पूर्वम्: १।२।६३
अनन्तरम्: १।२।६५
 
प्रथमावृत्तिः

सूत्रम्॥ सरूपाणामेकशेष एकविभक्तौ॥ १।२।६४

पदच्छेदः॥ सरूपाणाम् ६।३ एकशेषः १।१ ७३ एकविभक्तौ ७।१

काशिका-वृत्तिः
ससूपाणाम् एकशेष एकविभक्तौ १।२।६४

समानं रूपम् एषाम् इति सरूपाः। सरूपाणां शब्दानं एकविभक्तौ परत एकशेषो भवति। एकः शिष्यते तरे निवर्तन्ते। वृक्षश्च वृक्षश्च वृक्षौ। वृक्षश्च वृक्षश्च व्र्क्षश्च वृक्षाः। प्रत्यर्थं शब्दनिवेशान् न एकेन अनेकस्य अभिधानम्। तत्र अनेकार्थाभिधाने ऽनेकशब्दत्वं प्राप्तं तस्मादेकशेषः। सरुपाणाम् इति किम्? प्लक्षन्यग्रोधाः। रूपग्रहणं किम्? भिन्ने ऽप्यर्थे यथा स्यात्। अक्षाः। पादाः। माषाः। एकग्रहणं किम्? द्विबह्वोः शेषो मा भूत्। शेषग्रहनं किम्? आदेशो मा भूत्। एकविभक्तौ इति किम्? पयः पयो जरयति। ब्राह्मणाभ्यां च कृतं ब्राह्मणाभ्यां च देहि।
लघु-सिद्धान्त-कौमुदी
सरूपाणामेकशेष एकविभक्तौ १२५, १।२।६४

एकविभक्तौ यानि सरूपाण्येव दृष्टानि तेषामेक एव शिष्यते॥
न्यासः
सरूपाणामेकशेष एकविभक्तौ। , १।२।६४

"सरूपाणाम्" इति बहुव्रीहौ कृते "ज्योतिर्जनपद" ६।३।८४ इत्यादिना समानस्यसभावः। रूपशब्दोऽत्र स्वभावे वत्र्तते। "सरूपाणां शब्दानाम्" इति निर्धारणे षष्ठी। तेन स्वरूपाणां मध्ये समानजातीयो यः सरूपः, स एक एव शिष्यते, न विरूपः। समानजातीयस्यैव हि निर्धारणं भवति, न विजातीयस्य। अथ वा-- समुदायलक्षणैषा षष्ठी, सरूपसमुदायान्तः पाती च सरूप एव भवति, न विरूपः। तेन सरूप एव शिष्यते। "एक विभक्तौ" इति। एकशब्दः समानार्थः, एकधनाविति यथा। एका चासौ विभक्तिश्चेति "पूर्वकालैक" २।१।४८ इत्यादिना समासः। एकमेकशेष इत्यत्रापि। अत्र त्वेकशब्दः संख्यावचनः, शेषशब्दोऽयं निवृत्त्या विशिष्टवस्थानमाह, नावस्थानमात्रम्। अत एवाह-- "एकः शिष्यते, अपरे निवत्र्तन्ते" इति। "वृक्षश्च वृक्षश्च वृक्षौ" इत्यादि। अविभक्तिकानामयमेकशेषः; अनैमित्तकत्वाद्विभक्तेः। न ह्रयं परां विभक्तिमाश्रित्य विधीयते। एकविभक्तावितीहसारूप्योपलक्षणमेतत्, न निमित्तनिर्देशः। एकस्यां विभक्तौ परतो यानि रूपाणि दृष्टानि, तेषामनुत्पन्नायामेव विभक्तौ प्रातिपदिकानामेकशेषो भवति। ततः कृत एकशेषे विभक्तिरुपपद्यते। अथ वा -- सविभक्तिकानामेवैकशेषः, कथम्? विभक्तिशब्देन हि कारकमभिधीयते, विभज्यते प्रातिपदिकार्थोऽनयेति कृत्वा। तदेतदुक्तं भवति-- एकस्मिन् समानेऽभिन्ने कारके यानि सरूपाणि तेषामेवैककारकाणामेकशषो भवतीति। यद्येवम्, "परतः" इति वृत्तिग्रन्थो नोपपद्यते, कारकं ह्रर्थसमवायिनी शक्तिः, न च तया शब्दानां पौर्वापर्यं सम्भवति, कथञ्च विभक्तिशब्देन कारकेऽभिधीयमाने सविभक्तिकानामेकशेषो लभ्यते? उच्यते; वृत्तिग्रन्थस्तावदुपपद्यते-- परशब्दो ह्रयमिष्टवाची, एकविभक्तौ परतः = एकस्यां विभक्ताविष्टायामित्यर्थः। विषयसप्तमी चेयम्, सति सप्तमी वा। एकस्मिन् कारके विषयभूत इष्टे सति सप्तमी वा। एकस्मिन् कारके विषयभूत इष्टे सति चेत्यर्थः। किञ्चेष्टं कारकं भवति? यद्विवक्षितम्। अत ए विवक्षितत्वात् कारकं स्वनिमित्तां विभक्तिकानामेकशेषो लभ्यते। सहभावविवक्षायाञ्चायमेकशेषो भवति। यद्येकेन युगपत् सर्वेषामर्थोऽभिधातुमिष्यत एवं सति भवति; नान्यथा। ननु च जातिः पदार्थः, जातिश्चैकैव; तत्रैकत्वाज्जातेर्बहूनां शब्दानां प्रसङ्ग एव नास्ति,तत्किमेकशेषारम्भेण? इति चोद्यावसरे "द्रव्यं पदार्थः" इत्येतद्दर्शनमाश्रित्याह-- "प्रत्यर्थम्" इत्यादि। प्रत्यर्थम् = एकैकस्मिन्नर्थे यस्माच्छब्दानां निवेशप्रवृत्तिस्ततोऽकेन शब्देनानेकार्थ्सयाभिधानम्। तत्रैतद्दर्शनेऽकेषामर्थाभिधाने प्रत्येकेनैव कर्तव्येऽनेकशब्दत्वं प्रसज्यत इति यावन्तस्तेऽर्थास्तावतां शब्दानां प्रयोगः प्राप्नोति, इष्यते चैकशब्दता। तस्मादेकशेष आरभ्यते। "रूपग्रहणं किम्" इति। एवं मन्यते-- रूपग्रहणे क्रियमाणे पदद्वयसमनुगम्योऽर्थेः प्रतिपत्तव्य इति प्रतिपत्तिगौरवं भवति। समानानामित्युच्यमाने सत्येकपदसमनुहम्योऽर्थः प्रतीयत इति प्रतिपत्तिलाघवं भवति; तस्मात् समानग्रहणमेव कत्र्तव्यमिति? भिन्नेऽप्यर्थे यथा स्यादिति रूपग्रहणम्। यदि रूपग्रहणं न क्रियेत तदा विशेषानभिधानाद्यत्र सर्व समानं शब्दोऽर्थश्च तत्रैव स्याद्()वृक्षा इत्यादौ, अक्षा इत्यादौ तु न स्यात्; अर्थभेदात्। तथा ह्रक्षशब्द इन्द्रियाख्ये, शकटाङ्गे, बिभीतकादावर्थे च वर्ततेष पादशब्दोऽपि कार्षापण-- श्लोकपाद-- पाणिपदादावर्थे वर्तते, माषशब्दोऽपि व्रीह्रादौ। "द्विबह्वोः शेषे मा भूत्" इति। ननु च "शेष" इत्येकत्वसंख्याविवक्षायां द्वयोर्बहूनाञ्च शेषो न भविष्यति,नैतदेवम्; इह विधीयमानत्वाच्छेष एव प्रधानम्, न च प्रधाने संख्या विवक्ष्यते। तथा हि-- "कर्त्तुरीप्सिततमं कर्म" १।४।४९ इति कर्मसंज्ञा; ईप्सिततमस्य प्राधान्यात्। असत्यां संख्याविवक्षायां द्वयोर्बहूनाञ्च कर्मसंज्ञा भवति। गुणे तु संख्या विवक्ष्यते, यथा-- "ङयाप्प्रातिपदिकात्" ४।१।१ इति स्वादयो विधीयमानत्वात् प्रधानम्; ङयाप्प्रातिपदिकमप्रधानमिति तत्र संख्या विवक्ष्यते। तेनैकैक्मादेव स्वादय उपपद्यन्ते। लक्षणानुरोधाद्गुणेऽपि क्वचित् संख्या न विवक्ष्यते, यथा इहैव-- सरूपाणामिति। तेन द्वयोरपि सरूपयोरेकः शिष्यते। "आदेशो मा भूत्" इति। असति शेषग्रहणे सरूपाणामिति स्थानषष्ठीयं स्यात्; ततशचादेशः स्यात्। एवञ्च "अशूप्रुषिलटिकणिखटिविशिभ्यः क्वन्" (द।उ।८।१२५) इति क्वन्प्रत्ययान्तोऽ()आशब्दो नित्स्वरादाद्युदात्त इति द्वयोर()आशब्दयोराद्युदत्तयोः स्थान आद्युदात्तद्वयवानेवादेशः स्यात्; आन्तरतम्यात्। "पयः" इत्यादि। एकः पयः शब्दः प्रथमान्तः कर्तृपदम्, द्वितीयो द्वितीयान्तः कर्मपदम्, ततो भिन्नविभक्तिकत्वम्;नैकविभक्तिपरत्वमित्येकशेषो न भवति। " ब्राआहृणाभ्याम्" इति। प्रथमो ब्राआहृणशब्दस्तृतीयान्तः,द्वितीयस्तु चतुथ्र्यन्तः। तेनात्रापि समानविभक्तिकत्वं नास्ति॥
बाल-मनोरमा
सरूपाणामेकशेष एकविभक्तौ १८७, १।२।६४

अथ प्रातिपदिकार्थगतद्वित्वादिविक्षायां प्रातिपदिकस्य द्वित्र्यादिप्रयोगप्राप्ताविदमारभ्यते--सरूपाणाम्। "एकविभक्ता"विति "सरूपाणा" मित्यत्रान्वेति। समानं रूपं येषां तानि सरूपाणि। ज्योतिर्जनपदेत्यादिना समानस्य सभावः। निर्धारणषष्ठी। "वृद्धो यूने"त्युत्तरसूत्रादेवेत्यपकृष्यते। शिष्यते इति शेषः। कर्मणि घञ्। एकश्चासौ शेषश्चेति पूर्वकालैकेति समासः। एकस्यां विभक्तौ परतः सरूपाणामेव दृष्टानां मध्ये एकः शिष्यते इति फलति। तदाह--एकविभक्ताविति। एवेति कम्?। मातृशब्दस्तावज्जननीवाची परिच्छेतृवाची च। त्र मातृभ्यामिति भ्यामादौ क्वचित्सारूप्ये सत्यपि, औजसादिषु मातरौ माताराविति वैरूप्यदर्शनान्नैकशेषः। यद्यपि कतिपयविभक्तौ उक्तयोर्मातृशब्दयोः सारूप्येणैव दर्शनमस्ति। तथापि एकस्यामपि विभक्तौ परतो विरूपाणि न दृष्टानित्यर्थो विवक्षितः। एतद्दयोतनायैव एकविभर्तावित्यत्र "एक"ग्रहणम्। एवकारापकर्षसिद्धार्थकथनपरमेकग्रहणं स्पष्टार्थमेवेति केचित्। "एकशेष" इत्येकपदोपादानं तु द्विबहूनामपि शेषो मा भूदित्येतदर्थम्। "शेष" पदानुपादाने तु सरूपाणां स्थाने एक आदेशः स्यात्। ततश्च अ()आश्च अ()आश्चेति द्वयुदात्तवतः स्थाने द्व्युदात्तवानादेशः स्यात्। तन्निवृत्त्यर्थं शेषग्रहणम्। एकविभक्ताविति सारूप्ये उपलक्षणम्। न तु एकविभक्तौ परतः एकशेषो भवतीति व्याख्यानमुचितम्, जननीपरिच्छेत्तृवाचिनोरेकशेषापत्तेरित्यादि प्रपञ्चितं प्रौढमनोरमायाम्। अत्र "तिष्यपुनर्वस्वोर्नक्षत्रद्वन्द्वे " इति पूर्वसूत्राद्द्वन्द्व इत्यनुवर्त्त्य द्वन्द्वे प्रसक्त इति व्याख्येयम्। ततश्च "देवदवः" "राजराज" इत्यादौ नैकशेषः। द्वन्द्वापवाद एकशेष इति फलितम्। यद्यप्यनैमित्तिकत्वादन्तरह्गोऽयमेकशेषः सुबुत्पत्तेः प्रागेव प्रवर्तते, तथापि द्वन्द्वापवाद एवायम्। असति ह्रेकशेषे सुबुत्पत्तिः, पक्षे द्वन्द्वश्च स्यात्। सति तु अनेकसुबन्तीविरहाद्द्वन्द्वस्याऽप्राप्तिः फलिता। घटश्च घटश्च घटश्च तेषां समाहार इति समाहारद्वन्द्वविषये तु नास्य प्रवृत्तिः, अनभिधानात्। द्वन्द्वे कृते एकशेष इति तु न व्याख्येयम्। "पन्थान" इत्यादौ ऋक्()पूरित्यादिसमासान्तापत्तेः। करावित्यादौ "द्वन्द्वश्च प्राणितूर्ये"त्याद्यापत्तेः। पूर्वसूत्रादिह द्वन्द्वग्रहणानुवृत्तौ च "इदितो नुम्धातो"रित्यत्र "इदित" इति निर्देशो लिङ्गम्। इत्िकार इत्संज्ञको यस्य स इदित्। अत्र इच्छब्दयोरेकविभक्तौ सारूप्येऽपि द्वन्द्वविषयत्वाऽभावान्नैकशेषः। अन्यथा तत्राप्येकशेषः स्यादित्यलम्।

राम औ इति स्थिते प्रक्रियां दर्शयति-प्रथमयोरित्यादिना। वृदिं()ध बाधित्वा पूर्वसवर्णदीर्घे प्राप्ते आह-नादिचीति। तस्मिन् प्रतिषिद्धे सति वृद्धेः प्रवृत्तौ रामौ इति रूपमित्यर्थः।

तत्त्व-बोधिनी
सरूपाणामेकशेष एकविभक्तौ १५६, १।२।६४

सरूपाण्येवेति। एतच्च उत्तरसूत्रस्थस्यैवकारस्येहानुकर्षणाल्लभ्यते। अत्र च "एकस्यापि विभक्तौ परतो विरूपाणि न दृष्टानी"ति पर्यवसन्नोऽर्थः, तेन मातृशब्दयोर्जननीवाचिपरिच्छेत्तृवाचनिनोर्नैकशेषः, "मातृभ्यां" "मातृभि"रित्यादौ सारूप्येऽपि औजसादिषु वैरूप्यात्। नन्वेवं "पयः पयो नयति" "देवदेवे"त्यादावतिप्रतिप्रसङ्ग स्यादेवेति चेत् ; उच्यते-सहविविक्षायामेवैकशेषः प्रवर्तते। इतरेतरयोगद्वन्द्वस्य विषय इति यावत्। यत्र ह्रनेकस्यार्थस्य मिलितस्येतरान्वयः स तथाभूतो विषयः। इदं च "इदितो नुम्धातो"रिति लिङ्गाल्लभ्यते, न्यायाच्च। तथाहे-"यः शिष्यते स लुप्यमानार्थाभिधायी"ति स्थिते श्रूयमाणैकशब्दोपस्थितं सर्वमविशेषादैकरूप्येणैवान्वयितुमर्हति। यद्वा "तिष्यपुनर्वस्वो"रिति सूत्राद्द्वन्द्वे इत्यनुवर्त्त्य "द्वन्द्वे प्रसक्ते सती"ति व्याख्येयं, न तु द्वन्द्वे कृते सती"ति। "पन्थानौ" "पन्थान" इत्यादौ "ऋक्पूरब्धू"रित्यादिना समासान्तापत्तेः, "करौ""करा" इत्यादौ "द्वन्द्वश्च प्राणितूर्ये"त्यादिना एकवद्भावापत्तेश्चेति दिक्। सूत्रे "शेष" शभ्दः कर्मसाधन इत्याह-एक एव शिष्यत इति। असत्येकग्रहणे द्विबह्वोरपि शेष#ः स्यादित्येकग्रहणम्। न चैवमप्येकविभक्तावित्यत्र एकग्रहणं व्यर्थमिति शङ्क्यम्, "एकस्यामपि विभक्तौ परतो विरूपाणि न दृष्टानी"व्यर्थलाभाय तस्यावश्यकत्वात्। किंच "स्वसा च स्वसारौ चे"त्यादौ विभक्तौ परतः पूर्वभागयोर्वैरूप्यदर्शनात्स्वसार इत्येकशेषस्तत्र न स्यात्। तथा "स्वसरि च स्वस्त्रोश्चे"त्यत्र वैरूप्यदर्शनात्स्वसृष्विति न स्यात्। किं तु "कमलौ" "कमल" इत्यादिष्वेव स्यात्। कृते त्वेकग्रहणे नायं दोषः प्रसज्यते। एकविभक्तौ परतः पूर्वत्र वैरूप्याऽदर्शनात्। यदा तु विभक्तावित्यत्रैकत्वस्य विवक्षितत्वान्मास्त्वत्र एकग्रहणमित्युच्यते, तर्हि स्पष्टप्रतित्त्यर्थमेवास्त्विति केचित्। अन्ये त्वाहुः-एकग्रहणमेकैकविभक्तावित्यर्थलाभार्थम्। तथा च सकलविभक्तावित्यर्थलाभादेवकारापकर्षणं विनैव सिद्धमिष्टमिति दिक्।

एकश्च एकश्च द्वौ च द्वौ चेत्यादावेकशेषो न भवत्यनभिधानात्। द्वन्द्वोऽप्यत्रानभिधानेनैव वारणीयः। उत्सर्गतः सङ्ख्याशब्दे()ओवमेव। विंशत्यादौ त्वेकशेष इष्ट एवेति बोध्यम्।