पूर्वम्: १।३।३९
अनन्तरम्: १।३।४१
 
प्रथमावृत्तिः

सूत्रम्॥ आङ उद्गमने॥ १।३।४०

पदच्छेदः॥ आङः ५।१ उद्गमने ७।१ क्रमः ५।१ ३८ आत्मनेपदम् १।१ १२

काशिका-वृत्तिः
आङ उद्गमने १।३।४०

आङ्पूर्वात् क्रमतेरुद्गमने वर्तमानादात्मनेपदं भवति। आक्रमते आदित्यः। आक्रमते चन्द्रमाः। आक्रमन्ते ज्योतींषि। उद्गनमे इति किम्? आक्रामति माणवकः कुतुपम्। ज्योतिरुद्गमने इति वक्तव्यम्। इह मा भूत्, आक्रमति धूमो हर्म्यतलात्।
न्यासः
आङ उद्गमने। , १।३।४०

"आक्रामति माणवकः कुतपम्" इति।अवष्टभ्नातीत्यर्थः। "ज्योतिरुद्गमन इति वक्तव्यम्" इति। ज्योतिषां ग्रहनक्षत्रादीनामुद्गमन एवात्मनेपदं भवतीत्येतदर्थरूपं व्याख्येयमित्यर्थः। तत्रेदं व्याख्यानम्-- "अनुपसर्गाद्वा" १।३।४३ इत्यतो वाग्रहणमनुवत्र्तते सिंहावलोकितन्यायेन, सा च व्यवस्थितविभाषा; तेन ज्योतिरुद्गमन् एव भविष्यति, नान्यत्रेति। यदि तर्हि "वा" ग्रहणमनुवत्र्तते, उभयोरपि योगयोरनुवत्र्तेत? मण्डूकप्लुतिन्यायेन नानुवर्तिष्यत इत्यदोषः।