पूर्वम्: १।३।४०
अनन्तरम्: १।३।४२
 
प्रथमावृत्तिः

सूत्रम्॥ वेः पादविहरणे॥ १।३।४१

पदच्छेदः॥ वेः ५।१ पादविहरणे ७।१ क्रमः ५।१ ३८ आत्मनेपदम् १।१ १२

काशिका-वृत्तिः
वेः पादविहरणे १।३।४१

विपूर्वात् क्रमतेः पदविहरणे ऽर्थे वर्तमानादात्मनेपदं भवति। विहरणं विक्षेपः। सुष्ठु विक्रमते। साधु विक्रमते। अश्वादीनां गतिविशेषो विक्रमणम् उच्यते। यद्यपि क्रमिः पादविहरण एव पठ्यते, क्रमु पादविक्षेपे इति, तथाऽप्यनेकार्थत्वाद् धातूनाम् एवम् उक्तम्। पादविहरणे इति किम्? विक्रामत्यजिनसन्धिः।
न्यासः
वेः पादविहरणे। , १।३।४१

"विक्रामत्यजिनसन्धिः" इति। द्विधा भवति। स्फुटतीत्यर्थः॥
बाल-मनोरमा
वेः पादविहरणे ५३७, १।३।४१

पादविहरणं = पादविक्षेपः। तद्वृतेर्विपूर्वात् क्रमेरात्मनेपदमित्यर्थः। साधु विक्रमते वाजीति। सम्यक्पदानि विक्षिपतीत्यर्थः।

तत्त्व-बोधिनी
वेः पादविहरणे ४५३, १।३।४१

वेः पाद। यद्यपि क्रमेः पादविक्षेप एवार्थस्तथापि धातूनामनेकार्थत्वादेवमुक्तम्।