पूर्वम्: १।३।२०
अनन्तरम्: १।३।२२
 
प्रथमावृत्तिः

सूत्रम्॥ क्रीडोऽनुसम्परिभ्यश्च॥ १।३।२१

पदच्छेदः॥ क्रीडः ५।१ अनुसंपरिभ्यः ५।३ आङः ५।१ २० आत्मनेपदम् १।१ १२

काशिका-वृत्तिः
क्रीडो ऽनुसंपरिभ्यश् च १।३।२१

क्रीडृ विहारे, एतस्मादनु सम् परि इत्येवं पूर्वादाङ्पूर्वाच् चाऽत्मनेपदं भवति। अनुक्रीडते। सङ्क्रीडते। परिक्रीडते। आङः खल्वपि, आक्रीडते। समा साहचर्यादन्वादिरुपसर्गो गृह्यते, तेन इह कर्मप्रवचनीयप्रयोगे न भवति, माणवकमनु क्रीडति। समो ऽकूजने इति वक्तव्यम्। सङ्क्रीडन्ति शकटानि। आगमेः क्षमायाम् आत्मनेपदं वक्तव्यम्। क्षमा उपेक्षा, कालहरणम् इति यावत्। आगमयस्व तावन्माणवकम्। शिक्षेर्जिज्ञासायाम्। विद्यासु शिक्षते। आशिषि नाथः। सर्पिषो नाथते। मधुनो नाथते। आशिषि इति किम्? माणवकमनुनाथति। हरतेर्गतताच्छील्ये। पैतृकमश्वा अनुहरन्ते। मातृकं गावो ऽनुहरन्ते। गतताच्छील्ये इति किम्? मातुरनुहरति। किरतेर्हर्षजीविकाकुलायकरणेष्विति वक्तव्यम्। अपस्किरते वृषभो हृष्टः। जीविकायाम् अपस्किरते कुक्कुटो भक्षार्थी। कुलायकरणे अपस्किरते श्वा आश्रयार्थी। हर्षादिषु इति किम्? अपकिरति कुसुमम्। आङि नुप्रच्छ्योरुपसङ्ख्यानम्। आनुते सृगालः। आपृच्छते गुरुम्। शप उपलम्भन इति वक्तव्यम्। वाचा शरीरस्पर्शनम् उपलम्भनम्। देवदत्ताय शपते। यज्ञदत्ताय शपते। उपलम्भने इति किम्? शपति।
न्यासः
क्रीडोऽनुसंपरिभ्यश्च। , १।३।२१

"समा साहचर्यात्" इति। यद्यप्यन्वादिरुपसर्गत्वं व्यभिचरति, सम्शब्दस्तु न व्यभिचरति, अतस्तत्साहचर्यादन्वादिरुपसर्ग एव गृह्रते। "माणवकमनुक्रीडति" इति। माणवकेन सह क्रौडतीत्यर्थः। "तृतीयार्थे" १।४।८४ इत्यनुशब्दस्य कर्मप्रवचनीयसंज्ञा। "आगमेः" इति। आङपूर्वस्य गमेण्र्यन्तस्य ग्रहणम्। "क्षमा उपेक्षा कालहरण्" इति। कालप्रतिपादनं प्रतीक्षणमित्यर्थः। "आगमयस्व" इति। "जनीजृष्वनसुरञ्जौऽमन्ताश्च" (ग।सू।धा।पा। ८१७) इति मित्संज्ञायाम् "मितां ह्यस्वः" ६।४।९२ इति ह्यस्वत्वम्। लोण्मध्यमपुरुषैकवचनम्, "थासः से" ३।४।८० "सवाभ्यां वामौ" ३।४।९१ इति वादेशः। "शिक्षेः" इति। शकिः सन्नन्तो गृह्रते।"विद्यासु शिक्षते" इति। विद्यां जिज्ञासितुं घटत इत्यर्थः। शकेः सन्, "सनि मीमाघुरभलभ" ७।४।५४ इत्यादिनेस्भावः। "अत्र लोपोऽभ्यासस्य" ७।४।५८ इत्यभ्यासस्य लोपः। "स्कोः संयोगाद्योरन्ते च " ८।२।२९ इति सकारलोपः, शिक्ष इति स्थिते लट्। यस्तु "शिक्ष विद्योपादाने" (धा।पा।६०५) इति पठ()ते, ततोऽनदात्तेत्त्वादात्मनेपदं सिद्धमेव। "आशिषि नाथः" इति। गतेस्ताच्छील्यं गतिताच्छील्यम्। ताच्छील्यम् = तत्स्वभावता। "पैतृकम()आआ अनुहरन्ते, मातृकं गावोऽनुहरन्ते" इति। पितृवन्मातृवद्()गमनमेषां स्वभाव इत्यर्थः। "मातुरनुहरति, पितुरनुहरति" इति। मातुराकारं पितुराकारमनुकरोतीत्यर्थः। मातृसदृशः,पितृसदृशः इत्यर्थः। पैतृकमिति पितुरागतमिति "ऋतष्ठञ्" ४।३।७८, "इसुसुक्तान्तात् कः" ७।३।५१। मातुरनुहरतीत्यत्र गतिताच्छील्यं न विवक्षितम्। "किरतेः" इत्यादि। "कृ विक्षेपे" (धा।पा। १४०९) अस्य विक्षेप एवार्थः। हर्षादयस्तस्य विषयभूताः। अत्र हर्षो विक्षेपस्य कारणम्, जीविकाकुलायकरणञ्च तत्फलम्। एतेष्वेवार्थेषु किरतेरात्मनेपदं भवति। "अपस्किरते" इति। "अपाच्चतुष्पाच्छकुनिष्वालेखने" ६।१।१३७ सुट्। "आनुते" इति। "णु स्तुतौ" (धा।पा।१०३५), अदादिः। अयञ्चात्रोत्कण्ठापूर्वकशब्देन वर्तते। "आपृच्छते" इति। "प्रच्छ ज्ञीप्सायाम्" (धा।पा।१४१३) तौदादिकः, ग्रह्रादिना ६।१।१६ सम्प्रसारणम्। "वाचा शरीरस्पर्शनमुपलम्भनम्" इति। शपथविशेषः। तथा हि-- देवदत्तस्य शरीरं स्पृशामीति शपथं कुर्वाणो देवदत्ताय शपत इति प्रयुज्यते। "श्लाघह्नुङस्थाशपाम्"१।४।३४ इत्यादिना समप्रदानसंज्ञायाम्, देवदत्तायेति सम्प्रदाने चतुर्थी। शपतीत्याक्रोशतीत्यर्थः। "समोऽकूजने" (वा।३४) इत्यादिग्रन्थस्य शप उपलम्भनपर्यन्तस्य योऽर्थः स इह चकारेणानुक्तसमुच्चयार्थेनोपात्तः, तस्यैवार्थस्य चकारोपात्तस्य स्पष्टीकरणायास्य ग्रन्थस्योपन्यासः कृतः॥
बाल-मनोरमा
क्रीडोऽनुसंपरिभ्यश्च ५१२, १।३।२१

क्रीडोऽनु। चादाङ इति। तथा च अनु सम परि आङ् एभ्यः परस्मात् क्रीडधातोरात्मनेपदमित्यर्थः। "अनोः कर्मपर्वचनीयान्ने"ति वार्तिकम्। तदिदं न्यायसिद्धमित्याह-- उपसर्गेण समेति। "समोऽकूजने" इति वार्तिकम्। समः परस्मादकूजने विद्यमानात् क्रीडेरात्मनेपदमित्यर्थः। कूजने तु संक्रीडति चक्रमिति। कूजतीत्यर्थः। आगमेः क्षमायामिति। "आत्मनेपद"मिति शेषः। वर्तिकमिदम्। ण्यन्तस्येदं ग्रहणमिति। भाष्ये ण्यन्तस्यैवोदाहरणादिति भावः। आगमयस्व तावदिति। कंचित्कालं सहस्वेत्यर्थः। आङुपसर्गवशाद्गमधातुः क्षमायां वर्तते। "हन्त्यर्थाश्चे"ति चुरादिगणसूत्रेण स्वार्थे णिच्। चुरादेराकृतिगणत्वाद्वा। मा त्वरिष्ठा इति। फलितार्थकथनम्। "शिक्षेर्जिज्ञासाया"मितय्पि वार्तिकम्। धुनुषि शिक्षते इति। वैषयिके आधारे सप्मती। शकिः सन्नन्तः। "सनि मीमा" इति इस्। अभ्यासलोपश्च। तदाह-- धनुर्विषये इत्यादि। "सिक्ष विद्योपादाने" इत्यस्य तु नेह ग्रहणम्, अनुदात्तेत्त्वादेव सिद्धेरिति भावः। कथमिति। भूभृतां पतिं किमु न नाथसे = न याचसे इत्यर्थः। आशिषोऽप्रतीतेः कथमात्मनेपदमित्यर्थः। नाधसे इति पाठ()मिति। तवर्गचतुर्थान्तोऽयम्। "आशिषि नाथः" इति नियमस्तु तवर्गद्वितीयान्तस्यैवेति भावः। "हरतेर्गते"त्यादि वार्तिकम्। "आत्मनेपद"मिति शेषः। गतं प्रकार इति। वृत्तमित्यर्थः। ताच्छील्यं = स्वभावानुसरणम्। गतिताच्छील्यमिति यावत्। गतेति पाठे भावे क्तः। पैतृकम()आआ इति। पैतृकं वृत्त()आआः स्वभावादनुसरन्तीत्यर्थः। मातृकं गाव इति। "अनुहरन्ते" इत्यनुषज्यते। मातुरनुहरतीति। अनुकरोतीत्यर्थः। अत्र सादृश्यमात्रं विवक्षितं, न तु गतिताच्छील्यमिति भावः। किरतेरिति वार्तिकम्। हर्षः = प्रमोदः, जीविका जीवनोपायो, भक्षणम्, कुलायकरणम् = आश्रयसंम्पत्तिः, एषु कृ()धातोरात्मनेपदमित्यर्थः। ननु कधातोर्विक्षेपार्थकस्य कथमेषु वृत्तिरित्यत आह-- हर्षादयो विषया इति। धात्वर्थत्वाऽभावेऽपि पदान्तरसमभिव्याहारगम्या इत्यर्थः। तत्रेति। तेषु हर्षादिष्वित्यर्थः। कारणमिति। तथा च हर्षमूलकत्वं विक्षेपस्य लभ्यते इति भावः। इतरे इति। जीविकाकुलायकरणे विक्षेपस्य साध्ये इति लभ्यते। हर्षादीनामेवं विधविषयत्वे सत्येवात्मनेपदमिति फलितम्, भाष्ये तथैवोदाह्मतत्वादिति भावः।

तत्त्व-बोधिनी
क्रीडोऽनुसंपरिभ्यश्च ४३८, १।३।२१

*शिक्षेर्जिज्ञासायामिति। "शिक्ष विद्योपादाने" इत्यस्य नेह ग्रहणमनुदात्तेत्त्वादेवात्मनेपदसिद्धेः, किं तु शकेः सन्नन्तस्येति ध्वनयति-- धनुर्विषय इत्यादिना। नियमार्थमिति। नाथतेरनुदात्तेत्त्वं तु "अनुदात्तेतश्च हलादे"रिति युचि नाथन इति रूपसिद्ध्यर्थमिति भावः। मातुरनुहरतीति। सादृश्यमात्रमत्र विवक्षितं , न तु प्रकारताच्छील्यम्।