पूर्वम्: १।२।६५
अनन्तरम्: १।२।६७
 
प्रथमावृत्तिः

सूत्रम्॥ स्त्री पुंवच्च॥ १।२।६६

पदच्छेदः॥ स्त्री १।१ पुंवत् वृद्धः १।१ ६५ यूना ३।१ ६५ तल्लक्षणः १।१ ६५ चेत् ६५ एव ६५ विशेषः १।१ ६५ शेषः १।१ ६४

काशिका-वृत्तिः
स्त्री पुंवच्च १।२।६६

शेषः इति वर्तते, वृद्धो यूना इति च सर्वम् स्त्री वृद्धा यूना सहवचने शिष्यते, तल्लक्षणश्चेदेव विशेषो भवति। पुंसः इव अस्याः कार्यं भवति। स्त्र्यर्थः पुमर्थवद् भवति। गर्गी च गर्ग्यायणश्च गार्ग्यौ। वात्सी च वात्स्यायनश्च वात्स्यौ। दाक्षी च दाक्षायाणश्च दाक्षी।
न्यासः
स्त्री पुंवच्च। , १।२।६६

स्त्र्यर्थस्य वैरूप्यकारणस्याधिक्यात् पूर्वेण न सिध्यतीति वचनम्। "पुंवच्च" इति वचनादतदेशोऽयम्। "स्त्री" इति। स्त्रीप्रत्ययग्रहणं वेदं स्यात्? स्त्र्यर्थवृत्तिशब्दस्य वा ग्रहणम्? अर्थग्रहणं वा? यदि स्त्रीप्रत्ययस्य ग्रहणं स्यात्, ततोऽनेन तस्यैव निवृत्तिः क्रियते-- पुंवत् स्त्रीप्रत्ययो भवतीति; न तु स्त्र्यर्थस्य निवृत्तिः क्रियते; ततो गाग्र्यश्च गाग्र्यायणश्चेति गर्गा इत्यत्र "अस्त्रियाम" २।४।६२ इत्यनुवत्र्तमाने "यञञोश्च" २।४।६४ इति लुङन स्यात्; इह तु गर्गान् पश्यतीति "तस्माच्छसो नः पुंसि" ६।१।९९ इति नत्वं न स्यात्। द्वितीये तु पक्षे स्त्र्यर्थवृत्तेः शब्दस्यानेन पुंवद्भावः क्रियते, न तु स्त्रीत्वस्य निवृत्तिः; तथापि स एव दोषः स्यात्। अर्थगर्हणे तु न कश्चिद्दोष इत्यतः स्त्र्यर्थस्येदं ग्रहणमिति मत्वाऽ‌ऽह-- "स्त्र्यर्थः पुंवद्भवति" इति। कथं पुनरर्थस्येदं ग्रहणं लभ्यते? उच्यते; स्त्रीप्रत्ययानां तु तस्याभिधेयपातन्त्र्यात्। अर्थस्याप्राधान्यमपारतन्त्रयात्। प्रधानगुणन भवति; अप्राधान्यात्। अप्रधान्यं तु तस्याभिधेयपारतन्त्र्यात्। अर्थस्याप्राधान्यमपारतन्त्र्यात्। प्रधानगुणसन्निपाते तु प्रधानस्य ग्रहणं न्याय्यम् अतः स्त्र्यर्थं एव गृह्रते। "गार्गी, वात्सी च" इति। गाग्र्यवात्स्यशब्दाभ्यां "य()ञश्च" ४।१।१६ इति ङीप्,पूर्ववदकारयकारलोपो। "दाक्षी" इति। पूर्ववन्ङीप्()। "दाक्षायणश्च" इति। दाक्षेरपत्यमिति "यञिञोश्च" ४।१।१०१ इति फक्॥
बाल-मनोरमा
स्त्री पुंवच्च ९१९, १।२।६६

स्त्री पुंवच्च। "वृद्धेति स्त्रीलिङ्गेन विपरिणम्यते। तदाह--यूना सहोक्तौ वृद्धा स्त्री शिष्यत इति। गोत्रप्रत्ययान्तः स्त्रीवाचकः शब्दः शिष्यत इति भावः। स्त्रीत्वस्य वैरूप्यकारणस्याधिकस्य सत्त्वात् सत्त्वात् पूर्वेणाऽप्राप्ते वचनमिदम्। तदर्थ इति। तस्य=शिष्यमाणस्य स्त्रीवाचकगोत्रप्रत्ययान्तस्यार्थः पुमानिव स्यादित्यर्थः। गर्गी चेति। गर्गस्यापत्यं स्त्रीत्यर्थः। गर्गादियञन्तात् "यणश्चे"ति ङीप्। गाग्र्यायणौ चेति। गर्गाद्यञन्ताद्यून्यपत्ये "यञिञोश्चे"ति फक्। गर्गा इति। अत्र स्त्रीत्वकृतवैरूप्याधिक्येऽपि गोत्रप्रत्ययान्तः स्त्रीवाचको गार्गीशब्दः शिष्यते। स पुंवत्। कर्हि यञ् कितो न श्रूयत इत्यत आह--अस्त्रियामितीति। उपलक्षणमिदम्। "तद्राजस्य बहुषु तेनैवास्त्रियामि"त्यतोऽस्त्रियामिति, तेनैवेति, बहुष्विति चानुवर्तमाने सतीत्यर्थः। एतेन "पुंव"दित्यतस्य प्रयोजनमुक्तम्। गार्गी च गाग्र्यायणश्चेति विग्रहस्तु न दर्शितः। तता सत्यबहुत्वाद्यञो लुगभावे सति पुंस्त्वे स्त्रीत्वे च रूपं तुल्यं--गाग्र्याविति। तत्र पुंवत्त्वं निरर्थकं स्यात्। उदाहरणान्तरमाह--दाक्षी चेति। दक्षस्य गोत्रा पत्यं स्त्री दाक्षी। "अत इञि"तीञन्तात् "इतो मनुष्यजाते"रिति ङीष्। दाक्षायणश्चेति। दक्षस्यापत्यं पुमान् दाक्षिः, तस्यापत्यं युवा दाक्षायणः। "यञिञोश्चे"ति फक्। दाक्षी च दाक्षीयणश्चेति विग्रहे दाक्षीशब्दः शिष्यते। तस्य पुंवत्त्वे निरर्थकं स्यात्। उदाहरणान्तरमाह--दाक्षी चेति। दक्षस्य गोत्रापत्यं स्त्री दाक्षी। "अत इञि"तीञन्तात् "इतो मनुष्यजाते"रिति ङीष्। दाक्षायणश्चेति। विग्रहे दाक्षीशब्दः शिष्यते। तस्य पुंवत्त्वे सति ङीषो निवृत्तौ दाक्षिशब्दात् प्रथमाद्विवचने "दाक्षी"इति भवति। अत्र तल्लक्षणश्चेदेव विशेष इत्यप्यनुवर्तते। ततश्च भागवित्ती च भागवित्तिकश्च, गर्गी च वात्स्याययनश्चेत्यत्र न भवति।

तत्त्व-बोधिनी
स्त्री पुंवच्च ७९६, १।२।६६

स्त्री पुंवच्च। वृद्धा स्त्रीति। गोत्रप्रत्ययान्तं स्त्रीवाचकमित्यर्थः। पुंवद्भावकृतवैलक्षण्यं स्फुटिकर्तुं द्विवचनान्तेन विग्रहमाह गाग्र्यायणाविति। अनुवर्तमान इति। "तद्राजस्य बहुषु---"इत्यतः "पुंव"दित्यर्थातिदेशस्य फलमनेन दर्शितम्। अन्यथा स्त्रीत्वस्याऽनिवर्तनाल्लुङ् न स्यात्। "गर्गान्पश्ये"त्यत्र नत्वं च सिद्धम्। रूपातिदेशे तु नैतत्सिद्ध्येत्, सामान्यातिदेशे विशेषानतिदेशादित्याहुः। "वृद्धो यूना" इत्याद्यनुवर्तनान्नेह---गार्गी च वात्स्यायनौ च।