पूर्वम्: १।२।६४
अनन्तरम्: १।२।६६
 
प्रथमावृत्तिः

सूत्रम्॥ वृद्धो यूना तल्लक्षणश्चेदेव विशेषः॥ १।२।६५

पदच्छेदः॥ वृद्धः १।१ ६६ यूना ३।१ ६६ तल्लक्षणः १।१ ६९ चेत् ६९ एव ६९ विशेषः १।१ ६९ शेषः १।१ ६४

काशिका-वृत्तिः
वृद्धो यूना तल्लक्षणश् चेदेव विशेषः १।२।६५

शेषः इति वर्तते। यूना इति सहयोगे तृतीया। वृद्धो यूना सहवचने शिष्यते युवा निवर्तते। वृद्धशब्दः पूर्वाचार्यसंज्ञा गोत्रस्य अपत्यम् अन्तर्हितं वृद्धम् इति। वृद्धयूनोः सहवचने वृद्धः शिष्यते तल्लक्षणश्चेदेव विशेषः। तदिति वृद्धयूनोर् निर्देशः। लक्षणशब्दो निमित्तपर्यायः। चेच्छब्दो यद्यर्थे। एवकारो ऽवधारणे। विशेषो वैरूप्यम्। वृद्धयुवनिमित्तकम् एव यदि वैरूपयम् भवति ततो वृद्धिः शिष्यते, युवा निवर्तते। समानायामाकृतौ वृद्धयुवप्रत्ययौ भिद्येते। गार्ग्यश्च गार्ग्याय्णश्च गार्ग्यौ। वत्स्यश्च वात्स्यायनश्च वात्स्यौ। वृद्धः इति किम्? गर्गश्च गार्ग्यायणश्च गर्गगार्गायणौ। यू ना इति किम्? गार्ग्यश्च गर्गश्च गार्ग्यगर्गौ। तल्लक्षणः इति किम्? गार्ग्यवात्स्ययनौ। एवकारः किमर्थः। भागवित्तिश्च भागवित्तिकश्च भागवित्तिभागवित्तिकौ। कुत्सा सौवीरत्वं च भागवित्तिकस्य अपरो विशेषो विद्यते।
न्यासः
वृद्धो यूना तल्लक्षणश्चेदेव विशेषः। , १।२।६५

वृद्धशब्दोऽयमस्ति लौकिकः, यश्चरमे वयसि वर्तते; अस्ति च शास्त्रीयः-- "वृद्धिर्यस्याचामादेस्तद्()वृद्धम्" १।१।७२ इति; अस्ति च पूर्वाचार्यसंज्ञा-- अपत्यमन्तर्हितं वृद्धमिति। तत्र यदि लौकिको गृह्रेत? युवशब्दस्यापि तत्साहचर्याल्लौकिकस्यैव वयोविशेषवाचिनो ग्रहणं स्यात्, ततश्चाजश्च वर्करश्चेत्येवमादौ प्रसज्येत। वृद्धावस्थो हि पशुविशेषोऽज इत्युच्यते, युवा तु वर्करः। अथ शास्त्रीय उपादीयते? औपगवश्चौपगविश्चेत्यादावपि स्यादित्येतदालोच्याह-- "वृद्धशब्दः" इत्यादि। एतेन पूर्वाचार्यप्रणीतायाः संज्ञाया वृद्धस्येदं ग्रहणमिति दर्शयति। कथं पुनरेतल्लभ्यते? उपदेशात्। अथ वा एवं मन्यते-- युवशब्दो यद्यपि लोके द्वितीये वयसि रूढः, तथापि "जीवति तु वंश्ये युवा" ४।१।१६३ इति परिभाषाबलादपत्ये यो वत्र्तते स एव गृह्रते। तेन तत्साहचर्यात् वृद्धशब्दस्यापत्यार्थवृत्तेरेव ग्रहणं युक्तमिति। गोत्रग्रहणं तु न कृतम्, वैचित्र्यार्थम्। "यूना सह वचने" इति। सहग्रहणेन यूनेति सहयोग एषा तृतीयेति दर्शयति। अत ए सहयोगे तृतीयाविधानादवगम्यते- सहभावविवक्षायामेकशेषो भवतीति। "समानायाम्" इत्यादिना यत्र वृद्धयुनिमित्तमेव वैरूप्यं तद्व#इषयं दर्शयति। आकृतिः= शब्दस्य प्रवृत्तिनिमित्तम्, गाग्र्यात्वादि, तस्यां समानायाम् = अभिन्नायां यत्र वृद्धयुवप्रत्ययादेव केवलं भिद्येते, नान्यत् प्रकृत्यादिकम्, तत्र वृद्धयुवप्रत्ययनिमित्तमेव वैरूप्यं भवतीति भावः। "गाग्र्यश्च" इत्यादि। गर्गवत्सशब्दाभ्यां गर्गादित्वाद् यञ्, गार्ग्यः, वात्स्यः, ताभ्यां यून्यपत्ये "यञिञोश्च" ४।१।१०१ इति फक्। गाग्र्यश्च गाग्र्यायणश्च गार्ग्यौ, वात्स्यश्च वात्स्यायनश्च वात्स्यौ। प्रकरणादिनात्र युवार्थो गम्यते। "गर्गश्च" इति। गर्गशब्दोऽयं मूलप्रकृततिः; न वृद्धे वत्र्तते, नापि यूनि। "गाग्र्यवात्स्यायनौ" इति। अत्र न केवलं वृद्धयुवप्रत्ययनिमित्तको विशेषोऽस्ति, अपि तु प्रकृतिनिमित्तकोऽपि। भागवित्तिशब्दो गोत्रापत्ये भगवित्तशब्दादिञन्तः। "भागवित्तिकश्च" इति। भागवित्तिशब्दाद्यून्यपत्ये "गोत्रस्त्रियाः कुत्सने ण च" ४।१।१४७ इत्यतः "कुत्सने" इत्यनुवृत्तौ "वृद्धाट्()ठक् सौवीरेषु बहुलम्" ४।१।१४८ इति ठक्॥
बाल-मनोरमा
वृद्धो यूना तल्लक्षणश्चेदेवे विशेषः ९१८, १।२।६५

वृद्धो यूना। रूपतोऽर्थश्च भेदेऽपि प्राप्त्यर्थमिदम्। यूनेति। "जीवति तु वंश्ये युवे"ति वक्ष्यमाणयुवप्रत्ययान्तेनेत्यर्थः। सहोक्ताविति। अध्याहारलब्धमेतत्। गोत्रमिति। वृद्धशब्देन "अपत्यं पौत्रप्भृति गोत्र"मिति सूत्रोक्तं गोत्रं विवक्षितम्। "अपत्यमन्तरिति वृद्ध"मिति पूर्वाचार्यपरिभाषितत्वादिति भावः। गोत्रप्रत्ययान्त"मिति यावत्। न च "गोत्रं यूने"त्येव कुतो न सूत्रितमिति वाच्यम्, "अपत्याधिकारादन्यत्र गोत्रग्रहणेन लौकिकं गोत्रं विवक्षितमिति सिद्धान्तज्ञापनार्थत्वात्। शिष्यत इति। शेष इति कर्मणि घञन्तमनुवर्तत इति भावः। तल्लक्षण इति। स=गोत्रप्रत्ययो युवप्रत्ययश्च, लक्षणं=निमित्तं यस्येति विग्रहः। विशेषः=वैलक्षणम्। तथाच गोत्रयुवप्रत्ययान्तयोर्विशेषः=वैरूप्यम्, तल्लक्षणश्चेत्=गोत्रयुवप्रत्ययनिमित्तकश्चेदित्यर्थः। अन्यनिमित्तको न चेदित्यर्थः सिद्धः। तदाह--गोत्रयुवेति। कृत्स्नमिति। एवकारलभ्यमिदम्। गाग्र्यश्चेति। गर्गस्य गोत्रपत्यं गार्ग्यः। "गर्गादिभ्यो यञ्"। गाग्र्यायण इति। गर्गस्य गोत्रापत्यं गार्ग्यः। तस्यापत्यं युवा गाग्र्यायणः। "यञिञोश्चे"ति फक्। गाग्र्याविति। अत्र गाग्र्यशब्दस्य गाग्र्यायणशब्दस्य च गोत्रयुवप्रत्ययकृतमेव वैरूप्यमिति गोत्रप्रत्ययान्तो गाग्र्यशब्दः शिष्यत इति भावः। गर्गगाग्र्यायणाविति। गर्गश्च गाग्र्यायणश्चेति विग्रहः। अत्र गर्गशब्दस्य गाग्र्यायणशब्दस्य च युवप्रत्ययमात्रकृतवैरूप्येऽपि गोत्रप्रत्ययान्तत्वाऽभावान्नैकशेष इति भावः। गर्गगाग्र्याविति। अत्र गर्गशब्दस्य गाग्र्यशब्दस्य च गोत्रप्रत्ययमात्रकृतवैरूप्येऽपि गोत्रप्रत्ययान्तो गाग्र्यशब्दो न शिष्यते, यूना सहोक्त्यभावादिति भावः। भागवित्तिभागवित्तिकाविति। भगवित्तस्य गोत्रापत्यं भागवित्तिः। अत इञ्। भागवित्तेः सौवीरस्यापत्यं युवा कुत्सितो भागवित्तिकः। "वृद्धाठ्ठक् सौवीरेषु" इति ठक्। अत्र भागवित्तिशब्दस्य च न [गोत्र]युवप्रत्ययमात्रकृतं वैरूप्यं, कुत्सासौवीरत्वकृतस्यापि वैरूप्यस्य सत्त्वात्। अतो गोत्रप्रत्ययान्तो भागावित्तिशब्दो न शिष्यत इति भावः। गाग्र्यवात्स्यायनाविति। गर्गस्य गोत्रापत्यं गार्ग्यः, वत्सस्य गोत्रापत्यं वात्स्यः। गर्गादित्वाद्यञ्। वत्सस्यापत्यं युवा वात्स्यायनः। "यञिञोश्चे"ति फक्। गाग्र्यश्च वात्स्यायनवश्चेति विग्रहः। अत्र गाग्र्यशब्दस्य वात्स्यायनशब्दस्य च न गोत्रयुवप्रत्ययमात्रकृतं वैरूप्यं, प्रकृतिवैरूप्यस्य गोत्रयुवप्रत्ययमात्रकृतत्वाऽभावात्। अतो गोत्रप्रत्ययान्तो गाग्र्यशब्दो न शिष्यत इति भावः।

तत्त्व-बोधिनी
वृद्धो यूना तल्लक्षणश्चेदेव विशेषः ७९५, १।२।६५

वृद्धो यूना। "अपत्य मन्तर्हितं वृद्ध"मिति पूर्वाचार्यैः परिभाषितस्य पाणिन्युक्तगोत्राऽपरपर्यायस्येह ग्रहणं, कृत्रिमेण यूना साहचर्यात्। तदाह---गोत्रं शिष्यत इति। "गोत्रं यूना"इत्येव तु न सूत्रितम्, "अपत्याधिकारादन्यत्र लौकिकं गोत्रग्रहण"मिति सिद्धान्तात्। तेन आपगवश्चानन्तरः, औपगविश्च युवेत्यत्र नैकशेषः। भागवित्तीति। भगवित्तस्य गोत्रापत्यं भागवित्तिरित्यस्माद्यूनि "वृद्धाठ्ठक्सौवीरेषु बहुल"मिति कुत्सायां ठक्। इह कुत्सा सौवीरत्वं चाधिकमपेक्ष्यते नतु युवत्वमात्रकृतं वैरुप्यम्। गाग्र्यवात्स्यायनाविति। इह प्रकृत्यंशे वैरूप्यं, न गोत्रादिकृतम्।