पूर्वम्: १।३।४७
अनन्तरम्: १।३।४९
 
प्रथमावृत्तिः

सूत्रम्॥ व्यक्तवाचां समुच्चारणे॥ १।३।४८

पदच्छेदः॥ व्यक्तवाचाम् ६।३ ५० समुच्चारणे ७।१ ५० वदः ५।१ ४७ आत्मनेपदम् १।१ १२

काशिका-वृत्तिः
व्यक्तवाचां समुच्चारणे १।३।४८

वदः इति वर्तते। व्यक्तवाचां समुच्चारणं सहोच्चारणम्। तत्र वर्तमानाद् वदतेरात्मनेपदं भवति। ननु वद व्यक्तायां वाचि इत्येव पठ्यते, तत्र किं व्यक्तवाचाम् इति विशेषणेन? प्रसिद्ध्युपसंग्रहार्थम् एतत्। व्यक्तवाचः इति हि मनुष्याः प्रसिद्धाः। तेषां समुच्चारणे यथा स्यात्। संप्रवदन्ते ब्राह्मणाः। संप्रवदन्ते क्षत्रियाः। व्यक्तवाचाम् इति किम्? संप्रवदन्ति कुक्कुटाः। समुच्चारणे इति किम्? ब्राह्मणो वदति। क्षत्रियो वदति।
न्यासः
व्यक्तवाचां समुच्चारणे। , १।३।४८

"प्रसिद्ध्युपसंग्रहार्थम्" इति। यदि तदर्थं व्यक्तवाचामिति नोच्येत,"वरतनु सम्प्रवदन्ति कुक्कुडा {अयि विजहीहि दृढोपगूहनं त्यज नवसङ्गमभीरु वल्लभम्। अरुणकरोद्गम एष वत्र्तते वरतनु सम्प्रवदन्ति कुक्कुटाः।इत्येवं सयग्रः श्लोकः।}। कुक्कुटाः अपि व्यक्तवाच एव। तथा हि -- कुक्कुटेनापि लपिते विशेषपरिच्छेदादुच्यते- कुक्कुटा लपन्तीति। वरतन्विति तनूशब्दस्य "अम्बार्थनद्योह्र्यस्वः" ७।३।१०७ इति ह्यस्वः। ह्यस्वकवचनसामथ्र्यात् "ह्यस्वस्य गुणः" ७।३।१०८ इति गुणो न भवति। नृणामिति न कृतं वैचित्र्यार्थम्॥
बाल-मनोरमा
व्यक्तवाचां समुच्चारणे ५४५, १।३।४८

व्यक्तवाचाम्। व्यक्ताः = अज्झल्भेदेन स्पष्टोच्चारिताः वाचः = शब्दा येषामिति विग्रहः। समित्येकीबावे। तदाह-- मनुष्यादीनामिति। संप्रवदन्ते ब्राआहृणा इति। संप्रवदन्ते ब्राआहृणा इति। संभूयोच्चारयन्तीत्यर्थः।