पूर्वम्: १।२।४१
अनन्तरम्: १।२।४३
 
प्रथमावृत्तिः

सूत्रम्॥ तत्पुरुषः समानाधिकरणः कर्मधारयः॥ १।२।४२

पदच्छेदः॥ तत्पुरुषः १।१ समानाधिकरणः १।१ कर्मधारयः १।१

समासः॥

समानम् अधिकरणं यस्य समानाधिकरणः तत्पुरुषः, बहुव्रीहिः॥

अर्थः॥

समानाधिकरणः तत्पुरुषः कर्मधारयसंज्ञकः भवति। तत्पुरुषः इति समासविशेषस्य संज्ञा।

उदाहरणम्॥

पाचकवृन्दारिका, परमराज्यम्, उत्तमराज्यम्॥
काशिका-वृत्तिः
तत्पुरुषः समानाधिकरणः कर्मधारयः १।२।४२

तत्पुरुषः इति समासविशेषस्य संज्ञां वक्ष्यति। स तत्पुरुषः समानाधिकरणपदः कर्मधारयसंज्ञो भवति। अधिकरणशब्दो ऽभिधेयवाचि। समानाधिकरणः समानाभिधेयः। परमराज्यम्। उत्तमराज्यम्। अकर्मधारये राज्यम् ६।२।१२९ इत्युत्तरपदाऽद्युदात्तं न भवति। पाचकवृन्दारिका। तत्पुरुषः इति किम्? पाचिकाभार्यः। समानाधिकरणः इति किम्? ब्राह्मणराज्यम्। कर्मधारयप्रदेशाः कर्मधारये ऽनिष्ठा ६।२।४६ इत्येवम् आदयः।
लघु-सिद्धान्त-कौमुदी
तत्पुरुषः समानाधिकरणः कर्मधारयः ९४३, १।२।४२

न्यासः
तत्पुरुषः समानाधिकरणः कर्मधारयः , १।२।४२

"तत्पुरुषः" इति समासविशेषस्याख्या। स च एक एवशब्दः। अनेकस्य च शब्दस्य भिन्नप्रवृत्तिनिमित्तकस्यैकस्मिन्नर्थे वृत्तिः =सामानाधिकारण्यम्। ततश्च यत्र बाह्रेन पदेन तत्पुरूषस्य सामानधिकरण्यम्(), तत्रैवेयं संज्ञा स्यात्--राजपुरुषः शोभन इत्यादौ,अस्ति ह्रत्र तत्पुरुषस्य केनचित् सामानाधिकरण्यमस्ति; शोभनशब्देन सह। पाचकवृन्दारिकेत्यादौ तु न स्यात्, न ह्रत्र तत्पुरुषस्य केनचित् सामानाधिकरण्यमस्ति; शब्दान्तरस्य प्रयोगाभावादिति चोद्यमपाकर्त्तुमाह- "समानाधिकरणपदः" इति। समानम् = अभिन्नम्, एकमधिकरणम् = वाच्यं येषां पदानां तानि समानाधिकरणानि पदानि, तान्याश्रयभूतानि यस्य तत्पुरुषस्य स समानाधिकरणपदस्तत्पुरुषः। एतेन तत्पुरुषार्थानां पदानां समानाधिकरणत्वादुपचारेण तत्पुरुषोऽत्र सूत्रे समानाधिकरणशब्देनोक्त इति दर्शयति। कथं पुनर्बाह्रन्यपदापेक्षया तत्पुरुषस्य मुख्ये सामानाधिकरण्ये सम्भवति सत्यौपचारिकस्य ग्रहणमुपपद्यते? "कर्मधारयः" इति महत्याः संज्ञायाः करणात्। इह हि लाघवार्थत्वात् कसंज्ञाकरणस्य, लघीयस्यां संज्ञायां कत्र्तव्यायां "कर्मधारयः" इति महतीं संज्ञां कुर्वता-- "अन्योऽप्यत्र कश्चित् विपर्ययः संज्ञायामाश्रितः" इत्येषोऽर्थः सूचितः। तेन "गौणमुख्ययोर्मुख्ये कार्यसम्प्रत्ययः" (व्या।प।४) इति मुख्यस्य समानाधिकरणस्य ग्रहणं न विज्ञायते। "समानाभिधेयः" इति। तदर्थानां पदानां समानाभिधेयत्वात् तत्पुरुषोऽप्युपचारेण समानाभिधेय इत्युक्तः। "परमराज्यम्, उत्तमराज्यम्" इति। "सन्महत्" २।१।६० इत्यादिना समासः। कर्मधारये सति "अकर्मधारये राज्यम्" ६।२।१२९ इत्युत्तरपदाद्युदात्तमत्वं न भवति। "पाचकवृन्दारिका" इति। वृन्दारकनागकुञ्जरैः" २।१।६१ इति पुंवद्भावः। "पाचिकाभार्यः" इति। बहुव्रीहिरयम्। तेनात्र "न कोपधायाः" ६।३।३६ इति प्रतिषेधो भवत्येव। "ब्राआहृणराज्यम्" इति। षष्ठीतत्पुरुषोऽयम्। तेनात्र समासान्तोदात्तमेव न भवति, अपि तूत्तरपदाद्युदात्तत्वम्॥
बाल-मनोरमा
तत्पुरुषः समानाधिकरणः कर्मधारयः ७३५, १।२।४२

अथ कर्मधारयकार्यं वक्ष्यन्करमधारयसंज्ञामाह--तत्पुरुषः समाना। समानम्-एकमधिकरणं=वाच्यं ययोः पदयोः, ते समानाधिकरणे पदे, ते अस्य स्त इति समानाधिकरणः, मत्वर्थीयोऽर्शाअद्यच्। समानाधिकरणानेकपदावयवकस्तत्पुरुषः कर्मधारयसंज्ञको भवतीत्यर्थः। तत्पुरुषाधिकारे इयं संज्ञा न कृता, तथा सत्येकसंज्ञाधिकारात्कर्मधारधारयसंज्ञया तत्पुरुषसंज्ञा बाध्येतेत्याहुः।

तत्त्व-बोधिनी
तत्पुरुषः समानाधिकरणः कर्मधारयः ६५०, १।२।४२

तत्पुरुषः। समानाधिकरणशब्दोऽर्साअद्यजन्तः। समानाधिकरणपा()क इत्यर्थः।