पूर्वम्: १।३।३
अनन्तरम्: १।३।५
 
प्रथमावृत्तिः

सूत्रम्॥ न विभक्तौ तुस्माः॥ १।३।४

पदच्छेदः॥ विभक्तौ ७।१ तुस्माः १।३ हल् १।१ अन्त्यम् १।१ उपदेशे ७।१ इत् १।१

समासः॥

तुश्च सश्च मश्च तुस्माः, इतरेतरद्वन्द्वः।

अर्थः॥

विभक्तौ वर्तमानानां तवर्ग-सकार-मकाराणाम् इत्संज्ञा न भवति। पूर्वेण अन्त्यं हल् इत्संज्ञकं प्राप्तम्, अनेन प्रतिषिध्यते॥

उदाहरणम्॥

रामात् वृक्षात् इति तकारस्य। सकारः -- जस्, शस्, भिस्, ङस्, ओस्। मकारः -- अम्, आम्॥
काशिका-वृत्तिः
न विभक्तौ तुस्माः १।३।४

पूर्वेण प्राप्तायमित्संज्ञायां विभाक्तौ वर्तमानानां तवर्गसकारमकरणां प्रतिषेध उच्यते। तवर्गः, टाङसिङसाम् इनाऽत्स्याः ७।१।१२ वृक्षात्, प्लक्षात्। सकारः, जस् ब्राह्मणाः। तस् पचतः। थस् पचथः। मकारः उपचत्ताम्, अपचतम्। बिभक्तौ इति किम्? अचो यत् ३।१।९७, ऊर्णाया युस् ५।२।१२२, रुधादिभ्यः श्नम् ३।१।७८। किमो ऽत् ५।३।१२, इटो ऽत् ३।४।१०६ इत्यत्र प्रतिषेधो न भ्वति , अनित्यत्वाऽदस्य प्रतिषेधस्य। इदमस् थमुः ५।३।२४ इत्युकारानुबन्धनिर्देशादनित्यत्वम् उपलक्ष्यते।
लघु-सिद्धान्त-कौमुदी
न विभक्तौ तुस्माः १३१, १।३।४

विभक्तिस्थास्तवर्गसमा नेतः। इति सस्य नेत्त्वम्। रामाः॥
न्यासः
न विभक्तौ तुस्माः। , १।३।४

"वृक्षात्" इत्यत्र तकारस्येत्संज्ञायां सत्याम् "तित्स्वसितम्" (६।१।१७९ इति स्वरितत्वं स्यात्।"अपचतात्, अपचतम्" इति। पचेर्लङ्, "तस्तथस्थमिपां तान्तन्तामः" ३।४।१०१ इति तान्तमादेशौ भवतः। "किमोऽत्" ५।३।१२ इत्यत्राच्छब्दस्य "प्राग् दिशो विभक्तिः" ५।३।१ इत्यस्य मकारस्येत्संज्ञापरित्राणार्थादुकारानुबन्धाद्विज्ञायते। नित्यत्वे हि सत्येतस्मादेव प्रतिषेधान्मकारस्येत्संज्ञा न भविष्यतीत्युकारानुबन्धग्रहणमनर्थकं स्यात्।
बाल-मनोरमा
न विभक्तौ तुस्माः १८९, १।३।४

अथ जसः सकारस्य "हलन्त्यम्"मितीत्संज्ञायां लोपमाशङ्क्याह--न विभक्तौ। तु स् म एतेषां द्वन्द्वः। "इत" इत्यनुवृत्तं बहुवचनान्ततया विपरिणम्यते। तदाह--विभक्तिस्था इत्यादिना।

तत्त्व-बोधिनी
न विभक्तौ तुस्माः १५८, १।३।४

न विभक्तौ। "हलन्त्य"मितीत्संज्ञाप्राप्तौ निषेधारम्भः। "तु" इत्यस्योदाहरणं रामात्, पचेरन्। मकारस्य तु--रामम्, अद्राक्षम्। विभक्तौ किम्?। "अचो यत्" ऊर्णायां युस्", "रुधादिभ्यः श्नम्"। एतेष्वन्त्यस्येत्संज्ञा यथा स्यात्। "इदमस्थमु"रित्यत्र मकारपरित्राणार्थमुकारानुबन्धासञ्जनादनित्योऽयमिति ज्ञायते। अन्यथा "प्राग्दिशो विभक्ति"-रिति थमो विभक्तित्वाद्दानीमो मकारस्येवानेनैव सूत्रेणेत्त्वनिषेधसिद्धेः किं तेनेति। तेन "किमोऽत्" क्वेति सिद्धम्।