पूर्वम्: १।३।१८
अनन्तरम्: १।३।२०
 
प्रथमावृत्तिः

सूत्रम्॥ विपराभ्यां जेः॥ १।३।१९

पदच्छेदः॥ विपराभ्याम् ५।१ जेः ५।१ आत्मनेपदम् १।१ १२

समासः॥

वि च परा च विपरौ, ताभ्यां ॰ इतरेतरद्वन्द्वः॥

अर्थः॥

वि, परा इत्येवं पूर्वात् जिधातोः आत्मनेपदं भवति॥

उदाहरणम्॥

विजयते, पराजयते।
काशिका-वृत्तिः
विपराभ्यां जेः १।३।१९

शेषात् कर्तरि परस्मैपदम् १।३।७८ इत्यस्य अपवादः। विपरा पूर्वाज् जयतेर् धातोरात्मनेपदं भवति। विजयते। पराजयते। विपराशब्दावुपसर्गौ गृह्येते साहचर्यत्। तेन इह न भवति, बहुवि जयति वनम्, परा जयति सेना इति।
लघु-सिद्धान्त-कौमुदी
विपराभ्यां जेः ७३८, १।३।१९

विजयते। पराजयते॥
न्यासः
विपराभ्यां जेः। , १।३।१९

"साहचर्यात्" इति। उपसर्गग्रहणए हेतुः "नेर्विशः" १।३।१७ इत्यत्र नेरुपसर्गस्य ग्रहणम्। अनन्तरसूत्रेऽपि १।३।१८ पर्यादीनामुपसर्गाणामेव ग्रहणम्। अतः प्रकरणसाहचर्यादद्विपराशब्दावुपसर्गौ गृह्रेतेत-- इत्येके। अपरे तु वर्णन्ति-- साहचर्य पत्र्यासत्त्युपलक्षणम्। येषां साहचर्यं तेषां नियोगतः प्रत्यासत्त्या भवितव्यमिति। अतः साहचर्यस्य प्रत्यासत्त्याऽविनाभावित्वात् तेन प्रत्यासत्तिर्लभ्यते। तदेतदुक्तं भवति-- प्रत्यासत्तेर्विपराशब्दावुपपसर्गौ गृह्रेते इति। प्रत्यासत्तिश्च जयतेर्विपराशब्दाभ्यामुपसर्गाभ्यामेव, नानुपसर्गाभ्याम्। तथा हि-- ताभ्यामेव जयत्यर्थो जयत्यर्थो विशिष्यते,नेतरभ्यामिति॥
बाल-मनोरमा
विपराभ्यां जेः ५१०, १।३।१९

विपराभ्यां जेः। वि परा आभ्यां परस्माज्जिधातोरात्मनेपदमित्यर्थः। विजयते इति। उत्कृष्टो भवतीत्यर्थः। पराजयते इति। निकृष्टो भवतीत्यर्थः।