधित्वा षिसित्यस्य द्वित्वे धात्ववयवस्य इकारस्य उपधात्वाऽभावादेव गुणाऽप्रसक्तेर्हलादेरिति व्यर्थमित्यत आह -- इह नित्यमपि द्वित्वं गुणेन बाध्यते इति। कुत इत्यत आह-- उपधाकार्यं हि द्वितवात्प्रबलमिति। तच्च कुत इत्यत आह-- ओणेरिति। ओणेः ऋदित्करणस्य ज्ञापकत्वादित्यन्वयः। तथाहि -- ओणृधातोण्र्यन्ताल्लुङि चङि "णौ चङ्युपधायाः" ह्यस्वस्य "नाग्लोपिशास्वृदित#आ" मिति निषेधे सति ओणि अ त् इति स्थिते णि इत्यस्य द्वित्वे मा भवानोणिणदिति रूपम्। अत्र उपधाह्यस्वनिषेधार्थमोणेरृदित्करणम्। उपधाह्यस्वे कृते तु उण् इ अ त् इति स्थिते णीत्यस्य द्वित्वे मा भवानुणिणदिति स्यात्, ओकारो न श्रूयेयेति स्थितिः। यदि तु नित्यत्वादुपधाह्यस्वत्प्रागेव ओण् इ अ त् इत्यस्यां दशायां द्वित्वं स्यात्तदा ओकारस्य उपधात्वाऽभावादेव ह्यस्वाऽप्रसक्तेस्तन्निषेदार्थमृदित्करणमनर्थकं स्यात्।तस्मादुपधाह्यस्वात्मकमुपधाकार्यं द्वित्वात्प्रबलमिति विज्ञायते इत्यर्थः। ननु भवतु उपधाह्यस्वो द्वित्वात्प्रबलः, प्रकृते तु उपधागुणः कथं द्वित्वात्प्रबलः स्यादित्यत आह-- सामान्यापेक्षेति। उपधाह्यस्वस्य उपधाह्यस्वस्य उपधाकार्यत्वेन रूपेण द्वित्वात्प्राबल्यविज्ञानादित्यर्थः। वस्तुतस्तु "णौ चङ्युपधायाः" इति सूत्रे"यदमोणिमृदितं करोति तज्ज्ञापयति द्विर्वचनाद्ध्रस्वत्वं बलीय" इति विशिष्य उपधाह्यस्वग्रहणात्सामान्यापेक्षत्वं ज्ञापकस्य चिन्त्यमिति शब्देन्दुशेखरे प्रपञ्चितम्।

तत्त्व-बोधिनी
रलो व्यपधाद्धलादेः संश्च ३८७, १।२।२६

रलो व्युपधा। "न क्त्वा से"डित्यतः सेडिति वर्तते। चकारेण क्त्वायाः सङ्ग्रहः। "असंयोगा"दित्यतः किदिति, "नोपधा"दित्यतो वेति चानुवर्तते। तदाह- क्त्वासनावित्यादि। सेट् किम्?। भित्त्वा। छित्त्वा। बुभुक्षते।