पूर्वम्: १।२।३७
अनन्तरम्: १।२।३९
 
प्रथमावृत्तिः

सूत्रम्॥ देवब्रह्मणोरनुदात्तः॥ १।२।३८

पदच्छेदः॥ देवब्रह्मणोः ६।२ अनुदात्तः १।१ स्वरितस्य ६।१ ३७

काशिका-वृत्तिः
देवब्रह्मणोरनुदात्तः १।२।३८

सुब्रह्मण्यायाम् एव देवा ब्रह्माणः इति पठ्यते, तत्र पूर्वेण स्वरितस्य उदात्ते प्राऽप्ते ऽनेनानुदात्तो विधीयते। देवब्रह्मणोः स्वरितस्य अनुदात्त आदेशो भवति। देवा ब्रह्माण आगच्छत। द्वयोरपि पदयोरामन्त्रिताऽद्युदात्तत्वे शेषनिघाते च उदात्तादनुदात्तस्य स्वरितः कृतस् तस्यानुदात्तो भवति।
न्यासः
देवब्राहृणोरनुदात्तः। , १।२।३८

"द्वयोरपि पदयोरामन्त्रिताद्युदात्तत्वे कृते" इति। "विभाषितं विशेषितं विशेषवचने बहुवचनम्" ८।१।७४ इति पूर्वस्याविद्यामानत्वात् "आमन्त्रितस्य च" ८।१।१९ इति पदात् परस्यापि निघातो न भवति। तेन द्वयोरपि पृथगेव षाष्ठिकमाद्युदात्तत्वं भवति। "शेषनिघातः" इति। "अनुदात्तं पदमेकवर्जम्" ६।१।१५२ इत्यनेन।