पूर्वम्: १।२।५२
अनन्तरम्: १।२।५४
 
प्रथमावृत्तिः

सूत्रम्॥ तदशिष्यं संज्ञाप्रमाणत्वात्॥ १।२।५३

पदच्छेदः॥ तत् १।१ अशिष्यम् १।१ ५७ संज्ञाप्रमाणत्वात् ५।१

समासः॥

शासितुं शक्यं शिष्यं, न शिष्यं अशिष्यं, नञ्तत्पुरुषः।
संज्ञायाह् प्रमाणं संज्ञाप्रमाणं, षष्ठीतत्पुरुषः। संज्ञाप्रमाणस्य भावः संज्ञाप्रमाणत्वं, तस्मात् संज्ञाप्रमाणत्वात्। {तस्य भावस्त्वलतौ (५।१।११८)} इत्यनेन त्वप्रत्ययः। संज्ञानं संज्ञा = लौकिकव्यवहारः। तदित्यनेन युक्तवद्भावः परिगृह्यते। अशक्यम् इत्यनेन शासितुम् अशक्यम् इति वेदितव्यं, न तु शासितुम् अयोग्यं कुतः? शासु अनुशिष्टौ, इत्येतस्मात् धातोह् {एतिस्तुशास्वृदृजुषः क्यप्(३।१।१०९)} इत्यनेन क्यप् प्रत्ययः, सः च शक्यार्थे वेदितव्यः तेन अशिश्यम् इत्यस्य पूर्णतया शासितुम् अशक्यम् इत्यर्थः॥

अर्थः॥

तद् = युक्तवद्भावकथनम् अशिष्यं = शासितुम् अशक्त्यम्। कुतः? संज्ञाप्रमाणत्वात् = लौकिकव्यवहाराधीनत्वात्॥

उदाहरणम्॥

पञ्चालाः, वरणाः, जनपदादीनां संज्ञा एताः तत्र लिङ्गं वचनं च स्वभावसिद्धम् एव॥
काशिका-वृत्तिः
तदशिष्यं संज्ञाप्रमाणत्वात् १।२।५३

ततिति प्रकृतं युक्तवद्भावलक्षणं निर्दिश्यते। तदशिष्यं न वक्तव्यम् कस्मात्? संज्ञाप्रमाणत्वात्। संज्ञाशब्दा हि नानालिङ्गसङ्ख्याः प्रमाणम्। पञ्चालाः, वरणा इति च, न एते योगशब्दाः। किं तर्हि? जनपदादीनां संज्ञा एताः। तत्र लिङ्गं वचनं च स्वभावसंसिद्धम् एव न यत्नप्रतिपाद्यम्, यथा आपः, दाराः, गृहाः, सिकताः, वर्षाः इति।
न्यासः
तदशिष्यं संज्ञाप्रमाणत्वात्। , १।२।५३

"तदशिष्यम्" इति प्रतिज्ञा, "संज्ञाप्रमाणत्वात्" - इति हेतुः। यस्मात् संज्ञाभूतानां पञ्चालादिशब्दानां प्रमाणत्वम्, तस्मात् तदशिष्यम्। प्रमाणत्वं पुनः प्रत्ययलक्षणम्। सर्वेषामेव शब्दानामेवं विधे स्वविषये प्रमाणत्वमस्ति, उच्यते चेदम्, तत्र विशेषो विज्ञायते, स पुनरभिधेयगतलिङ्गसंख्यानपेक्षया भिन्नलिङ्गसंख्यानामपि तेषां स्वार्थे प्रत्यायकत्वम्। अत एवाह-- "संज्ञाशब्दा हि नानालिङ्गसंख्याः" इति। "प्रमाणम्िति। प्रमाणं प्रत्यायका वाचका इत्यर्थः। तत्रैतत् स्यात्-- संज्ञाशब्दा एवामी पञ्चालादयो न भवन्ति, किं तर्हि? योगनिमित्तका इत्यत आह-- "पञ्चाला वरणाः" इत्यादि। योगनिमित्तकाः शब्दा योगशब्दाः। न हि पञ्चालादयः शब्दाः क्षत्रियादिसम्बन्धेन जनपदादौ वत्र्तन्ते; किं तर्हि? संज्ञा एता जनपदादीनाम्। यदि संज्ञाशब्दा एते, ततः किमिति? तदशिष्यमित्यत आह-- "तत्र लिङ्गं वचनञ्च" इत्यादि। कुत एतत्? यत् संज्ञाशब्दानां लिङ्गं वचनञ्च तत्स्वभावसिद्धमित्यत आह-- "यथा" इत्यादि। एकस्यामपि जलकणिकायां बहुवचनान्तः स्त्रीलिङ्गोऽप्शब्दः प्रयुज्यते, एकस्यामपि योषिति दारशब्दः पुंल्लिङगो बहुवचनान्तः, गृहशब्दश्चैकस्मिन् वेश्मनि बहुवचनान्तः पुंल्लिङ्गश्च, एकस्यामपि वालुकायां बहुवचनान्तः सिकताशब्दः स्त्रीलिङ्गः, वर्षा इत एकस्मिन् विशिष्टकालेऽपि प्रवत्र्तमानः स्त्रीलिङ्गो बहुवचनान्तश्च वत्र्तते। तस्मात् यथैवेषामप्प्रभृतिशब्दानां स्वाभाविकं लिङ्गं वचनञ्च तथा पञ्चालादिशब्दानामपीति नार्थो युक्तवद्भावचनेन। यद्येवम्, कस्मात् पूर्वं तदुक्तम्? प्रतिषेधविषयोपदर्शनार्थम्। न ह्रनिर्दिष्टविषयस्य प्रतिषेधः शक्यते कर्त्तु ज्ञातुं वा॥
बाल-मनोरमा
तदशिष्यं संज्ञाप्रमाणत्वात् १२७६, १।२।५३

तदेतत्पूर्वाचार्यसूत्रं पाणिनिः प्रत्याचष्टे--तदशिष्यं। यथा "दाराः" इत्यादौ शास्त्रीयपुंस्त्वविशिष्टस्यैव स्त्रीरूपार्थस्य भानं, तथा लुपि सति शास्त्रीयप्रकृत्यर्थगतलिङ्गसङ्ख्याविशिष्टस्यैव स्वार्थस्य सोकव्यवहारादेव भानं संभवति, न तु तदंशे शास्त्रव्यापारापेक्षेति भावः। संज्ञानामिति। लोकव्यवहाराणामित्यर्थः।

तत्त्व-बोधिनी
तदशिष्यं संज्ञाप्रमाणत्वात् १०३२, १।२।५३

तदशिष्यमिति। पञ्चालाः, अङ्गाः, वङ्गाः, कलिङ्गाः---इत्यादयो जनपदस्य यथायथं बहुवचनाद्यन्ता एव संज्ञा, न त्वत्र यत्नेन लिङ्गसङ्ख्ये प्रतिपादनीये। "आपः" "दारा" इत्यादिषु यथा। न हि तत्र शास्त्रेण लिङ्गसङ्ख्ये प्रतिपाद्येते इति भावः। उपजीवकं प्रत्याख्यायोपजीव्यं प्रत्याचष्टे--।