पूर्वम्: १।२।३९
अनन्तरम्: १।२।४१
 
प्रथमावृत्तिः

सूत्रम्॥ उदात्तस्वरितपरस्य सन्नतरः॥ १।२।४०

पदच्छेदः॥ उदात्तस्वरितपरस्य ६।१ सन्नतरः १।१ अनुदात्तानाम् ६।३ ३९

काशिका-वृत्तिः
उदात्तस्वरितपरस्य सन्नतरः १।२।४०

अनुदात्तग्रहणम् अनुवर्तते। उदात्तः परो यस्मात् स उदात्तपरः स्वरितः परो यस्मात् स स्वरितपरः। उदात्तपरस्य स्वरितपरस्य च अनुदात्तस्य सन्नतर आदेशो भवति। अनुदात्ततरः इत्यर्थः। देवा मरुतः पृश्निमातरो ऽपः। मातरः इत्यनुदात्तः। अपः इत्यन्तौदात्तः ऊडिदंपदाद्यप्पुम्रैद्युभ्यः ६।१।१६५ इति। तत्र अनुदात्तयोरेकादेश ओकारो ऽनुदात्तः तस्यौदात्ते परभूते सन्नतर आदेशो भवति। इमं मे गङ्गे यमुने सरस्वति शुतुद्रि। इकारो ऽनुदात्तः। शुतुद्रि इत्येतदामन्त्रितं पादादौ तस्मान् न निहन्यते, अनुदात्तं सर्वम् अपादादौ ८।१।१८ इति। तस्य प्रथमम् अक्षरम् उदात्तं तस्मिन् परभूते पूर्वस्य सरस्वति इति इकारस्य सन्नतर आदेशो भवति। माणवक जटिलकाद्यापक क्व गमिष्यसि। क्व इति स्वरितस् तस्मिन् परभूते क इति अनुदत्तस् तस्य सन्नतर आदेशो भवति।
न्यासः
उदात्तस्वरितपरस्य सन्नतरः। , १।२।४०

"मातर इत्यनुदात्तः" इति। अनुदात्तत्वं तु विभक्तिस्वरेण। मातर इति मातृशब्दाज्जस्, "ऋतो ङिसर्वनामस्थानयोः" ७।३।११० इति गुणः। जसः सकारस्य रुत्वम्। तस्याप्यशब्दे शसन्ते परतः "अतो रोरप्लुतादप्लुते" ६।१।१०९ इत्युत्वम्। "आद्गुणः" ६।१।८४ "उडिदम्" ६।१।१६५ इत्यादिना विभक्तेरन्तोदात्तत्वे कृते "एङः पदान्तादति" (६१।१०९) इतिय ओकारः, सोऽपि स्थानिवद्भावेनानुदात्तो भवति। "तस्योदात्ते परभूते" इति। विभक्त्यकारे। "इकारोऽनुदात्तः" इति। सरस्वतीतिशब्दसम्बन्धी; "आमन्त्रित्सय च" ८।१।१९ इति सरस्वतीशब्दस्य निघातविधानात्। "तस्मान्न निहन्यते" इति। "अनुदात्तं सर्वमपादादौ" ८।१।१८ इत्यत्रापादादाविति निघातप्रतिषेधात्। "प्रथममक्षरम्" इति। शकारोकार उदात्तः, "आमन्त्रितस्य च" ६।१।१९२ इति षाष्ठिकेन।