पूर्वम्: १।२।३८
अनन्तरम्: १।२।४०
 
प्रथमावृत्तिः

सूत्रम्॥ स्वरितात् संहितायामनुदात्तानाम्॥ १।२।३९

पदच्छेदः॥ स्वरितात् ५।१ संहितायाम् ७।१ अनुदात्तानाम् ६।३ ४०

काशिका-वृत्तिः
स्वरितात् संहितायाम् अनुदात्तानाम् १।२।३९

एकश्रुतिः इति वर्तते। संहितायं विशये स्वरितात् परेषाम् अनुदात्तानाम् एकश्रुतिर् भवति। इमं मे गङ्गे यमुने सरस्वति शुतुद्रि। माणवक जटिलकाध्यापक क्व गमिष्यसि। इमम् इत्यन्तौदात्तं, मे इति अनुदात्तं विधिकाल एव निघातविधानात्। तत् पुनः उदात्तादनुदातस्य स्वरितः ८।४।६५ इति स्वरितं सम्पद्यते। तस्मात् स्वरितात् परेषाम् अनुदात्तानां गङ्गेप्रभृतीनाम् एकश्रुतिर् भवति। सर्व एते आमन्त्रितनिघातेन अनुदात्ताः। माणवक जटिलक इति प्रथमम् आमन्त्रितमाद्युदात्तं, तस्य द्वितीयम् अक्षरम् स्वरितं, ततः परेषाम् अनुदात्तानाम् एकश्रुतिर् भवति। संहिताग्रहणं किम्? अवग्रहे मा भूत्। इमम् मे गङ्गे यमुने सर्स्वति।
न्यासः
स्वरितात्संहितायामनुदात्तानाम्। , १।२।३९

"अनुदात्तानाम्" इति जातौ बहुवचनम्। तेन द्वयोरपि भवति। "इममित्यन्तोदात्तम्" इति। इदंशब्दस्य कमिप्रत्ययान्तत्वात् प्रत्ययस्वरेणान्तोदात्त्त्वम्, तस्य त्यदात्यत्वे "अतो गुणे" ६।१।९४ पररूपत्वे तस्याप्येकादेश ८।२।५ उदात्तेनोदात्तत्वात्। "विधिकल एव" इति। "तेमयावेकवचनस्य" ८।१।२२ इति विधिकाल एव निघातविधानात्। "सर्व एत आमन्त्रितनिघातेनानुदात्ताः" इति। यद्यपि ""आमन्त्रितं पूर्वमविद्यमानवत्" ८।१।७२ इति, तथापि मेशब्दापेक्षया सर्वेषां निघातापत्तेः। "प्रथमामन्त्रितमाद्युदात्तम्" इति। "आमन्त्रितस्य च" ६।१।१९२ इति षाष्ठिकेन। "तस्य द्वितीयमक्षरं स्वरितम्" इति। "उदात्तादनुदात्तस्य स्वरितः" ८।४।६५ इति। "ततः परेषामनुदात्तानाम्" इति। "नामन्त्रिते समानाधिकरणे सामान्यवचनम्" ८।१।७३ इत्यविद्यमानत्वस्य प्रतिषेधे सति माणवकात् परयोः "आमन्त्रितस्य च" ८।१।१९ इति निघातविधानात् परेऽनुदात्ताः। "अवग्रहे मा भूत" इति। अवग्रहः = असंहितापाठः। ननु च स्वरितादिति पञ्चमी, तेन "तस्मादित्युत्तरस्य" १।१।६६ इत्यत्र निर्दिष्टग्रहणस्यानन्तरर्यार्थकत्वादवग्रहे प्राप्तिरेव नास्ति, यथैव हि वर्णो व्यवधायकस्तथा कालोऽपि, तत् किं संहिताग्रहणम्? पञ्चमीनिर्देशकालो न व्यवधायक इति ज्ञापनार्थम्। तेन "तिङङतिङः" ८।१।२८ इत्यत्रावग्रहेऽतिङन्तात् परं तिङन्तं निहन्यते॥
तत्त्व-बोधिनी
नपुंसकमनपुंसकेनैकवच्चास्यान्यतरस्याम् ७९८, १।२।३९

नपुंसकमन। अन्यतरस्याङ्ग्रहणम् "एकवच्चे"त्यनेनैवानन्तर्यात्संबन्ध्यते, न त्वेकशेषेणेत्याशयेनाह--क्लीबं शिष्यते तच्च वा एकवदिति। अनपुंसकेनेति किम्()। शुक्लं च शुक्लं च शुक्ले। अत्र "एकवच्चे"ति न भवति। "अस्य"ग्रहणम् "अस्यैवैकशेषस्य एकवद्भावो यथा विज्ञायेते"त्येवमर्थम्। अन्यथा उत्तरत्राप्येकवदित्यस्यानुवृत्तिः शङ्क्येत। शुक्लः पट इत्यादि। "शुक्लः शुक्ला शुक्ल"मित्येव विग्रहः, "पटः पटी"त्यादिप्रदर्शनं तु शुक्ल शब्दस्य गुणुलिङ्गत्वस्फोरणाय।