पूर्वम्: १।३।२४
अनन्तरम्: १।३।२६
 
प्रथमावृत्तिः

सूत्रम्॥ उपान्मन्त्रकरणे॥ १।३।२५

पदच्छेदः॥ उपात् ५।१ २६ मन्त्रकरणे ७।१ स्थः ५।१ २२ आत्मनेपदम् १।१ १२

काशिका-वृत्तिः
उपान् मन्त्रकरणे १।३।२५

उपपूर्वात् तिष्थतेर् मन्त्रकरणे ऽर्थे वर्तमानादात्मनेपदं भवति। ऐन्द्र्या गार्हपत्यम् उपतिष्ठते। आग्नेय्या आनीघ्रम् उपतिष्ठते। मन्त्रकरणे इति किम्? भर्तारम् उपतिष्ठति यौवनेन। उपाद् देवपूजासङ्गतकरणमित्रकरणपथिष्विति वाच्यम्। देवपूजायाम् आदित्यम् उपतिष्ठते। सङ्गतकरणे रथिकानुपतिष्ठते। मित्रकरणे महामात्रानुपतिष्ठते। मित्रकरणसङ्गतकरणयोः को विशेषः? सङ्गतकरणम् उपश्लेषः। तद्यथा, गङ्गा यमुनाम् उपतिष्थते। मित्रकरणं तु विनाप्युपश्लेषेण मैत्रीसम् भन्धः। पथि अयं पन्थाः स्त्रुघ्नम् उपतिष्ठते। वा लिप्सायामिति वक्तव्यम्। भिक्षुको ब्राह्मणकुलम् उपतिष्थते, उपतिष्ठति इति वा।
न्यासः
उपान्मन्त्रकरणे। , १।३।२५

"मन्त्रकरणे"इति। मन्त्रः करणं साधकतमं यस्य धात्वर्थस्य स तथोक्तः। "उपात्" इत्यादि। अत्र वक्तव्यशब्दस्य व्याख्येय इत्यर्थः। तत्रेदं व्याख्यानम्-- उत्तरसूत्रे चकारोऽनुवत्र्तते, स चानुक्तसमुच्चयार्थः, तेन उपपूर्वात्तिष्ठतेर्देवपूजादिष्वप्यात्मनेपदं भवति। "वा लिप्सायाम्" इति। लब्धुमिच्छा लिप्सा। लिप्सायां गम्यमानायामित्येषोऽर्थोवेदितव्यः,न तु तत्र वत्र्तमानात् तिष्ठतेरिति, न लिप्सा तिष्ठरेरर्थः। तथा हि-- "भिक्षुको ब्राआहृणकुलमुपतिष्ठते"इत्यत्र तिष्ठतिरुपसंक्रमणे वत्र्तते। लिप्सा तूपसंक्रमणस्य हेतुभूता गम्यते। लिप्सायां हेतुभूतानां ब्राआहृणकुलमुपसंक्रामतीत्यर्थः॥
बाल-मनोरमा
उपान्मन्त्रकरणे ५१७, १।३।२५

उपान्मन्त्रकरणे। मन्त्रकरणकेऽर्ते विद्यमानात्स्थाधातोरात्मनेपदमित्यर्थः। आग्नेय्या आग्नीध्रमुपतिष्ठते इति। आग्नेय्या ऋचा आग्नीध्राख्यमण्डपविशेषमुपेत्य तिष्ठतीत्यर्थः। स्थितेरकर्मकत्वेऽपि उपेत्येतदपेक्ष्य सकर्मकत्वम्। केचित्तु मन्त्रकरणके समीपावस्थितिपूर्वकस्तवे विद्यमानात्स्थाधातोरात्मनेपदमिति व्याचक्षते। तत्र स्तवो गुणवत्त्वेन संकीर्तनमिति स्तुतशस्त्रधिकरणे प्रपञ्चितमस्माभिः। श्लोकै राजानं स्तौतीत्यर्थे श्लोकैरुपतिष्ठते इत्यात्मनेपदं न, मन्त्रकरणकत्वाऽभावात्। उपाद्देवपूजा-- इति वार्तिकम्। अमन्त्रकरणकत्वार्तम्। आदित्यनुपतिष्ठते इति। अभिमुखीभूयाऽवस्थितिपूर्वकस्तुत्यादिभिः पूजयतीत्यर्थः। कथं तर्हीति। रघोर्देवतात्वाभावादिति भावः। समाधत्ते-- देवतात्वारोपादिति। नृपस्येति। "नाऽविष्णुः पृथिवीपति"रित्यादिस्मरणादिति भावः। वा लिप्सायामिति। लिप्साहेतुकाऽर्थवृत्तेः स्थाधातोरात्मनेपदं वेत्यर्थः।

तत्त्व-बोधिनी
उपान्मन्त्रकरणे ४४२, १।३।२५

उपान्मन्त्रकरणे। मन्त्रः करणं यत्र मन्त्रकरणं--स्तुतिः, तत्र वर्तमानादुपपूर्वात्तिष्ठतेरात्मनेपदं स्यात्। आग्नेय्येति। अग्निदेवताकया ऋचा आग्नीध्रम् = अग्निविशेषं स्तौतीत्यर्थः। अत्रकेचित्-- "श्लोकै राजानं स्तौतीत्यर्थे स्लौकैरुपतिष्ठत इति प्रयोगो नेष्यते। ऐन्द्य्रा गार्हपत्यमुपतिष्ठते, आग्नेय्या आग्नीध्रमिति वैदिकविषय एव सर्वैरुदाह्मतत्वात्। तथा च तिष्ठतेरर्थे यदा मन्त्रः करणं तदा तङिति व्याख्येयम्। उपतिष्ठत इत्यस्य तु समीपवस्थानमेवार्थः। न च तत्र यष्टायदिवन्मत्रस्य करणत्वं न संभवतीति वाच्यम्, उपस्थानस्वरूपे तस्योपयोगाऽभावेऽपि तत्कार्ये स्तुतावुपयोगादुपस्थानकरणत्वं मन्त्रस्य न विहन्यते। "आग्नीध्र"मिति द्वितीया तु करमत्वान्यथानुपपत्तिलभ्येन स्तोतुमित्यनेनान्वेति। एवं चाऽ‌ऽग्नेय्या आग्नीध्रं स्तोतु तत्समीपे तिष्ठतीत्येव वाक्यार्थः। आदित्यमुपतिष्ठते इत्यत्र तु तत्समीपावस्थानस्याऽसंभवदादित्यं स्तोतुं तदभिमुखतया तिष्ठतीत्यर्थः इत्याहुः। गङ्गा यमुनामिति। एतेन यमुनैव प्राचीना, गङ्गा तु पश्चाद्यमुनया सह मिलितेति प्रतीयते।