पूर्वम्: १।३।१९
अनन्तरम्: १।३।२१
 
प्रथमावृत्तिः

सूत्रम्॥ आङो दोऽनास्यविहरणे॥ १।३।२०

पदच्छेदः॥ आङः ५।१ २१ दः ५।१ अनास्यविहरणे ७।१ आत्मनेपदम् १।१ १२

काशिका-वृत्तिः
अङो दो ऽनास्यविहरणे १।३।२०

अकर्त्रभिप्रायर्थो ऽयम् आरम्भः। आङ्पूर्वाद् ददातेरनास्यविहरणे वर्तमानादात्मनेपदं भवति। विध्यामादत्ते। अनास्यविहरणे इति किम्? आस्यं व्याददाति। आस्यविहरणसमानक्रियादपि प्रतिषेधो वक्तव्यः। विपादिकां व्याददाति। कुलं व्याददाति। स्वाङ्गकर्मकाच् च इति वक्तव्यम्। इह मा भूत्, व्याददते पिपीलिकाः पतङ्गस्य मुखम्।
न्यासः
आङो दोऽनास्यविहरणे। , १।३।२०

ददातेरेवास्यविहरणे वृत्तिः सम्भवति, नान्येषां दारूपाणां धतूनामिति। अतस्तत्प्रतिषेधेन तस्यैव ग्रहणं विज्ञायत इत्यत आह-- "आङपूर्वाद्दाञः" इति। "आदत्ते" इति। पूर्ववदाकारलोपः, "खरि च" ८।४।५४ इति चत्र्वम्। "आस्यविहरणसमानक्रियादपि प्रतिषेधो वक्तव्यः" इत्युपसंख्यानध्याजेनास्यविहरणविषयं दर्शयति। कथम्? विहरणग्रहणं न कत्र्तव्यम्, इह "आङो दोऽनास्ये" इत्येतद्वक्तव्यम्, तत्रास्ये दाञो वृत्तिर्न सम्भवतीति सामथ्र्यादास्यसमवायिन्यां क्रियायां वृत्तिर्विज्ञास्यते, तत्रैव प्रतिषेधः,तत् किं विहरणग्रहणेन? ननु च "आङो दोऽनास्ये" इत्येतावत्युच्यमाने, स्वं मुखमादत्ते देवदत्त इत्यत्रापि प्रतिषेधः स्यात्, नैष दोषः, वा ह्रास्यविषयैव क्रिया तस्यां वत्र्तमानो ददातिरास्यवृत्तिर्भवति, विहरणमेवास्यविषयम्, ग्रहणं त्वास्यविषयं ग्रहीतृविषयञ्च। तदेवं विहरणमन्तेरणापि सिद्धे यद्विहरणग्रहणं क्रियते तस्यैतत् प्रयोजनम्-- आस्यविहरणसमानक्रियादपि प्रतिषेधोऽयं यथा स्यादित्येवमित्येके। "इतरेतरान्योऽन्योपपदाच्च" १।३।१६ इत्यतश्चकारोऽनुवर्तते, स चानुक्तसमुच्चयार्थः। तेनास्यविहरणसानक्रियादपि प्रतिषेधो भवतीत्यपरे। "स्वाङ्गकर्मकाच्च" इति। वक्तव्यमिति शेषः। न चात्राद्रवमूर्तिमल्लक्षमं पारिभाषिकं स्वाङ्गं विवक्षितम्, किं तर्हि? स्वमङ्गं स्वाङ्गमिति। तत् कर्म यस्य स स्वाङ्गकर्मकः,तस्मात् स्वाङ्गकर्मात् प्रतिषेधो भवतीत्येतदर्थरूपं वक्तव्यमित्यर्थः। तेन परसम्बन्धिना मुखेन यदा सकर्मको भवति तदा भवत्येवात्मनेपदम्-- "व्याददते पिपीलिकाः पतङ्गस्य मुखम्" इति। वक्तव्यशब्दस्य व्याख्येयमित्यर्थः। तत्रेदं व्याख्यानम्-- कत्र्तरीति वत्र्तते, आस्यमिति च सम्बन्धिशब्दः, तत्रैवं विज्ञायते-- "यस्मिन् कत्र्तर्यैवात्मनेपदं भवति तस्य चेदास्यम्()" इति। "आङ" इति योगविभागः क्रियते-- आगमयस्व तावन्माणवकम्, आनुते शृगालः, आपृच्छते गुरूनित्येवमर्थः। तेन "आगमेः क्षमायाम्" (वा।३५) इति "आङि नुप्रसच्छयोः" (वा।४०) इति च नोपसंख्येयं भवति॥
बाल-मनोरमा
आङो दोऽनास्य विहरणे ५११, १।३।२०

आङो दो। आस्यविहरणं --मुखविकसनम्। दा इत्यस्य दः इति पञ्चमी। तदाह-- ददातेर्मुखविकसनादन्यत्रेति। विद्यामादत्ते इति। गृह्णातीत्यर्थः। दाञो ञित्त्वेऽप्यकत्र्रभिप्रायार्थमिदम्। अविवक्षितमिति। "अविहरणे" इत्येतावदेव विवक्षितमित्यर्थः। विपादिकां व्याददातीति। क्षारौषधादिना विदारयतीत्यर्थः। अत्र आस्यविहरणाऽभावेऽपि विकसनसत्त्वान्नात्मनेपदमिति भावः। नदी कूलं व्याददातीति। भिनत्तीत्यर्थः। अत्रापि विकसनसत्त्वादास्यविहरणाऽभावेऽपि नात्मनेपदम्। पराङ्गकर्मकान्न निषेध इति, - वार्तिकम्। पतङ्गस्येति। पक्षिणो मुखं भक्षणाय विकासयन्तीत्यर्थः।

तत्त्व-बोधिनी
आङो दोऽनास्यविहरणे ४३७, १।३।२०

आङो दो। अकत्र्रभिप्रयार्थमिदम्। तेन "व्यादत्ते विहगपतिर्मुखं स्वकीय"मिति प्रयोग आस्यविहरणेऽपि सिद्धः, क्रियाफलस्य कर्तृमित्वविवक्षणात्।