पूर्वम्: १।२।६
अनन्तरम्: १।२।८
 
प्रथमावृत्तिः

सूत्रम्॥ मृडमृदगुधकुषक्लिशवदवसः क्त्वा॥ १।२।७

पदच्छेदः॥ मृडमृदगुधकुषक्लिशवदवसः ५।१ क्त्वा १।१ कित् १।१

समासः॥

मृडश्च मृदश्च गुधश्च कुषस्य क्लिशश्च वदश्च वस् च मृडमृद॰वस्, तस्मात् मृड॰वसः, समाहारो द्वन्द्वः।

अर्थः॥

{मृड सुखने (तुदा॰ प॰)}, {मृद क्षोदे (क्र्या॰ प॰)}, {गुध रोषे (क्र्या॰ प॰)}, {कुष निष्कर्षे (क्र्या॰ प॰)}, {क्लिशू विबाधने (क्र्या॰ प॰)}, {वद व्यक्तायां वाचि (भ्वा॰ प॰)}, {वस निवासे (भ्वादि प॰)}, इत्येतेभ्यः धातुभ्यः परः क्त्वाप्रत्ययः किद्वत् भवति।

उदाहरणम्॥

मृडित्वा, मृदित्वा, गुधित्वा, कुषित्वा, क्लिशित्वा, उदित्वा, उशित्वा।
काशिका-वृत्तिः
मृडमृदगुधकुषक्लिशवदवसः क्त्वा १।२।७

मृड मृद गुध कुष क्लिश वद वस इत्येतेभ्यः परः क्त्वाप्रत्ययः किद् भवति। न क्त्वा सेट् १।२।१८ इति प्रतिषेधं वक्ष्यति तस्यायं पुरस्तादपकर्षः। गुधकुषक्लिशीनां तु रलो व्युपधाद्धलादेः संश्च १।२।२६ इति विकल्पे प्राप्ते नित्यार्थं वचनम्। मृडित्वा। मृदित्वा। गुधित्वा। कुषित्वा। क्लिशित्वा। उदित्वा। उषित्वा।
न्यासः
मृडमृदगुधकुषक्लिशवदवसः क्त्वा। ल् , १।२।७

"मुड सुखने", (धा।पा।१५१६) "मृद क्षोदे" (धा।पा।१५१५) , "गुध रोषे " (धा।पा।१५१७) , "कुष निष्कर्षे" (धा।पा।१५१८) "क्लिशू विबाधने" (धा।पा।१५२२), "वद व्यक्तायां वाचि" (धा।पा। १००९), "वस निवासे" (धा।पा।१९४२)। "न क्त्वा सेट् इति कित्त्वप्रतिषेधं वक्ष्यति" इति। नन्वेदतदेव नियमार्थं भविष्यतीति--- मृडादिभ्य एव सेट् क्त्वा किद् भवति, नान्येभ्य इति, ततश्च सिद्धं देवित्वा, सेवित्वेत्यादि, तत् किमर्थं "न क्त्वा सेट्"(१।२।१८) इति प्रतिषेधं वक्ष्यतिर? विस्पष्टार्थम्; अन्यथा हि केचिद्विपरीतनियमं सम्भावयेयुः-- मृडादिभ्यः क्त्वाप्रत्यय एव किद् भवति, नान्य इति। "पुरस्तादपकर्षः" इत्यादि। अपकर्ष इत्यपवाद इत्यर्थः। "क्लिशित्वा" इति। "क्लिशः क्त्वानिष्ठयोः" ७।२।५० इतीट्। "उदित्वा"इति, "उषित्वा" इति। वच्यादिसूत्रेण ६।१।१५ संप्रसारणम्। वसतेः "शासिवसिधसीनाञ्च" ८।३।६० इति षत्वम्, "वसतिक्षुधोः" ७।२।५२ इतीट्।
तत्त्व-बोधिनी
मृडमृदगुधकुषक्लिशवदवसः क्त्वा १५९१, १।२।७

मृडमृद। मृड सुखने, मृद क्षोदे, गुध परिवेष्टने, गुध रोषे च, कुष निष्कर्षे, क्लिश हिंसायां --दिवादिः, क्लिशू विबाधने--- क्र्यादिः, वद व्यक्तायां वाचि, वस निवासे। किदिति। "असंयोगाल्लिट् कि"दित्यतः किदित्यनुवर्तत इति भावः। उदित्वेति। यजादित्वात्संप्रसारणम्। उषित्वेति। "वसतिक्षुधो"रितीट्। यजादित्वात्संप्रसारणम्। "शासिवसी"ति षः। गृहीत्वेति। "ग्रहिज्ये"ति संप्रसारणम्, "ग्रहोऽलिटी"ति इटो दीर्घः।