पूर्वम्: १।३।१४
अनन्तरम्: १।३।१६
 
प्रथमावृत्तिः

सूत्रम्॥ न गतिहिंसार्थेभ्यः॥ १।३।१५

पदच्छेदः॥ १६ गति-हिंसार्थेभ्यः ५।३ कर्म-व्यतिहारे ७।१ १४ आत्मनेपदम् १।१ १२

समासः॥

गतिश्च हिंसा च गतिहिंसे, गतिहिंसे अर्थौ येषां ते गतिहिंसार्थाः, तेभ्यः ॰ द्वद्वगर्भः बहुव्रीहिः।

अर्थः॥

गत्यर्थेभ्यः धातुभ्यः, हिंसार्थेभ्यः च कर्मव्यतिहारे आत्मनेपदं न भवति। पूर्वेण प्राप्तिः प्रतिषिध्यते॥

उदाहरणम्॥

गत्यर्थेभ्यः -- व्यतिगच्छन्ति, व्यतिसर्पन्ति। हिंसार्थेभ्यः -- व्यतिहिंसन्ति, व्यतिघ्नन्ति॥
काशिका-वृत्तिः
न गतिहिंसाऽर्थेभ्यः १।३।१५

पूर्वेण आत्मनेपदं प्राप्तं प्रतिषिद्यते। गत्यर्थेभ्यो हिंसाऽर्थेभ्यश्च धातुघ्यः कर्मव्यतिहरे आत्मनेपदं न भवति। व्यतिगच्छन्ति। व्यतिसर्पन्ति। हिंसाऽर्थेभ्यः व्यतिहिंसन्ति। व्यतिघ्नन्ति। प्रतिषेधे हसादीनाम् उपसङ्ख्यनम्। व्यतिहसन्ति। व्यतिजल्पन्ति। व्यतिपठन्ति। हरतेरप्रतिषेधः। संप्रहरन्ते राजानः।
लघु-सिद्धान्त-कौमुदी
न गतिहिंसार्थेभ्यः ७३५, १।३।१५

व्यतिगच्छन्ति। व्यतिघ्नन्ति॥
न्यासः
न गतिहिंसार्थेभ्यः। , १।३।१५

"व्यतिगच्छन्ति"इति। "इषुगमियमां छः" ७।३।७७ इति छत्वम्, "छे च" ६।१।७१ इति तुक्। "व्यतिसर्पन्ति" इति। "गम्लृ सृप्लृ गतौ" (धा।पा।९८२,९८३), लघूपधगुणः। "व्यतिहिंसन्ति" इति। "तृहि हिसि हिंसायाम्" (धा।पा।१३४८,१८२९)। "व्यतिघ्नन्ति" इति। "हन हिंसागत्योः" (धा।पा।१०१२) "गमहन" ६।४।९८ इत्युपधापलोपः, "हो हन्तेर्ञ्णिन्नेषु" ७।३।५४ इति कुत्वम्। "प्रतिषेधे" इत्यादि। उपसंख्यानशब्दस्य प्रतिपादनमर्थः। उपसंख्यानशब्दोऽत्रानेकार्थत्वाद्धातूनां प्रतिपादने वत्र्तते। तच्च प्रतिपादनं प्रकृतत्वात् प्रतिषेधस्येति गम्यते। तदयमर्थः-- प्रतिषेधे कत्र्तव्ये हसादीनामप्यात्मनेपदप्रतिषधस्य प्रतिपादनं कत्र्तव्यमिति। तत्रेदं प्रतिपादनम्-- नेति योगविभागः क्रियते, तेन हसादीनामपि भविष्यतीति। ततः "गतिहिंसार्थेभ्यः" इति द्वितीयो योगः, तत्र "न" इति वत्र्तते।किमर्थं पुनरयम्? पूर्वयोगस्यासर्वविषयत्वज्ञापनार्थम्, तेन "न" इति योगविभागेन हसादीनामेव प्रतिषेधो भविष्यति, नान्येष्यमिति।
बाल-मनोरमा
न गतिहिंसार्थेभ्यः ५०६, १।३।१५

न गतिहिंसार्थेभ्यः। कर्मव्यतिहारे आत्मनेपदं नेत्यर्थः। हसादिगणस्य अदर्शनादाह-- हसप्रकारा इति। उपसर्गमनपेक्ष्य ये गतिहिंसयोर्वर्तन्ते तेषामेव ग्रहणलाभाय अर्थग्रहणम्। ह्मञ्()धातुस्तु उपसर्गबलादिं()धसायां वर्तते इति न तस्य प्रतिषेध इत्याह-- हरतेरप्रतिषेध इति। अर्थग्रहणलभ्यमिदं वार्तिकम्।

तत्त्व-बोधिनी
न गतिहिंसार्थेभ्यः ४३४, १।३।१५

न गतिहिंसार्थेभ्यः। अर्थशब्दः प्रत्येकभिसंबध्यते। कर्मव्यतिहारे यदात्मनेपदं तस्य निषेधः। अर्थग्रहणसामथ्र्याद्येशब्दान्तरमनपेक्ष्य गतिहिंसयोर्वर्तन्ते त एवेह गृह्रन्ते। हरतिस्तूपसर्गवशादिं()धसायां प्रवर्तते इति "हरतेरप्रतिषेधः" इति वार्तिकमर्थग्रहणलभ्यमेवेत्याहुः।