पूर्वम्: १।२।६२
अनन्तरम्: १।२।६४
 
प्रथमावृत्तिः

सूत्रम्॥ तिष्यपुनर्वस्वोर्नक्षत्रद्वंद्वे बहुवचनस्य द्विवचनं नित्यम्॥ १।२।६३

पदच्छेदः॥ तिष्यपुनर्वस्वोः ६।२ नक्षत्रद्वन्द्वे ७।१ बहुवचनस्य ६।१ द्विवचनम् १।१ नित्यम् १।१

काशिका-वृत्तिः
तिष्यपुनर्वस्वोर् नक्षत्रद्वन्द्वे बहुवचनस्य द्विवचनं नित्यम् १।२।६३

छन्दसि इति निवृत्तम्। निष्यः एकः, पुनर्वसू द्वौ, तेषं द्वन्द्वो बह्वर्थः। तत्र बहुवचने प्राप्ते द्विवचनं विधीयते। निष्यपुनर्वस्वोः नक्षत्रविषये द्वन्द्वे बहुवचनप्रसङ्गो नित्यं द्विवचनं भवति। उदितौ तिष्यपुनर्वसू दृश्येते। तिष्यपुनर्वस्वोः इति किम्? विशाखानुराधाः। नक्षत्रे इति किम्? तिष्यश्च माणवकः, पुनर्वसू माणवकौ, तिष्यपुनर्वसवो माणवकाः। ननु च प्रकृतम् एव नक्षत्रग्रहणं किमर्थं पुनरुच्यते। पर्यायाणाम् अपि यथा स्यात्। तिष्यपुनर्वसू। पुष्यपुनर्वसू। सिद्ध्यपुनर्वसू। द्वन्द्वे इति किम्? यस्तिष्यस्तौ पुनर्वसू येषां ते इमे तिष्यपुनर्वसवः। उन्मुग्धाः तिष्यादय एव विपर्ययेण दृश्यमाना बहुव्रीहिणोच्यन्ते। तेन नक्षत्रसमास एव अयम्। बहुवचनस्य इति किम्? एकवचनस्य मा भूत्। निष्यपुनर्वसु इदम् इति। सर्वो द्वन्द्वो विभाषा एकवद् भवति इत्यस्य एतद एव ज्ञापकम्। नित्यग्रहणं विकल्पनिवृत्त्यर्थम्।
न्यासः
तिष्यपुनर्ववस्वोर्नक्षत्रद्वन्द्वे बहुवचनस्य द्विवचनं नित्यम्। , १।२।६३

"तिष्यपुनर्वसवो माणवकाः" इति। तिष्यपुनर्वसुशब्दाभ्यां "नक्षत्रेण युक्तः कालः" ४।२।३ इत्यण् भवति। तस्य "लुबविशेषे" ४।२।४ इति लुप्। ततस्तिष्ये जातो माणवकः पुनर्वस्वोर्जातौ माणवकाविति "सन्धिवेलादि" ४।३।१६ इत्यादिनाऽण्, तस्य "श्रविष्ठाफल्गुन्यनुराधा" ४।३।३४ इत्यादिना लुप्। "पर्यायाणामपि यथा स्यात्" इति। नक्षत्रग्रहणे सत्यर्थग्रहणादेतद्भवति। शब्दग्रहणे च "स्वं रूपम्" १।१।६७ इत्यषा परिभाषा भवतीत्युक्तमेतत्। तदभावे पर्यायाणामपि भवति। "सिद्ध्यपुनर्वसू" इति। सिद्ध्यशब्दस्तिष्यपर्यायः। "यस्तिष्यस्तौ पुनर्वसू येषाम्" इत्यवयवेन विग्रहं दर्शयति। समुदायस्तु समासार्थो वेदितव्यः। अथ तिष्यपुनर्वसव इति? बहुव्रीहिणा विपर्यस्तमतयः पुरुषा एवैवमुच्यन्ते। ततश्च नक्षत्रसमास एवायं न भवति। तत् किमेतन्निवृत्त्यर्थेन द्वन्द्वग्रहणेनेत्येवं यो देशयेत् तं प्रत्याह-- "तिष्यादय एव" इत्यादि। स्वदर्णनापराधादन्यथा तिष्यादीन् दृष्ट्वा प्रतिपत्तृभिस्त ए तिष्यादयो विपर्ययेण दृश्यमाना बहुव्रीहिणैवमुच्यन्ते, न तु पुरुषाः। तस्मान्नक्षत्रसमास एवायम्। "तिष्यपुनर्वस्विदम्" इति। केन पुनरत्रैकवद्भावः? "जातिरप्राणिनाम्" २।४।६ इति चेत्, न; संज्ञाशबद्त्वात्, देवदत्तादिशब्दवत्। नायं जातिशब्दः,अनेकधारा हि जातिर्भवति, न च तिष्यादिस्तथा। किञ्च वक्ष्यति-- "जातिप्रधानपरत्वे च जातिद्रव्याणामयमेकवद्भावः, न नियतद्रव्यविवक्षायाम्" इति; नियतद्रव्यविवक्षा चात्र, तस्मान्न "जातिरप्राणिनाम्" इत्यनेनैकवद्भाव उपपद्यते। न चान्यदेकवद्भावलक्षणमस्ति। तत्र तिष्यपुनर्वस्वोर्नक्षत्रे द्वन्द्वसमासे बहुत्वाद्बहुवचनेन भवितव्यम्। एवञ्च बहुवचनग्रहणमनर्थकमित्यत आह-- "सर्वो द्वन्द्वो विभाषा" इत्यादि। यदयमेकवचननिवृत्त्यर्थं बहुवचनग्रहणं करोति, ततोऽवसीयते-- अस्तीयम्परिभाषा "सर्वो द्वन्द्वो विभाषैकवद्भवतिट (व्या।प।९१) इति। तेनेह बहुवचनग्रहणमेकवचननिवृत्त्यर्थं कृतिमित्यभिप्रायः।
बाल-मनोरमा
तिष्यपुनर्वस्वोर्नक्षत्रद्वन्द्वे बहुवचनस्य द्विवचनं नित्यम् ८१०, १।२।६३

तिष्यपुनर्वस्वो। विशाखानुराधा इति। विशाखे च अनुराधाश्चेति विग्रहः। तिष्यपुनर्वसव इति। तिष्यश्च पुनर्वसू चेति विग्रहः। तिष्यशब्दात्पुनर्वसुशब्दाच्च "नक्षत्रेण युक्तः" इत्यण्। "लुबविशेषे" इति लुप्। ततो जातार्थे सन्धिवेलाद्यण्। "श्रविष्ठाफल्गुनी"त्यादिना लुक्। "जात्याख्याया"मित्यादिचतुःसूत्र्या अत्र सङ्गतिश्चिन्त्या।

तत्त्व-बोधिनी
तिष्यपुनर्वस्वौर्वक्षत्रद्वन्द्वे बहुवचनस्य द्विवचनं नित्यम् ७११, १।२।६३

तिष्यपुनर्वस्वोः। विशाखानुराधा इति। विशाखे चानुराधाश्चेति विग्रहः। तिष्यपुनर्वसव इति। तिष्यपुनर्वसुशब्दाभ्यां पूर्ववत् "नक्षत्रेण युक्तः कालः"इत्यण्, "लुबविशेषे"इति च लुप्। ततो जातार्थे सन्धिवेलादिसूत्रेण अण्, तस्य तु "श्रविष्ठाफल्गुन्यनुराधे"त्यादिना लुक्। नक्षत्र इत्यनुवर्तमाने पुनर्नक्षत्रग्रहणं पर्यायाणामपि यथा स्यादित्येतदर्थमित्याकारः। एवं च "सिध्यपुनर्वसू"इत्यपि सिध्यतीति दिक्। बहुवचनस्य किम्()।, इदं तिष्यपुनर्वसु। "चार्थे द्वन्द्व"इति समाहारद्वन्द्वोयम्।