पूर्वम्: १।३।४८
अनन्तरम्: १।३।५०
 
प्रथमावृत्तिः

सूत्रम्॥ अनोरकर्मकात्॥ १।३।४९

पदच्छेदः॥ अनोः ५।१ अकर्मकात् ५।१ व्यक्तवाचाम् ६।३ ४८ समुच्चारणे ७।१ ४८ वदः ५।१ ४७ आत्मनेपदम् १।१ १२

काशिका-वृत्तिः
अनोरकर्मकात् १।३।४९

वदः इति, व्यक्तवाचाम् इति च वर्तते। अनुपूर्वाद् वदतेरकर्मकाद् व्यक्तवाग्विषयादात्मनेपदं भवति। अनुवदते कठः कलापस्य। अनुवदते मौद्गः पैप्पलादस्य। अनुः सादृश्ये। यथा कलापो ऽधीयानो वदति तथा कठः इत्यर्थः। अकर्मकातिति किम्? पूर्वम् एव यजुरुदितम् अनुवदति। व्यक्तवाचम् इत्येव। अनुवदति वीणा।
न्यासः
अनोरकर्मकात्। , १।३।४९

"अनुवदति" इति। अनुशब्दः पुनरित्यस्यार्थे वत्र्तते। पुनर्वदतीत्यर्थः। यजुषात्र कर्मणा सकर्मकत्वम्।
बाल-मनोरमा
अनोरकर्मकात् ५४६, १।३।४९

अनोरकर्मकात्। "व्यक्तावाचा"मित्यनुवृत्तं विषयषष्ठ()न्तमाश्रीयते। समुच्चारणे इति निवृत्तम्। तदाह-- व्यक्तवाग्विषयादिति। मनुष्यकर्तृकादित्यर्थः। अनुवदते इति। अनुः सादृश्ये। "तुल्यार्थैरतुलोपमाभ्या"मिति षष्ठी। कठः कलापेन तुल्यं वदतीत्यर्थः। वस्तुतस्तु शेषषष्ठीत्येवोचितम्। "तुल्यार्थै"रित्यत्र "अतुलोपमाभ्या"मिति पर्युदासेनाऽनव्ययानामेव तुल्यार्थानां ग्रहणात्। अन्यथा "च्नद्र इव मुख"मित्यादावपि तृतीयाषष्ठ()ओरापत्तेरित्यलम्।

तत्त्व-बोधिनी
अनोरकर्मकात् ४५८, १।३।४९

अनुवदते कठ इति। अनुः सादृश्ये। तेन कलापस्येति तुल्यार्थयोगे शेषलक्षणा षष्ठी।