प्रथमावृत्तिः
सूत्रम्॥
अधेः प्रसहने॥ १।३।३३
पदच्छेदः॥
अधेः ५।१ प्रसहने ७।१ कृञः ५।१ ३२ आत्मनेपदम् १।१ १२
काशिका-वृत्तिः
अधेः प्रसहने १।३।३३
अकर्त्रभिप्रायार्थो ऽयमारम्भः। अधिपूर्वात् करोतेः प्रसहने वर्तमानातात्मनेपदं भवति। प्रसहनम् अभिभवः अपराजयो वा। तम् अधिचक्रे। तम् अभिवभूव, न तेन प्राजितः इत्यर्थः। प्रसहने इति किम्? अर्थम् अधिकरोति। पृथग्योगकरणम् उपसर्गविशेषणार्थम्।
न्यासः
अधेः प्रहसने। , १।३।३३
"तमधितक्रे" इति। कृञो लिट्, तस्य चैशादेशः। "द्विर्वचनेऽचि
१।१।५८ इति स्थानिवद्भावाद्()द्विर्वचनम्, "उरत"
७।४।६६ इत्यत्त्वम्, रपरत्वञ्च, "हलादिः शेषः"
७।४।६० "कुहोश्चुः"
७।४।६२ इति चुत्वम्॥
बाल-मनोरमा
अधेः प्रसहने ५२९, १।३।३३
अधेः प्रसहने। अधेः परस्मात् कृञः प्रसहनवृत्तेरात्मनेपदमित्यर्थः।