पूर्वम्: १।२।२६
अनन्तरम्: १।२।२८
 
प्रथमावृत्तिः

सूत्रम्॥ ऊकालोऽज्झ्रस्वदीर्घप्लुतः॥ १।२।२७

पदच्छेदः॥ ऊकालः १।१ अच् १।१ ३१ ह्रस्व-दीर्घ-प्लुतः १।१ ३१

समासः॥

उ, ऊ, ऊ३कालः इति {अकः सवर्णे दीर्घः (६।१।९७)} इत्यनेन त्रयाणाम् उकाराणां दीर्घत्वम्) ऊकालः। कालशब्दः प्रत्येकम् उकारं प्रति सम्बध्यते, उकालः, ऊकालः, ऊ३कालः इति॥ उ ऊ ऊ३कालः इव कालः यस्य अचः सः ऊकालः, बहुव्रीहिः।
ह्रस्वश्च दीर्घश्च प्लुतश्च, ह्रस्वदीर्घप्लुतः, इतरेतरद्वन्द्वः। ह्रस्वदीर्घप्लुतः इत्यत्र {सुपां सुलुक्॰ (७।१।३९)} इत्यनेन जसः स्थाने सुः॥ यद्वा ह्रस्वदीर्घप्लुतः इत्यत्र स्माहारो द्वन्द्वः, छान्दसत्वात् नपुंसकताऽभावः।

अर्थः॥

उ ऊ ऊ३ मात्रिक-द्विमात्रिक-त्रिमात्रिक इत्येवं कालः यः अच् सः यथासङ्ख्यं ह्रस्व-दीर्घ-प्लुत-संज्ञकः भवति।

उदाहरणम्॥

ह्रस्वः - दधिच्छत्रम्, मधुच्छत्रम्। दीर्घः - कुमारी, गौरी। प्लुतः - देवदत्त३अत्र न्वसि।
काशिका-वृत्तिः
ऊकालो ऽज्झ्रस्वदीर्घप्लुतः १।२।२७

ऊ इति त्रयाणाम् अयं मात्रिकद्विमात्रिकत्रिमात्रिकाणां प्रश्लिष्टनिर्देशः। ह्रस्वदीर्घप्लुतः इति द्वन्द्वैकवद् भावे पुंल्लिङ्गनिर्देशः। उ ऊ ऊ३ इत्येवं कालो अज् यथाक्रमं ह्रस्वदीर्घप्लुतः इत्येवं संज्ञो भवति। उकालो ह्रस्वः दधि। मधु। ऊकालो दीर्घः कुमारी। गौरी। ऊ३कालः प्लुतः देवदत्त३ अत्र न्वसि। कालग्रहणं परिमाणार्थम्। दीर्घप्लुतयोः ह्रस्वसंज्ञा मा भूत्। आलूय, प्रलूय, ह्रस्वस्य पिति कृति तुक् ६।१।६९ इति तुङ् न भवति। अज्ग्रहणं संयोगाच्समुदायनिवृत्त्यर्थम्। प्रतक्ष्य, प्ररक्ष्य, ह्रस्वाश्रयस् तुङ् मा भूत्। तितौच्छात्रम्, दीर्घात् ६।१।७३, पदान्ताद् वा ६।१।७३ इति विभाषा तुङ् मा भूत्। ह्रस्वदीर्घप्लुतप्रदेशाः ह्रस्वो नपुंसके प्रातिपदिकस्य १।२।४७। अकृत्सर्वधातुकयोर् दीर्घः ७।४।२५। वाक्यस्य टेः प्लुत उदात्तः ८।२।८२
लघु-सिद्धान्त-कौमुदी
ऊकालोऽज्झ्रस्वदीर्घप्लुतः ५, १।२।२७

उश्च ऊश्च ऊ३श्च वः; वां कालो यस्य सोऽच् क्रमाद् ह्रस्वदीर्घप्लुतसंज्ञः स्यात्। स प्रत्येकमुदात्तादि भेदेन त्रिधा।
न्यासः
ऊकालोऽज्झ्रस्वदीर्घप्लुतः। , १।२।२७

ऊः कालो यस्याचः स ऊकालः। ननु चायुक्तोऽयं निर्देशः, तथा हि-- ऊ इति शब्दः कालस्तु क्रिया, तत् कुतोऽत्र सामानाधिकरण्यम्? नैष दोषः; यस्मात् "ऊ" इत्येतत्सहचरितायामुच्चारणक्रियायामिह साहचर्यात् "ऊ" इत्येष शब्दो वत्र्तते, एवमप्ययुक्तम्; यतः "ऊ" इत्येतत्सहचरितं यदुच्चारणं तदूकारस्यैव, नान्यस्याचः। तत्कथं सोऽन्यसम्ब्नधिन्या क्रियया ऊकारलः स्यात्, न हि यज्ञदत्तसम्बन्धिनीभिश्चित्रगवीभिर्देवदत्तश्चित्रगुर्भवति? अयमप्यदोषः; वत्यर्थस्येह गमयन्तीत्युक्तमेतत्। तदेतदुक्तं भवति-- "ऊ" इत्येतत्सहचिरतयोच्चारणक्रियया तुल्योच्चारणक्रिया कालालख्या यस्याचः स ऊकाल इति। ननु च ऊकाल इत्येकः संज्ञी, संज्ञास्तु तिस्त्रः, ततो वैषम्यात् संख्यातानुदेशो न प्राप्नोतीति यो मन्येत, तं प्रत्याह-- "ऊ इति त्रयाणाम्" इत्यादि। मात्रिकाणां त्रयाणामकः सवर्णे ६।१।९७ दीर्घत्वमेकादेशं कृत्वा "ऊ" इति निर्देशः कृत इत्यर्थः। कुतः पुनरेतद्विज्ञायते त्रयाणामेकः प्रश्लेषनिर्देश इति? तिसृणां संज्ञानां विधानसामथ्र्यात्। न ह्रेकस्य भिन्नप्रयोजनमन्तरेणानेकसंज्ञाविधानमर्थवद्भवति। न चेहैकस्यानेकसंज्ञाकरणे भिन्नप्रयोजनमस्ति। "ह्यस्वदीर्घप्लुत" इति यद्येक एवायं शब्दः संज्ञा स्यात्, लाघवार्थत्वात् संज्ञाकरणस्य, महत्याः संज्ञायाः करणमयुक्तं स्यात्। किञ्च-- आवृत्तिधर्माणः संज्ञाशब्दाः प्रदेशेषु भवन्ति, न चायं समुदाय संज्ञाशब्दाः प्रदेशेषु भवन्ति, न चायं समुदायः प्रदेशेष्वावत्र्यते,अपि तु प्रत्येकं ह्यस्वादिशब्दाः। तस्मात् तेषां द्वन्द्वं कृत्वा निर्देश इति मत्वाह- "ह्यस्वदीर्घप्लुतः" इत्यादिः। द्वन्द्वैकवद्भावस्तु "सर्वो द्वन्द्वो विभाषयैकवद्भवति" इति वचनात्। ननु च द्वन्द्वैकवद्भावे "स नपुंसकम्" २।४।१७ इति नुपंसकत्वेन भवितव्यम्, तत्कथं पुंल्लिङ्गेन निर्देशः, सौत्रत्वान्निर्देशस्य। छन्दसि "व्यत्ययो बहुलम्" ३।१।८५ इति लिङ्गव्यत्यय उक्तः। "छन्दोवत्सूत्राणि भवन्ति" (म।भा।१।१।१) इत्यविरुद्धास्य पुंल्लिङ्गता। उ ऊ ऊ३ इत्यनया आनुपूर्व्यैषां प्रश्लेष इति दर्शयति। कुतः पुनरेष निश्चयः-- एषैवैषामानुपूर्वीति? एवं मन्यते-- "विभाषा पृष्टप्रतिवचने हेः" ८।२।९३ इत्येकमात्रिकस्य हेः प्लुतविधानाज्ज्ञायते-- न मात्रिकोऽन्त्य इति। अन्त्यत्वे हि सति तस्य प्लुतसंज्ञा स्यात्। एवञ्च प्लुतविधानमनर्थं स्यात्। द्विमात्रिकोऽप्यन्त्यो न भवति; "ओमभ्यादाने" ८।२।८७ इति द्विमात्रिकस्य प्लुतविधानात्। तस्य चान्त्यत्वे हि सति यदि प्लुतसंज्ञा स्यात्, तदा च प्लुतस्य प्लुतविधानमनर्थकं स्यात्। तसमादन्ते एकमात्रिकद्विमात्रिकौ न भवतः। मध्येऽप्येकमात्रिको न भवति, "अतो दीर्घो यञि" ७।३।१०१ इति "सुपि च" ७।३।१०२ इतिच दीर्घविधानसामथ्र्यात्। यदि मध्य एकमात्रिकः स्यात् तदा तस्य दीर्घसंज्ञा स्यात्,दीर्घस्य दीर्घवचनमकिञ्चित्करं स्यात्, तस्मादादावेकमात्रिकत्वे हि सति पारिशेष्यान्मध्ये द्विमात्रिकः, अन्ते त्रिमात्रिक इति। "उ ऊ ऊ३" इति। अत्राप्युकारादिसहचरितायामुच्चारणक्रियायमुकारादयो वत्र्तन्ते। एवं कालोऽजिति यकारस्य लोपः। ननु चोकारोऽयमण् गृह्रमाणः सवर्णान् गृह्णातीत्यत उकारेण दीर्घप्लुतयोग्र्रहणे सति तयोरपि ह्यस्वसंज्ञा भवतीत्यत आह- "कालग्रहणम्" इत्यादि। कालग्रहणे हि येषामेताःसंज्ञा विधीयते तेषां यथाक्रममेकमात्रिकत्व द्विमात्रिकत्वत्रिमात्रिकत्वानि विशेषणानि लभ्यन्ते। तथा हि, कालग्रहणेसति प्रत्येकं वाक्यपरिसमाप्तौ क्रियमाणायां त्रयो बहुव्रीहयो भवन्ति- उः कालो यसय् स उकालः, ऊः कालो यस्य स ऊकालः, ऊ३#ःकालो यस्य सः ऊ३ कालः। एषां यथार्ममेकमात्रिकद्विमात्रिकत्रिमात्रिका अचोऽन्यपदार्थाः। यस्मान्मात्रिक एवाचः "उ" इत्येतत्सहचारिण्या उच्चारमक्रियायास्तुल्यकालः; एवं द्विमात्रिक एवाच "ऊ" इत्येतत्सहचारिण्या उच्चारणक्रियायास्तुल्यकालः; एवं त्रिमात्रिक एवाच "ऊ३" इत्येतत्सहचारिण्या उच्चारणक्रियायास्तुल्यकालः। एवं च सति मात्रापरिमाणस्याचो ह्यस्वसंज्ञा विधीयमाना सत्यप्युकारेण दीर्घप्लुतयोग्र्रहणे तयोर्न भवति, न हि तौ मात्रा परिमाणौ। तेन आलूय, परिणीयेत्यत्र ह्यस्वाश्रयस्तुङ न भवति। "प्रत्यक्ष्य, प्ररक्ष्य" इति। "तक्षू त्वक्षू तनूकरणे" (धा।पा।६५५, ६५६) "रक्ष पालने" (धा।पा।६५८) "कुगतिप्रादयः" २।२।१८ इति समासे कृते "समासेऽनञ्पूर्वे क्त्वो ल्यप्" ७।१।३७ इति ल्यप्। तत्र परतो द्वयोरर्धमातर्योर्हलोः संयोगसंज्ञिनोरूकाल्त्वमस्तीत्यसत्यज्ग्रहणे ह्यस्वसंज्ञा स्यात्, ततश्च ह्यस्वाश्रयस्तुक प्रसज्येत। "तितौच्छत्रम्" इति। अत्राकारोकारचोः समुदायस्य ऊकालत्वाद् द्विमात्रिकत्वमस्तीति दीर्घसंज्ञा स्यात्। ततश्च "पदान्ताद्वा" ६।१।७३ इति विकल्पितस्तुक् प्रसज्येत। अज्ग्रहणे तु सति दीर्घसंज्ञा न भवति,अच्समुदायस्याज्ग्रहणेनाग्रहणात्। ननु च सत्यामपि तस्यां समुदायाश्रयायां दीर्घसंज्ञायायमवयवाश्रया ह्यस्वसंज्ञा भविष्यति। तदाश्रयस्तुङनित्य एव, नैतदस्ति; परत्वाद्दीर्घाश्रयस्तुग्विकल्पः प्राप्नोति। न चैवं विधविषये पुनः प्रसङ्गविज्ञानमस्ति; यत्र पूर्वो विधिः प्रवत्र्तमानः परविधिविज्ञानं न बाधते तत्रैतद्भवति-- "पुनः प्रसङ्गविज्ञानात् सिद्धम्" इति, इह तु नित्यो विधिः परविधिविकल्पविज्ञानं बाधते; नित्यविकल्पयोर्विरोधात्। ततश्च "सकृद्गतौ विप्रतिषेधे यद्बाधितं तद्बाधितमेव" (व्या।प।४०) इति परिभाषयैव विकल्पः स्यात्। तस्मादज्ग्रहणं
बाल-मनोरमा
ऊकालोऽज्झ्रस्वदीर्घप्लुतः ६, १।२।२७

तदेवमणादिसंज्ञासु सिद्धासु अचो ह्यस्वादिसंज्ञां विधत्ते--ऊकालोऽजिति। "ह्यस्वदीर्घप्लुत" इति समाहारद्वन्द्वः। सौत्रं पुंस्त्वम्। इतरेतरयोगद्वन्द्वो वा। तथा सत्येकवचनमार्षम्। उ ऊ ऊ३ इति त्रयाणां एकमात्रद्विमात्रत्रिमात्राणां द्वन्द्वसमासे सति सवर्णदीर्घेण ऊ इति प्रश्लिष्टनिर्देशः। तेषां कालः ऊकालः। कालशब्दो मात्रापर्यायः कालसदृशे लाक्षणिकः। ऊकालः कालो यस्येति विग्रहः। "सप्तम्युपमानपूर्वपदस्य बहुव्रीहिर्वाच्यो वा चोत्तरपदलोपः" इति द्विपदो बहुव्रीहिः। ऊकालशब्दे पूर्वपदे उत्तरखण्डस्य कालशब्दस्य लोप इत्यभिप्रेत्य फलितमाह--वां काल इवेत्यादिना। "वः" इति ऊशब्दस्य प्रथमाबहुवचनम्। वामिति षष्टीबहुवचनम्। वां काल इव कालो यस्येति फलितार्थकथनम्। उक्तरीत्या द्विपद एव बहुव्रीहिः। क्रमादिति।

यथासंख्यसूत्रलभ्यमेतत्। इहैव तत्सूत्रमुपन्यसितुमुचितम्। नच उ ऊ ऊ३ इत्युवर्णानां कथं ह्यस्वदीर्घप्लुतसंज्ञाः, तेषामूकालसदृशकालत्वाऽभावात्, सादृश्यस्य भेदनिबन्धनत्वादिति वाच्यम्। ऊ शब्दस्यात्र एकमात्रद्विमात्रत्रिमात्रकुक्()कुटरुतानुकरणत्वात्। स इति। सः=ह्यस्वः दीर्घः प्लुतश्च अच्, प्रत्येकमुदात्तादिभेदेन=उदात्तत्वेनानुदात्तत्वेन स्वरितत्वेन च धर्मविशेषण, त्रिधा = त्रिभिः प्रकारैर्वर्तत इत्यर्थः।

तत्त्व-बोधिनी
ऊकालोऽज्झ्रस्वदीर्घप्लुतः ८, १।२।२७

ऊकालोऽज्झ्रस्वदीर्घप्लुत इति। समाहारद्वन्द्वे सौत्रं पुंस्त्वम्। "ऊ" इति त्रयाणां प्रश्लेषेण निर्देश इत्याह-उश्च ऊश्च ऊश्चेति। वः। वामिति। त्रयाणां सवर्णदीर्घे कृते जसि परतो यणि-वः। आमि तु वाम्। वां काल इव कालो यस्येति। फलितार्थकथनमिदम्। विग्रहस्तु वः कालो यस्येति बोध्यः। "ऊ" शब्देन स्वोच्चारणकालो लक्ष्यते। अच् किम्?। संयोगस्य माभूत्, प्रतक्ष्य, प्ररक्ष्य। कषयोरेकमात्रत्वेन ह्यस्वसंज्ञायां "ह्यस्वस्य पिति कृति-" इति तुक् स्यात्। आ ये इति। "निपाता आद्युदात्ताः" इत्याकार उदात्तः। यच्छब्दस्तु "फिष" इत्यन्तोदात्तः। ततः परस्य जसः सुप्त्वादनुदात्तत्वम्, त्यदाद्यत्वे शीभावे आद्गुणे च सति "एकादेश उदात्तेन" इत्येकार उदात्तः।