पूर्वम्: १।२।५८
अनन्तरम्: १।२।६०
 
प्रथमावृत्तिः

सूत्रम्॥ अस्मदो द्वयोश्च॥ १।२।५९

पदच्छेदः॥ अस्मदः ६।१ द्वयोः ७।२ ६१ एकस्मिन् ७।१ ५८ बहुवचनम् १।१ ५८ अन्यतरस्याम् ७।१ ५८

काशिका-वृत्तिः
अस्मदो द्वयोश् च १।२।५९

अस्मदो यो ऽर्थस् तस्य एकत्वे द्वित्वे च बहुवचनम् अन्यतरस्यां भवति। अहं ब्रवीमि , वयं व्रूमः। आवां ब्रूवः, वयं व्रूमः। सविशेषणस्य प्रतिषेधो वक्तव्यः। अहं देवदत्तो ब्रवीमि। अहं गार्ग्यो व्रवीमि। अहं पटुर् ब्रवीमि। युष्मदि गुरावेकेषाम्। त्वं मे गुरुः, यूयं मे गुरवः।
न्यासः
अस्मदो द्वयोश्च। , १।२।५९

अत्राप्यर्थस्य बहुत्वातिदेशः। "अस्मदो योऽर्थः स बहुवद्भवति" इति। तेन तिङन्तस्यापि तत्र वर्तमानस्य बहुवचनान्तत्वं भवति। "वयं ब्राऊमः" इति। "एकत्वे द्वित्वे च" इत्यादि। युक्तं यदेकत्वे भवति, द्वित्वे तु कथम्? न हि द्वित्वमस्मदर्थस्य सम्भवति; अस्मच्छब्दस्यात्मविषयत्वात्, आत्मनश्चैकत्वात्, नैष दोषः; आत्मत्वं परत्र यदोपचर्यते "अयं मे द्वितीय आत्मा" इति तदा अस्मच्छब्दस्य तत्रापि वृत्तेद्वर्यर्थविषयत्वं सम्भवति। अथ वा-- त्यदादीनां मिथो यद्यत् परं तच्छिष्यत इत्यस्मच्छब्द एव शिष्यमाणो युष्मदर्थमप्याहेति द्वयर्थतोपपद्यत इति युज्यते द्वयर्थता। अथ यद्यस्मच्छब्दो बहुवचनान्तः प्रयुज्यते तदैकार्थविषयोऽयम्, न द्वयर्थविषय इति; अथ द्व्यर्थविषयोऽयं नैकार्थविषय इति कुतस्यस्यैकार्थद्वयर्थविषये वृत्तिरवसीयते? प्रकरणात्। यथा-- आराच्छब्दस्य दूरान्तिकार्थयोर्वृत्तिरिति। "अहम्" इति। "ङे प्रथमयोरम्" ७।१।२८ इत्यम्भावः, "त्वाहौ सौ" ७।२।९४ इत्यहारदेशः। "वयम्" इति। जसि "मपर्यन्तस्य" ७।२।९१ "यूयवयौ जसि" ७।२।९३ इत वयादेशः, "शेषे लोपः" ७।२।९० "आवाम्" इति। औप्रत्यये "युवावौ द्विवचने" ७।२।९२ इत्यावादेशः। "प्रथमायाश्च" ७।२।८८ इत्यादिनात्वम्। वक्तव्य इति व्याख्येय इत्यर्थः। व्याख्यानां तु-- अन्यतरस्यांग्रहणं यदनुवर्ततते तस्य व्यवस्थितविभाषात्वमाश्रित्य कत्र्तव्यम्। "युष्मदि गुरावेकेषाम्" इति। एतदपि चकारस्यानुक्त समुच्चयार्थत्वात् सूत्रेणैव संगृहीतम्॥
बाल-मनोरमा
अस्मदोद्वयोश्च ८०८, १।२।५९

अस्मदो द्वयोश्च।

सविशेषणस्येति। "त्वं राजा वयमप्युपासितगुरुप्रज्ञाभिमान्नोन्नताः" इत्यत्र तु अवयवगतबहुत्वाभिप्रायं बहुवचनम्।