पूर्वम्: १।२।४९
अनन्तरम्: १।२।५१
 
प्रथमावृत्तिः

सूत्रम्॥ इद्गोण्याः॥ १।२।५०

पदच्छेदः॥ इत् १।१ गोण्याः ६।१ तद्धितलुकि ७।१ ४९

अर्थः॥

तद्धितलुकि सति गोणीशब्दस्य इकारादेशः भवति। पूर्वसूत्रेण लुकि प्राप्ते तदपवादः इकारः विधीयते॥

उदाहरणम्॥

पञ्चगोणिः, दशगोणिः॥
काशिका-वृत्तिः
इद्गोण्याः १।२।५०

पूर्वेण लुकि प्राप्ते इकारो विधीयते। गोण्यास्तद्धितलुकि सति इकाराऽदेशो भवति। पञ्चभिर् गोणीभिः क्रीतः पटः पञ्चगोणिः। दशगोणिः। इतिति योगविभागः। पण्चभिः सूचीभिः क्रीतः पञ्चसूचिः। दशसूचिः। स च एवं विषय एव।
न्यासः
इद्गोण्याः। , १।२।५०

"पञ्गोणिः" इति। "तद्धितार्थ" २।१।५० इति समासे कृत आर्हीयष्ठक्। तस्य पूर्ववल्लुक्। "इदिति योगविभागः" इति। एतस्येद्ग्रहणमेव लिङगम्। तथा हि गोणी इत्येतावति सूत्रे ह्यस्वग्रहणानुवृत्तौ ह्यस्वत्वे कृते पञ्चगोणिरिति सिद्ध्यत्येव;किमिद्ग्रहणेन? तदेतदिद्ग्रहणं क्रियमाणं योगविभागर्थं विज्ञायते। ननु चानन्तरसूत्राल्लुक एवानुवृत्तिः स्यात्, न ह्यस्वस्य, नैतदस्ति; लुगनुवृत्तौ हि सूत्रमिदमनर्थकं स्यात्; लुकोऽनन्तरसूत्रेणैव सिद्धत्वात्। तस्माद्ध्रस्वग्रहणमेवानुवत्र्तते, न लुग्ग्रहणम्। "पञ्चसूचिः" इति। पञ्चगोणिरित्यनेन तुल्यम्। यदि योगविभागः क्रियते, तदातिप्रसङ्गः स्यात्। अन्येषामपि प्रसज्यत इत्यत आह-- "स च" इत्यादि। यदि सर्वत्रेत्त्वं पूर्वयोगेणैव स्यात्, तदा "गोण्याः" इति वचनमनर्थकम्। तस्मादगोणीग्रहणादस्यासर्वविषयत्वम्। तेन योगविभागः सूचीविषय एव, नान्यविषय इति। तपरकरणं दीर्घानिवृत्त्यर्थम्। दीर्घस्य दीर्घकरणमनर्थकं स्यात्। अतो विना तपरकरणेन दीर्घो न भविष्यीति चेत्, न; लुघ्यस्वबाधनार्थत्वाद्दीर्घकरणस्य। भाव्यमानोऽण् सवर्णान् न गृह्णातीति, तस्माददीर्घनिवृत्त्यर्थं तपरत्वं नोपपद्यत इति चेत्, न; तस्याभाव्यमानत्वात्। अपूर्वस्य हि विधानं भाव्यमानत्वम्। न चात्रापूर्वस्य विधानम्। तथा हि-- लुग्घ्रस्वयोः प्राप्तयोः पुनः स एव ईकारः प्रतिप्रसूयते। तस्मात् तपरकरणं कत्र्तव्यम्॥
बाल-मनोरमा
इद्गोण्याः १६८०, १।२।५०

इद्गोण्याः। लुकोऽपवाद इति। "लुक्तद्धितलुकी"ति प्राप्तस्येत्यर्थः। पञ्चगोणिरिति। आर्हीयस्य ठको लुकि स्त्रीप्रत्ययस्य इकारः। नच उपसर्जनह्यस्वत्वेनैव इदं सिद्धमिति वाच्यम्, इत्त्वविध्यभावे "सुक्तद्धितलुकी"ति ङीषो निवृत्तावदन्तत्वाट्टापि पञ्चगोणेत्यापत्तेः। मूलद्रव्यवाचिन एव तृतीयान्तात्क्रीतार्थे प्रत्यया भवन्ति, नतु "देवदत्तेन क्रीत"मित्यर्थे, अनभिधानादिति भाष्ये स्पष्टम्।

तत्त्व-बोधिनी
इद्गोण्याः १२९९, १।२।५०

लुकोऽपवाद इति। "लुक्ताद्धितलुकी"ति प्राप्तस्य स्त्रीप्रत्ययस्य लुकोऽपवाद इत्यर्थः।