पूर्वम्: १।२।४३
अनन्तरम्: १।२।४५
 
प्रथमावृत्तिः

सूत्रम्॥ एकविभक्ति चापूर्वनिपाते॥ १।२।४४

पदच्छेदः॥ एकविभक्ति १।१ अपूर्वनिपाते ७।१ समासे ७।१ ४३ उपसर्जनम् १।१ ४३

समासः॥

एका विभक्तिः यस्य तत् एकविभक्ति (पदं), बहुव्रीहिः॥ पूर्वः च असौ निपातः च इति पुर्वनिपातः, कर्मधारयः तत्पुरुषः। न पूर्वनिपातः अपूर्वनिपातः तस्मिन् अपूर्वनिपाते, नञ्तत्पुरुषः॥

अर्थः॥

समासे विधीयमाने, एकविभक्तिकं = नियतविभक्तिकं पदम् उपसर्जनसंज्ञं भवति, तत्सम्बन्धिपदं सर्वाभिः विभक्तिभिः युज्यमाने अपि, पूर्वनिपातम् उपसर्जनकार्यं वर्जयित्वा॥

उदाहरणम्॥

निष्कौशाम्बिः, निर्वाराणसिः। निष्त्रान्तः कौशाम्ब्या निष्कौशाम्बिः। निष्त्रान्तं कौशाम्ब्या निष्कौशाम्बिम्। निष्क्रान्तेन कौशाम्ब्या निष्कौशाम्बिना। निष्क्रान्ताय कौशाम्ब्या निष्कौशाम्बये। निष्क्रान्तात् कौशाम्ब्या निष्कौशाम्बेः। निष्क्रान्तस्य कौशाम्ब्या निष्कौशाम्बेः। निष्क्रान्ते कौशाम्ब्या निष्कौशाम्बौ। हे निष्क्रान्त कौशाम्ब्या निष्कौशाम्बे। सर्वत्र एव अत्र -- कौशाम्ब्याः -- इति नियतविभक्तिकं पञ्चम्यन्तं पदं वर्त्तते, यद्यपि तत्सम्बन्धि -- निष्क्रान्त -- इति पदं बहुभिः विभक्तिभिः युज्यते। एवं -- निर्वाराणसिः -- इत्यपि बोध्यम्॥
काशिका-वृत्तिः
एकविभाक्ति च अपूर्वनिपाते १।२।४४

एक विभाक्तिर् यस्य तदिदम् एकविभाक्ति। समासे विधीयमाने यन् नियतविभक्तिकं, द्वितीये सम्बन्धिनि बहुभिर्विभक्तिभिर् युज्यमाने ऽप्येकयैव विभक्त्या युज्यते तदुपसर्जनसंज्ञं भवति अपूर्वनिपाते, पूर्वनिपतं पूर्वनिपाताऽख्यम् उपसर्जनकार्यं वर्जयित्वा। निरादयः क्रान्ताऽद्यर्थे पञ्चम्या। पूर्वपदे नानाविभक्तिके ऽप्युत्तरपदं पञ्च्म्यन्तम् एव भवति। निष्क्रान्तः कौशाम्ब्या निष्कौशाम्बिः। निष्त्रान्तं कौशाम्ब्या निष्कौशाम्बिम्। निष्क्रान्तेन कौशाम्ब्या निष्कौशाम्बिना। निष्क्रान्ताय कौशाम्ब्या निष्कौशाम्बये। निष्क्रान्तात् कौशाम्ब्या निष्कौशाम्बेः। निष्क्रान्तस्य कौशाम्ब्या निष्कौशाम्बेः। निष्क्रान्ते कौशाम्ब्या निष्कौशाम्बौ। एवं निर्वाराणसिः। एकविभक्ति इति किम्? राजकुमारी। अपूर्वनिपाते इति किम्? न हि भवति कौशाम्बीनिः इति।
लघु-सिद्धान्त-कौमुदी
एकविभक्ति चापूर्वनिपाते ९५४, १।२।४४

विग्रहे यन्नियतविभक्तिकं तदुपसर्जनसंज्ञं स्यान्न तु तस्य पूर्वनिपातः॥
न्यासः
एकविभक्ति चापूर्वनिपाते। , १।२।४४

अप्रधमानिर्दिष्टार्थोऽयमारम्भः। विभक्तिशब्दः सुपां वाचकः, विभागवचनो वा। कारकशक्तिर्विभागः--विभज्यते प्रातिपदिकार्थोऽनयेति कृत्वा। "समासे विधीयमाने" इति। समासार्थवाक्यकाले। तदा हि तस्य समासस्य विधीयमानता भवति। एतेन समासग्रहणमनुवर्तमानं समासार्थे वाक्ये वत्र्तते, न समासशास्त्र इति दर्शयति। समासशास्त्रे हि सर्वमेव शब्दरूपमेकविभक्तिकमेव भवतीत्येकविभक्तिग्रहणमनर्थकं स्यादिति भावः। सर्वमेव हि प्रातिपदिकं पर्यायेणैकया विभक्त्या प्रयुज्यते। तस्मादेकविभक्तिग्रहणसामथ्र्यादवधारणमत्र विज्ञायत इत्यत आह-- "यन्नियतविभक्तिकम्" इति। तदेव स्पष्टीकुर्वन्नाह-- "द्वितीये सम्बन्धिति" इत्यादि। "पूर्वपदेनानाविभक्तिकेऽपि" इति। निष्क्रान्तशब्दः कर्तृशक्त्युपसर्जनीभूतं द्रव्यमाह। तच्चानेकसाधनशक्त्युपचितमिति क्रियान्तरसम्बन्धादेनेकसाधनविभक्तिकं भवति। "उत्तरपदंद तु पञ्चम्यन्तमेव भवति" इति। निषक्रमणक्रियापेक्षयाऽ‌ऽविर्भूतापादानशक्तिकत्वात्। "निष्कौशाम्बिः" इत्यत्रोपसर्जनसंज्ञाकार्यम्"गास्त्रियोरुपसर्जनस्य" १।२।४८ इति हस्वत्वम्। अथ निसोऽत्र केनोपसर्जनसंज्ञा विधीयते, ययोऽस्य पूर्वनिपातः? पूर्वसूत्रेणेति चेत्, नैतदस्ति; तेनाप्रधानस्योपसर्जनसंज्ञाविधानात्, निसश्चात्र प्राधान्यात्। एवं तर्हि चकारस्यानुक्तसमुच्चायार्थत्वात् भविष्यति। अन्ये त्वाहुः-- मा भून्निस उपसर्जनसंज्ञा, असत्यामपि तस्यां पूर्वनिपातो भविष्यति, "एकविभक्ति चापूर्वनिपाते" १।२।४४ इति वचनादिति, एतच्चायुक्तम्; पूर्वनिपाते हि कत्र्तव्य एकविभक्तिकस्योपसर्जनसंज्ञा नास्त्येव। तत्र यदि निस उपसर्जनसंज्ञा न स्यात्, तदोदहरणे द्वयोरप्यसत्यां तस्यां पर्यायेणानियः पूर्वनिपातः प्रसज्येत। अथ कथमर्धपिप्पल्यादीनामूपसर्जनसंज्ञा न भवति? अत्र च "विभाषा च्छन्दसि" १।२।३६ इत्यतो विभाषाग्रहणं मम्डूकप्लुतन्यायेनानुवर्तते, सा च व्यवस्थितविभाषा। तेनार्ध पिप्पल्या अर्धपिप्पलीत्यादौ विषये पिप्पल्यादीनामेकविभक्तियुक्तानामप्युसर्जनसंज्ञा न भवति। यदि हि स्यात्, तदा ह्यस्वत्वं स्यात्॥
बाल-मनोरमा
एकविभक्ति चापूर्वनिपाते ६४७, १।२।४४

अत्र दिशाशब्दस्यापि उपसर्जनत्वमाह-एकविभक्ति। "प्रथमानिर्दिष्टं समास उपसर्जन"मित्यतः "समास" इति, "उपसर्जन"मिति चानुवर्तते। "समास" इत्यनेन विग्रहवाक्यं लक्ष्यते। एकैव विभक्तिर्यस्य तदेकंविभक्ति। नियतविभक्तिकमिति यावत्। एवंच विग्रहे यन्नियतविभक्तिकं तत्पूर्वनिपातभिन्नकार्ये कर्तव्ये उपसर्जनं स्यादित्यर्थः। फलितमाह-विग्रहे यन्नियतेति। "निष्कौशाम्बि"शब्द उदाहरणम्। तत्र कौशाम्ब्या निष्क्रान्तः। निष्क्रातं निष्क्रान्तेन निष्क्रान्ताय निष्क्रान्तात् निष्क्रान्तस्य निष्क्रान्ते इति विग्रहेषु "निरादयः क्रान्ताद्यर्थे पञ्चम्या" इति समासे निष्कौशाम्बिः निष्कौशा()म्ब निष्कौशाम्बिना इत्यादीति स्थितिः। अत्र "कौशाम्बी"शब्द एव विग्रहे नियतविभक्तिक इति तस्योपसर्जनत्वमनेन भवति। समासशास्त्रे कौशाम्बीशब्दस्य पञ्चमीनिर्दिष्टत्वमेव, न तु प्रथमानिर्दिष्टत्वमिति प्रथमानिर्दिष्टमित्यनेनोपसर्जनत्वाऽप्राप्तौ वचनम्। तत्र कौशाम्बीशब्दस्याऽनेन उपसर्जनत्वेऽपिन "पूर्वनिपातः तत्तद्विभक्त्यन्तैरेव समास इत्यत्र इदमेव सूत्रं प्रमाणम्। "तुल्यार्थै"रिति सूत्रे भाष्ये स्पष्टमिदम्। प्रथमान्तपदेनैव समास इत#इ "अनेक"मिति सूत्रे भाष्ये स्थितम्।