पूर्वम्: १।२।३२
अनन्तरम्: १।२।३४
 
प्रथमावृत्तिः

सूत्रम्॥ एकश्रुति दूरात् सम्बुद्धौ॥ १।२।३३

पदच्छेदः॥ एकश्रुति १।१ ३९ दूरात् ५।१ सम्बुद्धौ ७।१

समासः॥

एका श्रुतिः श्रवणं यस्य तत् एकश्रुति, बहुव्रीहिः॥ श्रवणं श्रुतिः॥ सम्यक् बोधनं ज्ञापनं सम्बुद्धिः॥

अर्थः॥

दूरादाह्वाने सति, उदात्तानुदत्तस्वरितस्वराणाम् एकश्रुतिः भवति। यत्र उदात्तानुदात्तस्वरितानां पृथक् २ स्वरः न श्रूयते सः एकश्रुतिस्वरः।

उदाहरणम्॥

आगच्छ भो माणवक देवदत्त३। अत्रोदात्तानुदात्तस्वरितस्वराः पृथक् २ नोच्चारिता भवन्ति।
काशिका-वृत्तिः
एकश्रुति दूरात् सम्बुद्धौ १।२।३३

त्रैस्वर्ये पदानां प्राप्ते दूरात् सम्बुद्धावैकश्रुत्यं विधीयते। एका श्रुतिर् यस्य तदिदम् एकश्रुति। एकश्रुति वाक्यं भवति। दूरात् सम्बोधयति येन वाक्येन तत् सम्बोधनं सम्बुद्धिः। न एकवचनं सम्बुद्धिः। स्वराणाम् उदात्तादीनाम् अविभागो भेदति रोधानम् एकश्रुतिः। आगच्छ भो माणवक देवदत्त३। दूरातिति किम्? आगच्छ भो माणवक देवदत्त।
न्यासः
एकश्रुति दूरात्सम्बुद्धौ। , १।२।३३

"एकश्रुति वाक्यं भवति" इति। वाक्यग्रहणेन पदपदैकदेशयोर्निरासं करोति; तयोःसम्बोधनं प्रत्यसामथ्र्यात्। वाक्यस्य सम्बुद्धौ कर्तव्यायां करणभावोपगमादस्ति सामथ्र्यम्। ततस्तस्यैकश्रुत्यं विधीयते। कुतः पुनस्तद्वाक्यमित्याह-- "दूरात् सम्बोधयति येन" इति। एतेन सम्बुदिं()ध प्रति वाक्यस्य करणभावो दर्शितो भवति। दूरादिति-- "दूरान्तिकार्थेभ्यो द्वितीया च" २।३।३५ इति पञ्चमी। "सम्बोधनं सम्बुद्धिः" इत्यादिना सम्बुद्धिरित्कयन्वर्थग्रहणम्, न पारिभाषिकं सम्बुद्धिग्रहणमिति दर्शयति। यदि पारिभाषिक्याः सम्बुद्धेग्र्रहणं स्यात् तदा "देवा {ब्राआहृणाः इति पदंजरीपाठः} ब्राहृआणःट इत्यत्रैकश्रुत्यं न स्यात्; पारिभाषिक्याः सम्बुद्धेरसत्त्वात्। अन्वर्थग्रहणे तु भवति; सम्बोधनलक्षणक्रियारूपायाः सम्बुद्धेरिहापि विद्यमानत्वादिति भावः। कुतः पुनरेतदन्वर्थग्रहणं व्यवसितम्? दूरग्रहणात्। अन्वर्थग्रहणे दूरादित्यनेन सम्बुद्धिरुत्पद्यते। "{पंक्तिरियं नास्ति-काशिका} दूरात् सम्बोधने कत्र्तव्ये" इति। तेनार्थवद्भवति दूरशब्दस्यपादानम्। पारिभाषिक्यास्तु ग्रहणे तदसम्बद्धमेव स्यात्। न ह्रामन्त्रितविभ्कतेर्दूरत्वमस्ति। दूरत्वञ्च यद्यप्यनवस्थितम्, तथापि यत्र प्राकृतप्रयत्नसंस्थापितं वचनं न श्रूयते, तदिह दूरं वेदितव्यम्। "स्वराणाम्" इत्यादि। "{पंक्तिरियं नास्ति-काशिका}एकश्रुतिस्वरूपाख्यानमविभागः" भेदतिरोधानमित्यनन्तरं विवरणम्। उदात्तादिस्वरविशेषानुपलब्धिरकारादिवर्णमात्रावबोध एकश्रुतिरित्युक्तं भवति। "आगच्छ भो माणवक देवदत्ता३" इति। "दूराद्धूते च" ८।२।८४ इत्यत्रैवार्थे प्लुतः, स चोदात्तः; "वाक्यस्य टेः प्लुतः उदात्तः" ८।२।८२ इत्यधिकारात्। तस्यैकश्रुत्योदात्तस्य समावेश इष्यते, प्लुतनिवृत्त्यर्थम्। यथा चासौ लभ्यते तथा वक्ष्यति। प्रत्युदाहरणे त्रैस्वर्यमेव भवतीति तत्र आकारः "निपाता आद्युदात्ताः" (फि।सू।४।८०) "उपसर्गाश्चाभिवर्जम्" (फि।सू।४।८१) इत्युदात्तः। गच्छेत्यस्य "तिङङतिङः" ८।१।२८ इति निघातः। भो इति "निपाता आद्युदात्ताः" इत्युदात्तः। माणवक-- देवदत्तशब्दयोः "आमन्त्रतस्य च" ८।१।१९ इत निघातः।