पूर्वम्: १।३।१५
अनन्तरम्: १।३।१७
 
प्रथमावृत्तिः

सूत्रम्॥ इतरेतरान्योन्योपपदाच्च॥ १।३।१६

पदच्छेदः॥ इतरेतरान्योन्योपपदात् ५।१ १५ कर्म-व्यतिहारे ७।१ १४ आत्मनेपदम् १।१ १२

समासः॥

इतरेतरश्च, अन्योन्यश्च, इतरेतरान्योन्यौ, तौ उपपदे यस्य, सः इतरेतरान्योन्योपपदः, तस्मात् ॰ द्वन्द्वगर्भः बहुव्रीहिः।

अर्थः॥

इतरेतरान्योन्योपपदात् धातोः, आत्मनेपदं न भवति, कर्मव्यतिहारे अर्थे॥

उदाहरणम्॥

इतरेतरस्य व्यतिलुनन्ति, अन्योन्यस्य व्यतिलुनन्ति॥
काशिका-वृत्तिः
इतरेतरान्योन्यौपपदाच् च १।३।१६

इतरेतरः, अन्योन्यः इत्येवम् उपपदाद् धातोः कर्मव्यतिहारे आत्मनेपदं न भवति। इतरेतरस्य व्यतिलुनन्ति। अन्योन्यस्य व्यतिलुनन्ति। परस्परौपपदाच् च इति वक्तव्यम्। पर्स्परस्य व्यतिलुनन्ति।
न्यासः
इतरेतरान्योऽन्योपपदाच्च। , १।३।१६

उपोच्चारितं पदमुपपदम्। इतरेतरान्योऽन्यशब्दावुपपदे यस्य स तथोक्तः। अथोपपदग्रहणं किमर्थम्, "नेतरेतरान्योऽन्याभ्याम्" इत्युच्यताम्? अशक्यमेवं वक्तुम्; एवं ह्रुच्यमाने पञ्चमीनिर्देशात् "तस्मादित्युत्तरस्य" १।१।६६ इत्युत्तरस्यैव स्यात्-- इतरेतरस्य व्यतिलुनन्तीति, इह तु न स्यात्-- व्यतिलुनन्तीतरेतरस्येति। "परस्परोपपदाच्चेति वक्तव्यम्" इति। परस्परशब्द उपपदं यस्य तस्मात् प्रतिषेधो भवतीत्येतदर्थरूपं व्याख्येयमित्यर्थः। तत्रेदं व्याख्यानम्()- चकारोऽत्र क्रियते। स चानुक्तसमच्चयार्थः। तेन परस्परोपपदादपि प्रतिषेधो भविष्यतीति।
बाल-मनोरमा
इतरेतरान्योन्योपपदाच्च ५०७, १।३।१६

इतरेतर।"नात्मनेपद"मिति शेषः।

तत्त्व-बोधिनी
इतरेतरान्योन्योपपदाच्च ४३५, १।३।१६

इतरेतरा। नन्वितरेतरादिशब्दैरेव कर्मव्यतिहारस्य द्योतितत्वात्()तद्द्()योतकमात्मनेपदं न प्राप्नोतीतित किमर्थो निषेधः?। अत्राहुः लौकिके व्यवहारे लाघवाऽनादरादात्मनेपदं प्रसज्येतेति निषेधोऽयमारभ्यते। अत एव व्यतिलुनीते इत्यादौ कर्मव्यतिहारद्योतनाय "व्यती" त्युपसर्गावात्मनेपदं च समुञ्चित्य प्रयुज्यत इति।