पूर्वम्: १।२।५७
अनन्तरम्: १।२।५९
 
प्रथमावृत्तिः

सूत्रम्॥ जात्याख्यायामेकस्मिन् बहुवचनमन्यतरस्याम्॥ १।२।५८

पदच्छेदः॥ जात्याख्यायाम् ७।१ एकस्मिन् ७।१ ५९ बहुवचनम् १।१ ६० अन्यतरस्याम् ७।१ ६२

काशिका-वृत्तिः
जात्याख्यायम् एकस्मिन् बहुवचनम् अन्यतरस्याम् १।२।५८

अशिष्यम् इति निवृतम्। जातिर् नाम अयम् एको ऽर्थः। तदभिधाने एकवचनम् एव प्राप्तम् अत इदम् उद्यते। जातेराख्या जात्याख्या। जात्याख्यायाम् एकस्मिन्नर्थे वहुवचनम् अन्यतरस्यां भवति। जात्यर्थो बहुवद् भवति इति यावत्। तेन तद्विशेषणानाम् अजातिशब्दानाम् अपि सम्पन्नादीनां बहुवचनम् उपपद्यते। सम्पन्नो यवः, सम्पन्ना यवाः। सम्पन्नो व्रीहिः, सम्पन्ना व्रीहयः। पूर्ववया ब्राह्मणः प्रत्युत्थेयः, पूर्ववयसो ब्राह्मणाः प्रत्युत्थेयाः। जातिग्रहणं किम्? देवदत्तः। यज्ञदत्तः। आख्यायाम् इति किम्? काश्यपप्रतिकृतिः काश्यपः। भवत्ययं जातिशब्दो न त्वनेन जातिराख्यायते। किं तर्हि? प्रतिकृतिः। एकस्मिनिति किम्? व्रीहियवौ। सङ्ख्याप्रयोगे प्रतिषेधो वक्तव्यः। एको ब्रीहिः सम्पन्नः सुभिक्षं करोति।
न्यासः
जात्याख्यामेकस्मिन्बहुवचनमन्यतरस्याम्। , १।२।५८

"जातिर्नामायमेकोऽर्थः इत्यादिना सूत्रारम्भस्य प्रयोजनमाह। ननु जातेः संख्या न विद्यते? तस्या द्रव्यधर्मत्वात्। यद्यपि वैशेषिकसिद्धान्तप्रसिद्धा गुणपदार्थसंगृहीता या संख्या सा न विद्यते; तथापि "भेदका गुणाः" इत्यस्मद्दर्शने" भेदमात्रा या संख्या सा विद्यत एवेत्यदोषः। "जातेराख्या" इति। आख्यानमाख्या = प्रत्यायनम्। "एकस्मिन्नर्थे" इति। जात्याख्योऽर्थो "जात्यर्थो बहुवद्भवतीति यावत्" इति। एतेनैतद्दर्शयति-- न हि जातिविशेषणेभ्यः सम्पन्नादिभ्यस्तन्न स्यात्। तेषामजातिशब्दत्वादित्यभिप्रायः। कथं पुनर्जात्यर्थस्य बहुवद्भावो लभ्यते? अन्वर्थग्रहणात्। बहुवचनमिह न पारिभाषिकं बहुवचनं गृह्रते, किं तर्हि? अन्वर्थम्। उक्तिः = वचनम्। बहूनां वचनं बहुवचम्। न चैकस्मिन्नर्थे बहूनां वचनं सम्भवति, अतः सामथ्र्याद्वित्यर्थो गम्यते-- एकस्मिन्नर्थे बहुविदिति। तदनेन प्रकारेण जात्यर्थो बहुवद्भवति। "तेन" इत्यादि। यत ए जात्यर्थस्य बहुवद्भावो विधीयते, तेन जातिविशेषणानामजातौ वर्तमानानां बहुवचनमुपपद्यते, जातिशब्दवत्। "देवदत्तः" इति। देवदत्तशब्दो यदृच्छाशब्दः। नानेनैकं वस्त्वनेकव्यक्त्यनुगतमभिधीयते। अनेकव्यक्त्याधारा हि जातिः। ततो न देवदत्तत्वं नाम जातिरस्तीति न भवत्यत्र बहुवद्भावः। ननु चात्रावस्थाभेदेनानेकाधारं देवदत्तत्वमस्ति, नैतदस्ति; एवं हि जातिग्रहणमनर्थकं स्यात्, सर्वत्र जातेः सम्भवात्। तस्माज्जातिग्रहणसामथ्र्याल्लोके ये जातिशब्दाः, प्रतीताः, तदर्था एवात्र जातिशब्देन विवक्षिता इति विज्ञायते, न च देवदत्तशब्दो लोके जातिशब्दः प्रतीतः। "काश्यपप्रतिकृतिः काश्यपः" इति। काश्यपस्यापत्यम् "अनृष्यानन्तर्ये विदादिभ्योऽञ्" ४।१।१०४ इत्यञ्-- काश्यप इति। तत इवार्थे "एवे प्रतिकृतौ"५।३।९६ इति कन्। "लुम् मनुष्ये" ५।३।९८इति लप् भवति। "अयं जातिशब्दः" इति। "गोत्रञ्च चरणैः सह" (४।१।६३म।भा) इति लक्षणात्, तस्य च गोत्रप्रत्ययान्तत्वात्। न त्वयं जातिरूपेणोच्यते, किं तर्हि? प्रतिकृतिरिति। एवं तर्हि जातिप्रत्यायने हि चिकीर्षिते बहुवद्भावेन भवितव्यम्। न चेह जातिप्रत्यायनं चिकीर्षितम्, किं तर्हि? प्रतिकृतिप्रत्यायनम्।"व्रीहियवौ" इति। एकस्मिञ्जात्यर्थे बहुवद्भावोऽनेन विधीयते। इह तु द्वौ जात्यर्थो विवक्षितौ। वक्तव्यशब्दस्य व्याख्येय इत्यर्थः। तत्रेदं व्याख्यानम्-- अन्यतरस्यामिति व्यवस्थितविभाषेयम्। तेन संख्याप्रयोगे न भविष्यति। अथ वा- एको व्रीहिः सम्पन्न इत्यत्रैकशब्दः प्रयुज्यमानो जात्यर्थस्यैकत्वमुद्भावयति,तच्च बहुत्वेन विरुध्यते। तस्मादेकत्वबहुत्वयोर्विरोधाद्बहुवद्भावो नेह भविष्यति॥
बाल-मनोरमा
जात्याख्यायामेकस्मिन्बहुवचनमन्यतरस्याम् ८०७, १।२।५८

जात्याख्यायाम्। आकृत्यधिकरणमन्यायेन घटादिशब्दानां जातिवाचकत्वाज्जातेश्चैकत्वादेकवचनमेव स्यादित्यारम्भः। जातिशब्दे एकत्वे बहुवचनं वा स्यादित्यक्षरार्थः। तथा सति "ब्राआहृणा भोज्या" इत्यादौ विशेषणान्न स्यादित्याशङ्क्य एकस्मिन्नर्थे विद्यमानः शब्दो बहूनर्थान् वक्ति, एकार्थो बहुवद्भवतीति लभ्यते इत्यभिप्रेत्याह-एकोऽप्यर्थ इति। बहुत्वप्रयुक्तं कार्यं लभत इत्यर्थः।

तत्त्व-बोधिनी
जात्याख्यायामेकस्मिन्बहुवचनमन्यतरस्याम् ७०९, १।२।५८

एकोऽप्यर्थो वा बहुबदिति। एवंच विशेषणादपि सिद्धमिति ध्वनयन्नुदाहरति---ब्राआहृणाः पूज्या इति। जात्याख्यायां किम्()। दोवदत्तो यज्ञदत्तः। एकस्मिन्किम्()। व्रीहियवौ। अस्मदो द्वयोश्च। चात् "एकस्मिन् बहुवचनमन्यतरस्या"मिति च वर्तते। तदेतदाह---एकत्वे द्वित्वे च विवक्षित इत्यादि।