पूर्वम्: १।२।२८
अनन्तरम्: १।२।३०
 
प्रथमावृत्तिः

सूत्रम्॥ उच्चैरुदात्तः॥ १।२।२९

पदच्छेदः॥ उच्चैः उदात्तः १।१ अच् १।१ २७

अर्थः॥

ताल्वादिषु हि भागवत्सु स्थानेषु वर्णाः निष्पद्यन्ते, तत्र यः समाने स्थाने ऊर्ध्वभागनिष्पन्नः अच्, सः उदात्तसंज्ञः भवति। अत्र महाभाष्यकारः आह -- आयामो दारूण्यमणुता खस्येति उच्चैःकराणि शब्दस्य -- इति। आयामः = गात्राणां निग्रहः। दारुण्यम् = स्वरस्य दारुणता, रूक्षता। अणुता स्वस्य = कण्ठस्य संवृतता, उच्चैःकराणि शब्दस्य।

उदाहरणम्॥

औ॒प॒ग॒वः, ते, ते, के॥
काशिका-वृत्तिः
उच्चैरुदात्तः १।२।२९

अचिति वर्तते। उदात्ताऽदिशब्दाः स्वरे वर्णधर्मे लोकवेदयोः प्रसिद्धा एव। ते इह तद्गुणे ऽचि परिभाष्यन्ते। उच्चैरुपलभ्यमानो यो ऽच् स उदात्तसंज्ञो भवति। उच्चैः इति च श्रुतिप्रकर्षो न गृह्यते, उच्चैर् भाषते, उचैः पठति इति। किं तर्हि? स्थानकृतम् उच्चत्वं संज्ञिनो विशेषणम्। ताल्वादिषु हि भागवत्सु स्थानेषु वर्णा निष्पद्यन्ते। तत्र यः समाने स्थाने ऊर्ध्वभगनिष्पन्नो ऽच् स उदात्तसंज्ञो भवति। यस्मिन्नुचार्यमाणे गात्राणामायामो निग्रहो भवति, रूक्षता अस्निग्धता स्वरस्य, संवृतता क्ण्ठविवरस्य। ये। ते। के। उदात्तप्रदेशाःआद्युदात्तश्च ३।१।३ इत्येवम् आदयः।
लघु-सिद्धान्त-कौमुदी
उच्चैरुदात्तः ६, १।२।२९

न्यासः
उच्चैरूदात्तः। , १।२।२९

उदात्तादयो लोकवेदयोः प्रसिद्धाः। तत् किं संज्ञाकरणेनेति यश्चोदयेत् तं प्रत्याह-- "उदात्तादिशब्दाः" इत्यादि। आदिशब्देनानुदात्तस्वरितयोः परिग्रहः। एवकारो भिन्नक्रमो वर्णधर्मे इत्यस्यानन्तरं द्रष्टव्यः। लोकवेदयोरुदात्तादयः शब्दा वर्णनां यो धर्मः = गुणस्तत्रैव प्रसिद्धाः, न तु तद्वित्यचि। तस्मादिह व्याकरण उदात्तादयो धर्मा यस्याचस्तद्गुणेऽचि संज्ञाप्यन्ते = परिभाष्यन्ते; अन्यथा प्रदेशेषूदात्तादिशब्दश्रवणाद्वर्णधर्म एव गृह्रेत, न तद्वानजित्यभिप्रायः। उच्चैरिति श्रुतिप्रकर्षेऽस्ति-- श्रुतिप्रकर्षवत्युच्चैर्भाषते उच्चः पठतीति। अस्ति च प्रमाणाधिकरणवाची उच्चैः स्थितो देवदत्त इति, उच्चैर्नाम प्रमाणम्, तस्य तदधिकरणं तदिहोच्चैः शब्देनोच्यते। तदिह द्वितीयस्योच्चैः शब्दस्यार्थो गृह्रते, नेतरस्येति दर्शयितुमाह-- "उच्चैः" इति। उच्चैर्भाषते इत्येवमादौ तु वाक्ये प्रयुक्तस्योच्चैः शब्दस्य योऽर्थः श्रुतिप्रकर्षः स उच्चैरित्यत्र न गृह्रते। यदि गृह्रेत, उपांशुप्रयोग उदात्तादिसंज्ञा न स्यात्; प्रकर्षाभावात्, प्रकर्षस्थितत्वादुदात्तादयो न विशिष्येरन्। य एव हि कञ्चित् प्रत्युच्चैर्भवति, स एव हि कञ्चित्प्रतति नीचैर्भवति। एवञ्च सर्वमुदात्तं स्यात्, अनुदात्ततमोऽपि चेष्यत इत्यभिप्राय। "स्थानकृतम्" इत्यादि। उच्यता नाम प्रमाणविशेषः, तदधिकरणभूतस्थानमुच्चैर्भवति। एवञ्च सर्वनमुदात्तं न स्यात्। अनुदात्तमुच्चैरुच्यत इत्यर्थः। "भागवत्सु" इति। भागा अवयवा येषां तानि भागवन्ति। ते भागास्ताल्वादिषु स्थानेष्वौत्तराधर्येण व्यवस्थिताः। स्थानमुच्चैः शब्देनोच्यते, तत् कुतः संज्ञिन उच्चैस्त्वविशेषणम्? उच्चैस्थाननिष्पन्नत्वात्। तत्र समाने स्थान उच्चैरूध्र्वभागे यो निष्पन्नः स उदात्तसंज्ञो भवति। यदि स्थाने य ऊध्र्वभागनिष्पन्नोऽच् स उदात्तसंज्ञो भवतीत्येतावदुच्यते, एवञ्च स एवानवस्थितदोषः। तथा हि- अल्पशरीरेषु य एव ताल्वादिभाग उच्चैर्भवति, स एव महाशरीरेषु ताल्वादिभागापेक्षया नीचैर्भवति। अतः "समान" इत्येतत् स्थानविशेषणमुक्तम्। एतच्च् लघ्वर्थत्वात् संज्ञाकरणस्यैकाक्षरायां संज्ञायां कर्तव्यायामनेकाक्षरसंज्ञाकरणाल्लभ्यते। ग्रन्थाधिक्यादर्थाधिक्यं भवतीति। ननु च ग्रन्थाधिक्यादत्र कश्चिदाचार्यस्याधिकोऽर्थोऽभिप्रेत इत्येतावन्मात्रं प्रतीयते, समानत्वमित्येषोऽर्थ विशेषः कुतो लभ्यते? अविच्छिन्नादुपदेशपारम्पर्यात्। तत् पुनः समानत्वं वक्त्रभिन्नत्वाद्वेदितव्यम्; न तु ताल्वादिस्थानस्याभिन्नत्वात्; अन्यथा तालव्यमेवापेक्ष्योदात्तः स्यात्, न तु कण्ठादीन्। वक्तुरभेदात् तद्()द्वारेण भिन्नानामपि ताल्वादीनां समानत्वेऽपि विज्ञायमान एष दोषो न भवति। किंलक्षणः पुनरसावुच्चभागनिष्पन्नोऽजित्याह-- "यस्मिन्" इत्यादि। "आयामः" इत्यस्य विवरणं "निग्रहः" इति। निग्रहः = स्तब्धता। संवृतकण्ठता = कण्ठविवरस्य संवृतता। अत एव शनैर्निष्क्रामन् वायुर्गलावयवाञ्शोषयति। रूक्षता भवत्यस्निग्धता। "ये ते के" इति। यत्त()त्कशब्देभ्यस्त्यदाद्यत्वम्, "अतो गुणे" ६।१।९४ पररूपत्वम्,"जसः शी" ७।१।१७, "आद्गुणः" ६।१।८४। अत्र प्रातिपदिकस्वरेण प्रकृतिरूदात्ता। "अनुदात्तौ सुप्पितौ" ३।१।४ इति विभक्तिस्वरः। एकादेशस्तु "एकादेश उदात्तेनोदात्तः" ८।१।५ इति॥
बाल-मनोरमा
उच्चैरुदात्तः ७, १।२।२९

उदात्तसंज्ञामाह--उच्चैरुदात्तः। नादधर्मविशेष उच्चैस्त्वं नेह विवक्षितम्, उपांशूच्चार्यमाणे अव्याप्तेः। किन्तूच्चैश्शब्दोऽधिकरणशक्ति प्रधान ऊध्र्वभागे इत्यर्थे वर्तते। ऊध्र्वावयवस्य चावयव्यपेक्षायां तालुकण्ठादिवर्णाभिव्यक्तिस्थानानामित्यर्थाल्लभ्यते। उकालोऽजिति सूत्रादजित्यनुवर्तते, तदेतदाह-ताल्वादिष्वित्यादिना। सभागेष्विति। ताल्वादीनां सावयवत्वकथनमूध्र्वभागे इत्यस्योपपादनार्थम्, तेषाम् अखण्डत्वे "ऊध्र्वभागे" इत्यनुपपत्तेः। उदात्तमुदाहरति-आ ये इति। "आये मित्रावरुणा" इत्यृचि आकार एकारश्च उदात्त इत्यर्थः।