पूर्वम्: १।२।५४
अनन्तरम्: १।२।५६
 
प्रथमावृत्तिः

सूत्रम्॥ योगप्रमाणे च तदभावेऽदर्शनं स्यात्॥ १।२।५५

पदच्छेदः॥ योगप्रमाणे ७।१ तदभावे ७।१ अदर्शनम् १।१ स्यात् विधिलिङ् १।१ अशिष्यम् १।१ ५३

समासः॥

योगस्य प्रमाणं योगप्रमाणं, तस्मिन् योगप्रमाणे, षष्ठीतत्पुरुषः।
न भावः अभावः, नञ्तत्पुरुषः। तस्य अभावः तदभावः, तस्मिन् तदभावे, षष्ठीतत्पुरुषः।
न दर्शनम् अदर्शनं, नञ्तत्पुरुषः।

अर्थः॥

यदि पञ्चालादिशब्दाः निवासाद्यर्थस्य वाचकाः स्युः तदा निवासादिसम्बन्धाभावे, पञ्चालादीनाम् अदर्शनं अप्रयोगः स्यात्, न चैव भवति, तेन ज्ञायते न एते योगनिमित्तिकाः, परं संज्ञा एताः देशविशेषस्य। पूर्वसूत्रार्थम् एव दृढीकरोति॥

उदाहरणम्॥

काशिका-वृत्तिः
योगप्रमाणे च तदभावे ऽदर्शनम् स्यात् १।२।५५

पञ्चालाऽदयः संज्ञाशब्दाः, न योगनिमित्ताः इत्युक्तम्। तच्चावश्यम् एव अभ्युपगन्तव्यम्। योगप्रमाणे हि तदभावे ऽदर्शनं स्यात्। यदि पञ्चालादिशब्दो योगस्य प्रमाणं योगस्य वाचकः स्यात् ततस् तदभावे ऽदर्शनम् अप्रयोगः स्यात्। दृश्यते च सम्प्रति वनैव क्षत्रियसम्बन्धेन जनपदेषु पञ्चालादिशब्दाः, ततो ऽवसीयते नायं योगनिमित्तकः। किं तर्हि? रूढिरूपेणैव तत्र प्रवृत्तः इति।
न्यासः
योगप्रमाणे च तदभावेऽदर्शनं स्यात्। , १।२।५५

"योगप्रमाणे" इति। योगस्य प्रमाणं योगप्रमाणम्, येन योगः प्रत्याय्यते। तत् पुनरिह प्रकृतत्वात् पञ्चालादिशब्दः। स हि परमतेन पञ्चालादिसम्बन्धं स्वप्रवृत्तिनिमित्तमभिधायैव जनपदादौ वत्र्तते, नानभिधाय। तेन योगस्य प्रमाणं प्रत्यायको वाचक इत्यर्थः। "तदभावेऽदर्शनं स्यात्" इति। यो हि योगनिमित्तकः स योगाभावे न प्रयुज्यते, दणड()आदिशब्दवदित्यभिप्रायः। "योगप्रमाणे हि" इत्यादि। हिशब्दं हेत्वर्थं प्रयुञ्जानश्चशब्दो हेत्वर्थवृत्तिः सूत्रे उपात्त इति दर्शयति। स्यादेतत्, भवत्येव योगाभावे पञ्चालादिशब्दस्यादर्शनमित्यत आह-- "दृश्यते च" इत्यादि। गतार्थम्।
बाल-मनोरमा
योगप्रमाणे च तदभावेऽदर्शनं स्यात् १२७८, १।२।५५

प्रत्ययस्वीकारे बाधकमाह--योगप्रमाणे च। पञ्चालाऽङ्गवङ्गादिशब्देषु योगस्य=अवयवार्थस्य प्रमापकत्वे सति तदभावे=पञ्चालाङ्गादिक्षत्रियसम्बन्धाऽभावे संप्रति शूद्रादिराजके जनपदे पञ्चालादिशब्दो न प्रयुज्यते, प्रयुज्यते च यतः, अतः पञ्चालादिशब्दा जनपदविशेषेषु केवरूढा इति युक्तमित्यर्थः। तदाह-यदि हि योगस्येति।