पूर्वम्: १।२।३१
अनन्तरम्: १।२।३३
 
प्रथमावृत्तिः

सूत्रम्॥ तस्यादित उदात्तमर्धह्रस्वम्॥ १।२।३२

पदच्छेदः॥ तस्य ६।१ आदितः उदात्तम् १।१ अर्धह्रस्वम् १।१

समासः॥

अर्धं ह्रस्वस्य अर्धह्रस्वम्, {अर्धं नपुंसकम् (२।२।२)} इत्यनेन तत्पुरुषसमासः।

अर्थः॥

तस्य इति सापेक्षकं पदं स्वरितः इत्येतम् अनुकर्षति। {आदितः} इत्यत्र {तसिप्रकरणो आद्यादिभ्य उपसङ्ख्यानम् (वा॰ ५।४।४४)} इत्यनेन वार्त्तिकेन तसिः प्रत्ययः, {तद्धितश्चास॰ (१।१।३७)} इत्यनेनाव्ययत्वम्। अर्धह्रस्वमात्रम् अर्धह्रस्वं, मात्रचोऽत्र {प्रमाणे लो वक्तव्यः (वा॰ ५।२।३७)} इत्यनेन वार्त्तिकेन लोपः द्रष्टव्यः। तस्य स्वरितस्य आदौ, अर्धह्रस्वम् उदात्तं भवति, शेषम् अनुदात्तम्।

उदाहरणम्॥

क्व॑, क॒न्या॑॥
काशिका-वृत्तिः
तस्याऽदित उदात्तम् अर्धह्रस्वम् १।२।३२

उदात्तानुदात्तस्वरसमाहारः स्वरितः इत्युक्तम्। तत्र न ज्ञायते कस्मिन्नंशे उदात्तः कस्मिन्ननुदात्तः, कियान् वा उदात्तः कियान् वा अनुदात्तः इति। तदुभयम् अनेनाऽख्यायते। तस्य स्वरितस्य आदावर्धह्रस्वम् उदात्तम्, परिशिष्टम् अनुदात्तम्। अर्धह्रस्वम् इति च अर्धमात्रौपलक्ष्यते। ह्रस्वग्रहणम् अतन्त्रम्। सर्वेषाम् एव ह्रस्वदीर्घप्लुतानां स्वरितानाम् एष स्वरविभागः। शिक्यम् इत्यत्र अर्धमात्रा आदित उदात्त, अपरार्धमात्रा अनुदात्ता, एकश्रौतिर् वा। कन्या इत्यत्र अर्धमात्रा आदित उदत्ता अध्यर्धमात्रा अनुदात्ता। माणवक३ माणवक ८।२।१०३ इत्यत्र अर्धमात्रा आदित उदात्ता अर्धतृतीयमात्रा अनुदात्ता।
न्यासः
तस्यादित उदात्तर्धह्यस्वम्। , १।२।३२

आदौ = आदितः, सप्तम्य्रथे तसिः। अयमेव निर्देशो ज्ञापकः-- "आद्यादिभ्यस्तसिर्भवति" इत्यत्र। तेन तसिप्रकरणे "आद्यादिभ्यः उपसंख्यानम्" (वा।६३४) इत्येतन्न व्कतव्यं भवति। "अद्र्धह्यस्वम्" इति। ह्यस्वस्याद्र्धमित्यर्थः। "अर्धं नपुंसकम्" २।२।२ इति समासः। ततश्च "परवल्लिङ्गम्" २।४।२६ इत्यादिना पुंल्लिङ्गेन भवितव्यम्, ह्यस्वशब्दस्य पुंल्लिङ्गत्वात्, नैतदस्ति; ह्यस्वशब्दो हि प्रमाणविशेषं गुणमुपादाय प्रवृत्तः, "गुणवनचानाञ्चाश्रयलिङ्गवचनानि" इति गुणवचनत्वाच् शुक्लशब्द एव ह्यस्वशब्दस्त्रिलिङ्गः। "ह्यस्वः" इति मात्रिकस्य संज्ञा कृता, तस्यैव विभागः स्यात्, न तु दीर्घप्लुतयोरित्याशङ्क्याह-- "अद्र्धह्यस्वम्" इत्यादि। ह्यस्वस्याद्र्धमद्र्धमात्रा भवति, अतोऽद्र्धमात्रा भवति, अतोऽद्र्धह्यस्वग्रहणेनाद्र्धमात्रोपलक्ष्यते। तत एव च तस्येत्युक्तम्। त्रयाणां ह्यस्वदीर्घप्लुतानां स्वरितानां निर्देशार्थम्। यदि चाद्र्धह्यस्वग्रहणमद्र्धमात्रोपलक्षणम्, अतस्त्रयाणां निर्देशोऽर्थवान् भवति; नान्यथा। "ह्यस्वग्रहणमतन्त्रम" इति। अतन्त्रप्रधानम्, उपलक्षणार्थत्वात्। यथा काकेभ्यो दधि रक्ष्यतामित्यत्रकाकाः। तेन सर्वेषामेव ह्यस्वादीनामेष स्वरितविभागो भवति। नन्वेवमप्याष्टमिकस्य स्वरितस्य विभागो न सिध्यति, तस्यासिद्धत्वात्, नैतदेवम्; यस्मात् परविधिः पूर्वविधावसिद्धः। न चायं विधिः, किं तर्हि? तस्य विहितस्य विभागाख्यानार्थः। अथ वा-- "न मु ने" ८।२।३ इत्यत्र नेति योगविभागात् सिद्धं भवति॥।"एवश्रिर्वा" इति। पूर्वो भागोऽयमुदात्तः पटुतरः। तेनोपरज्यमानस्तद्रूपतामिवापन्नः परो भागः स्फटिकमणिरिवोपधानेनोपरक्तः शुद्धेनोदात्तेन भिन्नश्रुतिकत्वादनुदात्तव्यपदेशं नार्हति। उदात्तव्यपदेशमपि नार्हति; उपरागमात्रत्वात्। तस्मादेकश्रुतिरिति केचित्। अन्ये त्वाहुः-- पूर्वेण भागेनानुपजातरूपातिशयेन नोपरज्यते यदोत्तरभागस्तदा स्वेन रूपेण प्रतिभानादनुदात्त इति व्यपदिश्यते। यदा तूपधानेन स्फटिकमणिरिव पूर्वेण भागेन पटीयसोदात्तेनाभिभूयानुरज्यमानस्तद्रूपतामिवोपपद्यते तदैकश्रुतिरिति व्यपदिश्यते। पूर्वभागश्रुतेरभिन्नैका तुल्याकारा श्रुतिर्यस्येति कृत्वा। न हि तदानीं पूर्वोत्तरयोः स्वरितश्रुतिं प्रति कश्चित् भेदोऽस्ति; द्वयोरप्युदात्तगुणवत्तया प्रतीयमानत्वनादिति।
बाल-मनोरमा
तस्यादित उदात्तमर्धह्यस्वम् १०, १।२।३२

फलितमाह--उदात्तत्वानुदात्तत्वे इत्यादिना। ननु उदात्तत्वानुदात्तत्वयोरेकस्मिन्नपि मेलने कस्मिन्भागे उदात्तत्वस्य समावेशः , कस्मिन्भागे अनुदात्तत्वस्य समावेश इत्यत आह-तस्यादितः। तस्य = स्वरितस्य आदितः = पूर्वभागे अर्धह्यस्वमुदात्तमित्यर्थः प्रतीयते। एवं सति दीर्घस्वरिते इयं व्यवस्था न स्यात्। अत आह - ह्यस्वग्रहणतन्त्रमिति। तन्त्रं = प्रधानम्। "तन्त्रं प्रधाने सिद्धान्ते" इति कोशः। न विद्यते तन्त्रं वाच्यार्थलक्षणं प्रधानं यस्य तत् अतन्त्रं। अविवक्षितार्थकमित्यर्थः। ह्यस्वग्रहणं न कर्तव्यमिति यावत्। दीर्घस्वरितेऽप्युत्तरभागस्य वेदे अनुदात्तत्वदर्शनादिति भावः। ततश्च फलितमाह--स्वरितस्यादितोऽर्धमुदात्तं बोध्यमिति। ननु अनुदात्तत्वस्य निवेशव्यवस्था कुतो नोक्तेत्यत आह--उत्तरार्धं त्विति। ननु एवं सति अग्निमील इत्यत्र ईकारे स्वरिते कथमुत्तरार्धमनुदात्तं नेत्यत आह--तस्य चेति। चकारो वाक्यालङ्कारे। तस्य अनुदात्तभागस्य उदात्तस्वरितपरत्वे उदात्तस्वरितौ परो यस्मात् सः उदात्तस्वरितपरः। तस्य भावः उदात्तस्वरितपरत्वम्। उदात्तपरकत्वे स्वरितपरकत्वे वा सति श्रवणं स्पष्टं भवतीत्यर्थः। अन्यत्रेति। उदात्तस्वरितपरकत्वाभावे अनुदात्तप्रचयपरकत्वे, अनुदात्तभागस्य उदात्ततरत्वापरपर्याया उदात्तश्रुतिः ऋग्वेदप्रातिशाख्ये विहितेत्यर्थः। तत्र त्वेवमुक्तम्--अनुदात्तः परः शेषः स उदात्तश्रुतिर्न चेत्।उदात्तं वोच्यते किंचित्स्वरितं वाऽक्षरं परम्॥"

--इति स्वरिते पूर्वभागस्य उदात्तत्वे सति परः शेष उत्तरभागः अनुदात्तः प्रत्येतव्यः। सः परः शेषः उदात्तश्रुतिः क्वचिद्भवति। किं सर्वत्र एवं(), नेत्याह--न चेदित्यादिना। उदात्तं स्वरितं वा किञ्चिदक्षरं परं नोच्यते चेदिति योजना। तत्र अनुदात्तभागस्य स्पष्टं श्रवणमुदाह्मत्य दर्शयति--केत्यादिना इत्यादिष्वनुदात्त इत्यन्तेना तत्र "क्व" इति ह्यस्वस्वरितः। स तावत् "वो" इत्योकारात्मकोदात्तपरकः। "येऽरा" इत्येकारो दीर्घस्वरितः। स च "रा" इत्याकारात्मकोदात्तपरः। "शतचक्रं यो" इत्योकारः कम्पस्वरितः। स तु "ह्र" इत्यकारात्मकस्वरितपरकः। इत्येवमादिप्रदेशेषु अनुदात्तभागः स्पष्टं श्रूयत इत्यर्थः। अन्यत्र तूदात्तश्रुतिरित्येतदुदाह्मत्य दर्शयति-अग्निमीळे इत्यादावुदात्तश्रुतिरिति। पदकाले अग्निमित्यन्तोदात्तम्। ईळ इति अनुदात्तम्। तत्र "उदात्तादनुदात्तस्य स्वरितः" इति संहितायामीकारः स्वरितः। "स्वरितात्संहितायामनुदात्तानाम्" इत्येकारः प्रचयः। ततश्च ईकारः स्वरित उदात्तस्वरितपरको न भवतीति तदुत्तरभागस्य उदाह्मतप्रातिशाख्यवचनेन उदात्ततरत्वात्मिका उदात्तश्रुतिरेव भवतीत्यर्थः। तदेवमुदात्तह्यस्वः अनुदात्तह्रस्वः स्वरितह्यस्व इति ह्यस्वस्त्रिविधः। एवं दीर्घोऽपि त्रिविधः। तथा प्लुतोऽपि। ततश्च एकैकोऽच्? नवविध इति स्थितम्। स नवविधोऽपीति। उक्तरीत्या नवविधोऽपि सः = अच्, अनुनासिकत्वेन अननुनासिकत्वेन च द्विधा = द्वाभ्यां प्रकाराभ्यां वर्तते इत्यर्थः।

तत्त्व-बोधिनी
तस्यादित उदात्तमर्धह्यस्वम् १०, १।२।३२

अतन्त्रमिति। अविवक्षितमित्यर्थः। तस्य चोदात्तस्वरितपरत्व इति। उदात्तस्वरितौ परौ यस्मात्तदुदात्तस्वरितपरं, तस्य भावस्तत्त्वं, तस्मिन् सति=उदात्तो वा स्वरितो वा परश्चेत्पूर्वस्य स्वरितस्य यदुत्तराद्र्धमनुदात्तं तस्य श्रवणं स्पष्टमित्यर्थः। अन्यत्रेति। उदात्तस्वरितपरत्वाऽभावे। क्वेति। "किमोऽत्"। "तित्स्वरितम्"। व इति। अनुदात्तं सर्वमपादादौ" इत्यधिकारादनुदात्तः। अ()आआ इति। अशे क्वनि नित्स्लकेणाद्युदात्तम्। संहितायां तु "एकादेश उदात्तेनोदात्तः" इत्योकार उदात्तः। उदात्तपरत्वे ह्यस्वस्वरितस्योदाहरणमुक्त्वा दीर्घस्वरितस्योदाहरणमाह-रथानां न ययिति। "ये" "अरा" इति पदद्वयमपि फिट्स्वरेणान्तोदात्तम्। एकादेशस्तु पक्षे स्वरितः, "स्वरितो वानुदात्ते पदादौ" इत्युक्तेः। स्वरितपरत्वे उदाहरणमाह-शतचक्रमिति। य इति--फिट्स्वरेणान्तोदात्तः, ततः परस्य सकारस्य रुत्वे उत्वे कृत आद्गुणे च उदात्तेनैकादेशादोकार उदात्तः॥ अह्र इति। स्वरितान्तत्वादकारस्य शेषनिघातत्वे, ओकारेण सह एकादेशे च कृते "स्वरितो वानुदात्ते पदादौ" इत्योकारः स्वरितः॥ कथमह्रस्य स्वरितान्तत्वमिति चेदत्राहुः-"अह व्याप्तै" इत्यस्मात्कर्मणि ण्यत्। "तित्स्वरितम्"। वृद्धाभावस्तु संज्ञापूर्वकविधेरनित्यत्वादिति। "नोदात्तस्वरित-" इति निषेधस्त्वनन्तरस्येति न्यायात् "उदात्तात्-" इति प्राप्तस्य। यदाऽहेरित्यर्थेऽह्रः वृत्रस्येत्यर्थः , तदा "छन्दसि वा वचनम्" इति गुणाऽभावः। "उदात्तस्वरितयोः" इति स्वरितः। "उदात्तयण" इति तु न, छान्दसत्वात्। अग्निमील इति। ईकारः स्वरितः, ले इति तु प्रचयापरपर्याया एकश्रुतिरिति च स्वरप्रक्रियायां मूल एव स्फुटीभविष्यति।