पूर्वम्: १।२।७१
अनन्तरम्: १।२।७३
 
प्रथमावृत्तिः

सूत्रम्॥ त्यदादीनि सर्वैर्नित्यम्॥ १।२।७२

पदच्छेदः॥ त्यदादीनि १।३ सर्वैः ३।१ नित्यम् १।१ शेषः १।१ ६४

काशिका-वृत्तिः
त्यदादीनि सर्वैर् नित्यम् १।२।७२

तय्दादीनि शब्दरूपाणि सर्वैः सहवचने नित्यं शिष्यन्ते त्यदादिभिरन्यैश्च। सर्वग्रहणं सकल्यार्थम्। नित्यग्रहनं विकल्पनिवृत्त्यर्थम्। स च देवदत्तश्च तौ। यश्च देवदत्तश्च यौ। त्यदादीनां मिथो यद्यत् परं तत्तच् छिस्यते। स च यश्च यौ। यश्च कश्च कौ।
न्यासः
त्यदादीनि सर्वैर्नित्यम्। , १।२।७२

"सर्वग्रहणं साकल्यार्थम्" इति। विना तेनानपुंसकेनेत्यस्यानुवृत्तिराशङ्क्येत, ततश्च नपुंसकेन सह न स्यात्। अथ वा-- तल्लक्षमश्चेदेव विशेष इत्येतदिहानुवत्र्तत इत्याशङ्क्येत, ततश्च यत्र त्यदादिकृत एव विशेषस्तत्रैव स्यात्-- स च यश्च यावित्यादि, इहि तु न स्यात्- स च देवदत्तशच् ताविति। अतः सर्वग्रहणम्। "स च देवदत्तश्च तौ" इति। यदा विशेषविवक्षा तदैतदुदाहरणम्, यदा तु सामान्यविवक्षा , तदा देवदत्तोऽपि तच्छब्देन सम्बध्यत इति "सरूपाणाम्" १।२।६४ इत्यनेननैव सिध्यति। "यद्यत्परम्" इति। गणपाठापेक्षं परत्वं वेदितव्यम्॥
बाल-मनोरमा
त्यदादीनि सर्वैर्नित्यम् ९२५, १।२।७२

त्यदादीनि। सर्वैरिति। त्यदादिभिरितरैश्चेत्यर्थः। ताविति। अत्र देवदत्तशब्दो निवर्तते। तच्छब्दस्तु शिष्यते। तद्देवदत्ताविति न भवति। "सर्वैः किम्?। प्रत्यासत्त्या त्यदादिभिरेव सहोक्तावित्यर्थो मा भूदित्येतदर्थम्।

त्यदादीनां मिथ इति। भाष्ये स्थितमेतत्। यत्परमिति। त्यदादिगणे यत्परं पठितं तच्छिष्यत इत्यर्थः। शब्दपरविप्रतिषेधाश्रयणादिति भावः। स च यश्च यौ, सा च या च ये इति। त्यदादिगणे यच्छब्दस्य तच्छब्दादूध्र्वं पाठात् परत्वात्स एव शिष्यते इति भावः, पूर्वशेषोऽपीति। परशब्दस्येष्टवाचित्वात्क्वचित्पूर्वमपि शिष्यत इति। भावः। अत्र "द्विपर्यन्ताना"मिति न भवति। अहं च भवांस्चावामिति भाष्योक्तेः।

त्यादादित इति। आद्यादित्वात्षष्ठ()र्थे तसिः। त्यदादीनां स्त्रीशेषेऽपि सहविवक्षितेषु यः पुमान् यच्च नपुंसकं यद्वशेन लिङ्गप्रतिपादकानि भवन्तीत्यर्थः। कानीत्याकाङ्क्षायामर्थांत्त्यदादीन्येव सम्बध्यन्ते। सा च देवदत्तश्च ताविति। अत्र तच्छब्दः शिष्यते, समभिव्याह्मतदेवदत्तशब्दलिङ्गश्च। देवदत्तशब्दस्तु निवर्तत एव। पुंनपुंसकयोरिति। "सहोक्ता"विति शेषः। परत्वादिति। पुंनपुंसकतो लिङ्गवचनानी"त्यत्र पुंमपेक्षया नपुंसकस्य पाठतः परत्वावगमादित्यर्थः।

अद्वन्द्वेति। द्वन्द्वतत्पुरुषविशेषणानां त्यदादीनां स्त्रीशेषे "त्यदादितः शेषे पुंनपुंसकतो लिङ्गवचनानी"त्येतन्न भवतीत्यर्थः। द्वन्द्व उदाहरति--कुक्कुटमयूर्याविमे इति। "अयं च इयं च इमे"इत्यत्र "त्यदादितः शेषे" इति पुंलिङ्गत्वं न भवति, किंतु विशेष्यनिघ्नतैव विशेषणस्येति बोध्यम्। न च अयं च इयं च इत्यत्र स्त्रीशेष एव न भवति, "पुमान् स्त्रिये"त्युक्तत्वात्, अतः पुंनपुंसकतो लिङ्गविधेः प्रसक्तिः कथमिति वाच्यं, "परवल्लिङ्ग"मिति हि द्वन्द्वतत्पुरुषार्थयोः परवल्लिङ्गविधिः। अतो द्वन्द्वविशेषणस्य तत्पुरुषविशेषणस्य चानुप्रयोगे तदेव लिङ्गमिति भाष्यकैयटयोः स्थितम्। ततश्च "कुक्कुटमयूर्याविमे"इति उदाहरणे--अयं च इयं चेति विग्रहे "पुमान् स्त्रिया"ति पुंशेषेऽपि "परवल्लिङ्ग"मिति विशेषणत्वात्स्त्रीलिङ्गत्वे सति तस्य "त्यदादितः" इति पुंवत्त्वं प्राप्तमनेन निषिध्यत इति नानुपपत्तिः। क्वचिन्मूलपुस्तकेषु तु "मयूरीकुक्कुटाविमा"वित्यपि दृश्यते, तत्तुत प्रकृतानुपयुक्तम्,?त्र मयूरीकुक्कुटाविति द्वन्द्वार्थस्य पुंलिङ्गतया इयं चायं च इमाविति तद्विशेषणस्यानुप्रयुज्यमानस्यापि "पुमान् स्त्रिया" इति परिशिष्टस्य पुंलिङ्गस्य इदम्शब्दस्य स्त्रीत्वाऽप्रसक्त्या तत्र "त्यदादितः शेषे" इति पुंस्त्वविधेरप्रवृत्तत्वेन "अद्वन्द्वतत्पुरुषविशेषणाना"मिति निषेधस्यानुपयोगात्। तत्पुरुषे उदाहरति--तच्चेति। पिप्पल्या अर्धम्--अर्धपिप्पली। "अर्धं नपुंसक"मिति तत्पुरुषः। अर्धपिप्पली च पिप्पल्यर्धं च-अर्धपिप्पल्यौ। तच्च सा च ते। तत्र पिप्पल्यर्धंशब्दविशेष्याभिप्रायं "त"दिति नपुंसककत्वम्। "से"ति स्त्रीत्वं तु अर्धपिप्पलीति विशेष्याभिप्रायम्। अत्र "पुमान् स्त्रिये"त्यस्य नैव प्रसक्तिः, किन्तु "नपुंसकमनपुंसकेनैकव"दिति नपुंसकं शिष्टम्। तत्र "परवल्लिङ्ग"मिति स्त्रीत्वम्। तस्य स्त्रीलिङ्गतया तद्विशेषणस्यापि "परवल्लिङ्ग"मिति स्त्रीत्वम्। तस्य "त्यदादितः शेषे" इति नपुंसकत्वं प्राप्तं निषिध्यते। एवंच "ते" इति स्त्रीलिङ्गमेव सिध्यति। यद्यपि स्त्रीत्वे नपुंसकत्वे वा "ते" इति द्विवचनस्य न कोऽपि विशेषः, तथाप्यर्धपिप्पल्यस्ता इत्युदाहार्यम्। तच्च तच्च सा चेति विग्रहः।

तत्त्व-बोधिनी
त्यदादीनि सर्वैर्नित्यम् ८०१, १।२।७२

त्यदादीनि सर्वैः। सर्वैः किम्()। त्यदादिभिन्नैरपि सहोक्तौ यथा स्यात्, प्रत्यासत्त्या "त्यदादिभिरेव सहोक्तौ"इत्यर्थो मा भूत्। यत्परमिति। शब्दपरविप्रतिषेधादिति भावः।

त्यदादीनां मिथः सहोक्तौ यत्परं तच्छिष्यते। त्यदादित इति। आद्यादित्वात्तसिः। "त्यदादीनां [स्त्री]शेषे सह विवक्षितेषु यः पुमान्, यच्च नपुंसकं, तद्वशेन लिङ्गप्रतिपादकानि भवन्तीति वाच्य"मित्यर्थः। कानीयत्याकाङ्क्षायामर्थात्त्यदादीन्येव। अस्यापवादमाह---।

अद्वन्द्वतत्पुरुषविशेषणानामिति वक्तव्यम्। अद्वन्द्वेति। द्वन्द्वादिविशेषणानां पूर्वोक्तं न, किं तु विशेष्यनिघ्नतैवेत्यर्थः। नन्वेवं "कुक्कुटमयूर्यौ"इत्यत्र उभयपदार्थप्रधानत्वेन उभयोरपि विशेष्यत्वाद्विशेष्यनिघ्नतायामपि "कुक्कुटमयूर्याविमे"इति नियमतो न स्यादिति चेदत्र नव्याः---"परवल्लिङ्ग"मित्यनेन द्वन्द्वतत्पुरुषयोरुत्तरपदलिङ्गवत्त्वादुत्तरपदलिङ्गस्यैव द्वन्द्वतत्पुरुषप्रतिपाद्यत्वेन तल्लिङ्गाधीनतैवाऽनुप्रयोगस्येति न काचिदनुपपत्तिरिति। मयूरीकुक्कुटाविमाविति। प्रकृतानुपयुकतमप्येतत्प्रसङ्गादुक्तम्। तच्चेति। पिप्पल्यद्र्धम्। सा चेति अर्धपिप्पली। तत्पुरुषविशेषणमुदाहरति---अर्धपिप्पल्यौ ते इथि। यद्यपि स्त्रीनपुंसकसाधारणः "ते" इति प्रयोगस्तथापि "तच्च तच्च सा च अर्धपिप्पल्यस्ताः"इत्याद्युदाहरणमूह्रम्।