पूर्वम्: १।२।५०
अनन्तरम्: १।२।५२
 
प्रथमावृत्तिः

सूत्रम्॥ लुपि युक्तवद्व्यक्तिवचने॥ १।२।५१

पदच्छेदः॥ लुपि ७।१ ५२ युक्तवत् ५२ व्यक्तिवचने १।२ ५२

समासः॥

व्यक्तिश्च वचनञ्च व्यक्तिवचने, इतरेतरद्वन्द्वः॥

अर्थः॥

लुपि सति व्यक्तिवचने = लिङ्गसङ्ख्ये युक्तवत् = प्रकृत्यर्थवद्भवतः, अर्थात् तद्धितप्रत्ययोत्पत्तेः पूर्वस्य प्रकृत्यर्थस्य ये लिङ्गसङ्ख्ये स्तः ते तद्धितप्रत्ययस्य लुपि सत्यपि भवतः। युक्तह् प्रकृत्यर्थः प्रत्ययार्थेन सम्बद्धः तद्वत् लुपि सत्यपि भवतः॥ व्यक्तिः = लिङ्गम्। वचनं = सङ्ख्या, एकत्वद्वित्यबहुवचनानि। व्यक्तिवचने इति लिङ्गसङ्ख्ययोः पूर्वाचार्याणां निर्देशः।

उदाहरणम्॥

पञ्चालाः, कुरवः, मगधाः, मत्स्याः, अङ्गाः, वङ्गाः, सुह्माः, पुण्ड्राः। गोदौ ग्रामः। कटुकवदरी ग्रामः॥
काशिका-वृत्तिः
लुपि युक्तवद्व्यक्तिवचने १।२।५१

लुपि इति लुप्सन्ंज्ञया लुप्तस्य प्रत्ययस्य अर्थ उच्यते। तत्र लुपि युक्तवद्व्यक्तिवचने भवतः। युक्तवतिति निष्ठाप्रत्ययेन क्तवतुना प्रकृत्यर्थ उच्यते। स हि प्रत्ययार्थम् आत्मना युनक्ति। तस्य युक्तवतो व्यक्तिवचने लुबर्थे विधीयेते। अथ वा युक्तः प्रकृत्यर्थः प्रत्ययार्थेन सम्बद्धः, तस्मिन्निव व्यक्तिवचने लुबर्थे भवतः। सप्तम्यर्थे वतिः। व्यक्तिवचने इति च लिङ्गसङ्ख्ययोः पूर्वाचर्यनिर्देशः, तदीयम् एव इदं सूत्रम्। तथा च अस्य प्रत्याख्यानं भविष्यते, तदशिष्यं संज्ञाप्रमाणत्वात् १।२।५३ इति। व्यक्तिः स्त्रीपुम्नपुंसकानि। वचनम् एकत्वद्वित्वबहुत्वानि। पञ्चलाः क्षत्रियाः पुंलिङ्गा बहुवचनविशयाः। तेषां निवासो जनपदः। यथा तेषु क्षत्रियेषु व्यक्तिवचने तद्वज्जनपदे भवतः। पञ्चालाः। कुरवः। मगधाः। मत्स्याः। अङ्गाः। वङ्गाः। सुग्माः। पुण्ड्राः। लुपि इति किम्? लुकि मा भूत्। लवणः सूपः। लवणा यवागूः। लवणं शाकम्। व्यक्तिवचने इति किम्? शिरीषाणाम् अदूरभवो ग्रामः शिरीषाः, तस्य वनं शिरीषवनम्। विभाषाओषधिवनस्पतिभ्यः ८।४।६ इति णत्वं न भवति। हरितक्यादिषु व्यक्तिः। हरीतक्याः फलानि हरीतक्यः फलानि। खलतिकादिषु वचनम्। खलतिकस्य पर्वतस्य अदूरभवानि वनानि खलतिकं वनानि।
लघु-सिद्धान्त-कौमुदी
जनपदे लुप् १०६३, १।२।५१

जनपदे वाच्ये चातुरर्थिकस्य लुप्॥
लघु-सिद्धान्त-कौमुदी
लुपि युक्तवद्व्यक्तिवचने १०६४, १।२।५१

लुपि सति प्रकृतिवल्लिङ्गवचने स्तः। पञ्चालानां निवासो जनपदः पञ्चालाः। कुरवः। अङ्गाः। वङ्गाः। कलिङ्गाः॥
न्यासः
लुपि यक्तवद्वयक्तिवचने। , १।२।५१

अभिधेयस्य लिङ्गसङख्ययोः प्राप्तयोरयमारम्भः। लुबिति प्रत्ययस्यादर्शनम्,तच्चाभावात्मकम्। न चाभावे व्यक्तिवचनयोः शक्यतेऽतिदेशः कर्त्तुम्। तस्माल्लुप्संज्ञया लुप्तस्य प्रत्ययस्यार्थो लुप्शब्देन विवक्षित इति मत्वाऽह--"लुपीति लुप्संज्ञया" इत्यादि। कथं पुनरेतल्लभ्यते, यावता प्रत्ययादर्शनस्यैषा संज्ञा, न तु प्रत्ययार्थस्य? साहचर्यात्। साहचय्र्यन्तु यत्र लुप्, तत्रावश्यं प्रत्ययार्थस्य सद्भावात्। "युक्तवदिति निष्ठाप्रत्ययेन क्तवतुना प्रकृत्यर्थ उच्यते" इति। अत्र कारणमाह-- "स हि" इत्यादि। युनक्ति = अभिसम्बध्नाति, विशेषणविशेष्यभावलक्षणसम्बन्धेनात्मसम्बन्धिनं करोतीत्यर्थः। तत्र "तस्य निवासः" इत्यादि प्रत्ययार्थो विशेष्यः,पञ्चालादिशब्दस्यार्थः प्रकृत्यर्थो विशेषणम्। तेन हि पूर्व विज्ञातेन स्वाम्यन्तरव्यवच्छेदेन प्रत्ययार्थो विशिष्यते। "अथ वा" इत्यादि। पूर्वं "युजिर् योगे" (धा।पा।१४४४) इत्यस्माद्धातो क्तवतुप्रत्यये सति युक्तवदित्यतद्रूपं प्रदर्शितम्, इदानीं तस्यैव धातोः क्तप्रत्ययाद्वतिप्रत्यये सति युक्तवदित्येतद्रूपं दर्शयति। यद्यपि द्विष्ठत्वात् सम्बन्धस्य -- यथा प्रत्ययार्थेन प्रकृत्यर्थो युक्तः, तथा प्रकृत्यर्थेनापि प्रत्ययार्थः; तथापि प्रत्ययार्थसम्बन्धिनोव्र्यक्तिवचनयोः प्रत्ययार्थ एवातिदेशोऽनर्थक इति प्रकृत्यर्थ एवात्र युक्तशब्देन विवक्षित इति मत्वाऽह-- "युक्तः प्रकृत्यर्थः" इति। "सप्तम्यर्थे वतिः" इति। लुपीति सप्तमीनिर्देशात्। व्यक्तिशब्दः प्रादुर्भावादावप्यर्थे वत्र्तते, वचनशब्दो हि भाषणादिषु, अतस्तत्संप्रत्ययो मा भूदित्यत आह-- "व्यक्तिवचने" इति। किं पुनः कारणं पूर्वाचार्यनिर्देश आश्रीयत इत्यत्र आह-- "तदीयम्" इत्यादि। कुत एतदित्यत आह-- "तथा च" इत्यादि। न हि स्वकीयस्यैव प्रत्याख्यानं युक्तमिति भावः। "पञ्चालाः क्षत्रियाः" इति। पञ्()चालस्यापत्यानि बहूनीति विवक्षायाम् "जनपदशब्दात् क्षत्रियादञ्" ४।१।१६६, तस्य "तद्राजस्य बहुषु तेनैवास्त्रियाम्" २।४।६२ इति लुक्। "तेषां निवासो जनपदः" इत्यस्य वक्ष्यमाणेन "पञ्चालानाम्" इत्यनेन सम्बन्धः। "पञ्चालानां निवासो जनपदः" इति। तस्य "जनपदे लुप्" ४।२।८० इति लुक्। कुरुशब्दादपत्यार्थे "करुनादिभ्यो ण्यः" ४।१।१७० इति ण्यप्रत्ययः। मत्स्यादिशब्देभ्योऽप्यपत्यार्थे "द्वयञ्मगध" ४।१।१६८ इत्यादिनाण्। शेषं पूर्ववत्। "लवणः सूपः" इति। लवणेन संसृष्ट इति प्राग्वहतीष्ठक् ४।४।१, तस्य "लवणाल्लुक्" ४।४।२४ इति लुक्। अत्राभिधेयवल्लिङ्गवचने भवतः। शिरीषाणामदूरभदो ग्राम इति शिरीषाः। "अदूरभवश्च" ४।१।७० इति शरीषशब्दादण्, तस्य "वरणादिभ्यश्च " ४।२।८१ इति लुप्। णत्वन्न भवतीति व्यक्तिवचनग्रहणस्य फलम्। यदि "व्यक्तिवचने" इति नोच्येत, तदा शिरीषेषु यद्वनस्पतित्वं तस्यापि ग्रामेऽतिदेशः स्यात्। एवञ्च शिरीषवनमित्यत्र "विभाषौषधिवनस्पतिभ्यश्च" ८।४।६ इति णत्वं प्रसज्येत्। "हरीतक्यः फलानि" इति। हरीतकीशब्दो गौरादिषु पिप्पल्यादिदर्शनान्ङीषन्तः। ततः फले विकारे "अनुदात्तादेरञ्" ४।२।४३ इत्यञ्; तस्य "हरीतक्यादिभ्यश्च" ४।३।१६५ इति लुप्। अत्र व्यक्तिरेव युक्तवद्भावेन भवति, वचनन्त्वभिधेयवदिति। एतच्च विभाषाग्रहणानुवृत्तेव्र्यवस्थितविभाषाविज्ञानाच्च लभ्यते। "खलतिकं वनानि" इति। "अदूरभवश्च" ४।२।६९ इत्यण्, तस्य "वरणादिभ्यश्च" ४।२।८१ इति लुप्। अत्र वचनमेव युक्तवद्भावेन भवति, व्यक्तिस्त्वभिधेयवदेवेति। एतदपि पूर्ववदेव लभ्यते॥
बाल-मनोरमा
लुपि युक्तवद्व्यक्तिवचने १२७५, १।२।५१

लुपि यक्तवत्। प्रकृतिभूतः शब्दः=युक्तः, व्यक्तिः=लिङ्गं, वचनं=सङ्ख्येति पूर्वाचार्यसङ्केतः। तदाह--लुपि सति प्रकृतिवल्लिङ्गवचने स्त इति। "लु"बिति प्रत्ययाऽदर्शनमुच्यते। लुपः प्रवृत्तेः प्राक्प्रत्ययप्रकृतेर्यल्लिङ्गं वचनं ते एव लुपि सति भवतः, न तु प्रत्ययार्थविशेष्यमनुसृत्येत्यर्थः। पञ्चालानामिति। पञ्चालसंज्ञकानां राज्ञामित्यर्थः। पञ्चाला इति। "तस्य निवास" इति विहितस्याऽणः "जनपदे लु"बिति लुपि प्रकृतिबद्बहुवचनमिति भावः। कुरव इत्यादि। कुरूणाम्, अङ्गाना, वङ्गानां, कलिङ्गानां च निवासो जनपद इति विग्रहः। लिङ्गातिदेशे तु "कटिबदर्या अदूरभवो जनपदः कटुबदरी"त्युदाहार्यम्।

तत्त्व-बोधिनी
लुपि युक्तवव्द्यक्तिवचने १०३१, १।२।५१

लुपि युक्तवदिति। व्यक्तिवचने किम्()। शिरीषाणामदूरभवो ग्रामः शिरीषाः। "वारणादिभ्यश्चे"ति लुप्। तस्य वनं शिरीषवनम्। इह वनस्पतित्वमतिदिश्येत। ततश्च "विभाषौषधिवनस्पतिभ्यः"इति णत्वं स्यात्। नन्वत्र शिरीषाणामिति षष्ठीबहुवचनं कृतो नातीदिश्यत इति चेत्। अत्राहुः--वचनमिह सङ्क्या, न त्वेकवचनाद्विवचनादि। न चैवमपि सह्ख्याबोधकत्वेन श्रुतैव षष्ठी परिगृह्रतामिति वाच्यं, षष्ठ()र्थस्य तद्धितवृत्त्यन्तर्गतत्वादुक्तार्थे प्रथमाया एव युक्तत्वादिति। पञ्चला इत्यादि। यद्यप्यत्राभिधेयलिङ्गवत्त्वेऽपीष्टसिद्धिस्तथापि कटुबदर्या अदूरभवो ग्रामः कटुबदरीत्यादिसिद्धये प्रकृतिलिङ्गातिदेश इति भावः। पूर्वाचार्यानुरोधेन कृतं सूत्रं संप्रति प्रतायचष्टे।