पूर्वम्: १।२।५६
अनन्तरम्: १।२।५८
 
प्रथमावृत्तिः

सूत्रम्॥ कालोपसर्जने च तुल्यम्॥ १।२।५७

पदच्छेदः॥ कालोपसर्जने १।२ तुल्यम् १।१ अशिष्यम् १।१ ५३

समासः॥

कालः च उपसर्जनं च, कालोपसर्जने, इतरेतरद्वन्द्वः॥

अर्थः॥

कालः परोक्षादिः॥ कालः, उपसर्जनं च अशिष्यं शासितुम् अशक्यम्। कुतः? तुल्यहेतुत्वात्, अर्थात् लोकप्रमाणत्वात्। तुल्यशब्दः पूर्वोक्तस्य सूत्रस्य हेतोः अनुकर्षणार्थः॥
काशिका-वृत्तिः
कालौपसर्जने च तुल्यम् १।२।५७

अशिष्यम् इति वर्तते। कालौपसर्जने च अशिष्ये। कस्मात्? अर्थस्य अन्यप्रमाणत्वात्। तुल्यशब्दो हेत्वनुकर्षणार्थः। अशिष्यविशेषणं चैतत्। कालौपसर्जने च तुल्यम् अशिष्ये भवतः। इह अन्ये वैयाकरणाः कालौपसर्जनयोः परिभाषां कुर्वन्ति। आन्याय्यादुत्थानादान्याय्याच् च संवेशनात्, एषो ऽद्यतनः कालः। अपरे पुनराहुः। अहरुभयतो ऽर्धरात्रम् , एषो ऽद्यतनः कालः इति। तथा उपसर्जनपरिभाषां कुर्वन्ति अप्रधानम् उपसर्जनम् इति। तत् पाणिनिराचार्यः प्रत्याचष्टे लोकतो ऽर्थवगतेः। यैरपि व्याकरणम् न श्रुतं ते ऽप्याहुरिदम् अस्माभिरद्य कर्तव्यम् इदं श्वः कर्तव्यम् इदम् हयः कृतम् इति। नैवं व्युत्पाद्यन्ते। तथाउपसर्जनम्, वयमत्र गृहे ग्रामे वा उपसर्जनम् अप्रधानम् इति गम्यते। य्श्च लोकतो ऽर्थः सिद्धः किं तत्र यत्नेन। यद्येवं पूर्वसूत्र एव कालौपसर्जनग्रहणम् कस्मान् न क्रियते? किमर्थो योगविभागः? प्रदर्शनार्थः। अन्यदप्येवं जातीयकमशिष्यम् इति। तथा च पूर्वाचार्याः परिभषन्ते मत्वर्थे बहुव्रीहिः, पूर्वपदार्थप्रधानो ऽव्ययीभावः, उत्तरपदार्थप्रधानस् तत्पुरुषह्, उभयपदार्थप्रधानो द्वन्द्वः इत्येवम् आदि, तदशिष्यम् इति।
न्यासः
कालोपसर्जने च तुल्यम्। , १।२।५७

अर्थस्यान्यप्रमाणत्वादित्युक्तम्। कथं पुनरत्राप्ययं हेतुर्लभ्यत इति प्रश्नावसर इत्याह-- "तुल्यशब्दो हेत्वनुकर्षणार्थः" इति। कथं पुनस्तुल्यशब्दो हेत्वनुकर्षणार्थो भवति? मन्यते-- तुल्यमिति प्रत्याख्यानक्रियाविशेषणमेतत्। अनन्तरोक्तेन प्रत्याख्यानेन तुल्यमेतत् प्रत्याख्यानम्। एवञ्च् तुल्यं भवति यदि यस्तस्य हेतुः स एवास्यापि भवति। तस्मात् तुल्यग्रहणसामथ्र्यात् पूर्वको हेतुत्रानुवत्र्तते। तेन तुल्यशब्दो हेत्वनुकर्षणार्थो भवतीति। "आन्याय्यादुत्थानात्" इत्यादि। उत्थानं शयनाद्रात्रेः पश्चिमे यामे न्याय्यमुक्तम्। संवेशनम् = शयनम् तदपि रजन्याः प्रथमे यामे न्याय्यम्। तदेवं सकलो दिवसः; पूर्वस्याश्च रात्रेः पश्चिमो यामः, आगमिन्याश्च प्रथमो याम इत्येषोऽद्यतनः काल इत्युक्तं भवति। "अहरुभयतोऽद्र्धरात्रम्" इत्यादि। कृत्स्नो दिवस उभयश्चाद्र्धरात्रम्। अतिक्रान्तायाश्च रात्रेरागामिन्याश्च रात्रेरद्यतनः काल इत्यपरे॥
बाल-मनोरमा
कालोपसर्जने च तुल्यम् १२८०, १।२।५७

कालोपसर्जने च। कालश्च उपसर्जनं चेति समाहारद्वन्द्वाद्विषयसप्तमी। "अशिष्य"मित्यनुवृत्तं भावप्रधानमाश्रीयते। कालविषये उपसर्जनविषये च यत्पूर्वाचार्याणां विशेषवचनं, तत्राप्यशिष्यत्वं समानमित्यर्थः। तद्विशेषवचनं विशदन्यञ्याचष्टे-अतीताया इत्यादिना।