पूर्वम्: १।३।४
अनन्तरम्: १।३।६
 
प्रथमावृत्तिः

सूत्रम्॥ आदिर्ञिटुडवः॥ १।३।५

पदच्छेदः॥ आदिः १।१ ञि-टु-डवः १।३ उपदेशे ७।१ इत् १।१

अर्थः॥

उपदेशे आदौ वर्त्तमानानां ञि, टु, डु इत्येतेषाम् इत्संज्ञा भवति

उदाहरणम्॥

ञिमिदा=मिन्नः। ञिधृषा=धृष्टः। ञिक्ष्विदा=क्ष्विण्णः। ञि‌इन्धी=इन्धः। टुदेपृ=वेपथुश्च शरीरे मे रोमहर्षश्च जायते। टु‌ओश्वि=श्वयथुः। डुपचष्=पक्त्रिमम्। डुवप्=‌उप्त्रिमम्। डुकृञ्=कृत्रिमम्।
काशिका-वृत्तिः
आदिर् ञिटुडवः १।३।५

इतिति वर्तते। आदिशब्दः प्रतेकम् अभिसम्बध्यते। ञिटुडु इत्येतेषां समुदयानाम् आदितो वर्तमानानाम् इत्य् संज्ञा भवति। ञि, ञिमिदा मिन्नः। ञिधृषा धृष्टः। ञिक्ष्विदा क्ष्विण्णः। ञीन्धी इद्धः। टु, टुवेपृ वेपथुः। टुओश्वि श्वयथौः। डु, डुपचष् पक्त्रिमम्। डुवप् उप्त्रिमम्। डुकृञ् कृत्रिमम्। आदिः इति किम्? प्टूयति। क्ण्डूयति। उपदेषे इत्येव ञिकारीयति।
लघु-सिद्धान्त-कौमुदी
आदिर्ञिटुडवः ४६४, १।३।५

उपदेशे धातोराद्या एते इतः स्युः॥
न्यासः
आदिर्ञिटुडवः। , १।३।५

अत्र टुग्रहणेन "अणुदित्सवर्णस्य चाप्रत्ययः" (१।१।६९) इति टवर्गस्य ग्रहणं कस्मान्न भवति? उकार्सयानुनासिकत्वाप्रतिज्ञानात्, "चुटू" १।३।७ इत्यत्र टुग्रहणाच्च। यद्यत्र टवर्गस्य ग्रहणं स्यात्, तदानेनैव प्रत्ययादेरपि सिद्धत्वात् टुग्रहणमनर्थकं स्यात्। "मिन्नः" इति। "ञीतः क्तः" ३।२।१८७ , "आदितश्च" ७।२।१६ इतीट्प्रतिषेधः। "वेपथुः"इति। "ट्वितोऽथुच"३।३।८९। "पक्त्रिमम्" इति। "ड्()वितः क्त्रिः" ३।३।८८। पाकेन निवृत्तम्, "क्त्रेर्मम् नित्यम्" ४।४।२० इति मप्। "उप्त्रिमम्" इति। वच्यादिसूत्रेण ६।१।१५ सम्प्रासारणम्। "पटूयति" इति। "सुप आत्मनः क्यच्" ३।१।८, "अकृत्सार्वधातुकयोः" ७।४।२५ इति दीर्घः। "कण्डूयति" इति। "कण्()ड्वादिभ्यो यक्" ३।१।२७। कथं पुनरत्रेत्संज्ञाप्राप्तिः, यावता सूत्रे टुडुशब्दौ ह्यस्वान्तावुपात्तौ,दीर्घान्ताविमौ? नेतत्; यद्यपि दीर्घत्वे कृते दीर्घान्तावेतौ भवतस्तथाप्युदेशे ह्यस्वान्तावेव,"उपदेशे" (१।३।२।) इति चेहानुवर्तते। तत्र पटुशब्दस्य पृथ्वादिपाठात् टुशब्दस्योपदेशे ह्यस्वान्तता सिद्धा। कण्डूशब्दस्य "कण्डवादिभ्यो यक्" ३।१।२७ इत्यत्र पाठात् डुशब्दस्यापि। द्विविधा हि कण्ड्वादयः-- धातवः, प्रातिपदिकानि च। तत्र धातुः कण्डुशब्दो ह्यस्वान्तः। प्रातिपदिकं तु कण्डुशब्दो दीर्घान्तः। अथ वा-- यद्यप्युपदेश इति नानुवर्तते, तथापि दीर्घत्वे कृतेप्येकदेशविकृतस्यानन्यत्वादस्त्येव प्राप्तिः। "ञिकारीयति" इति। पूर्ववत् क्यच्। ञिकारशब्दो न क्वचित् पठ()त इति तेनात्रेत्संज्ञा न भवति। यदि स्यात्, लोपे कृते रूपं न सिद्ध्येत्॥
बाल-मनोरमा
आदिर्ञिटुडवः १३३, १।३।५

आदिः। "भूवादयो धातवः" इत्यस्माद्धात्व इत्यनुवृत्तं षष्ठ()आ विपरिणम्यते। "उपदेशेऽजनुनासिकः" इत्यस्मादुपदेशे इति, इदिति चानुवर्तते। आदिरिति इदिति च बहुत्वे एकवचनं। तदाह--उपदेश इति। ट्विकरणं "द्वितीऽथु"जित्येतदर्थम्। नन्दतीति। इदित्त्वान्नुम्। इदित्त्वादिति। आशीर्लिङि यासुटः कित्त्वेऽपि इदित्त्वादनिदितामिति नलोपो नेत्यर्थः। नन्द्यादिति।अन्त्यात्, अन्द्यादित्यस्याप्युपलक्षणं। चदीति। इदित्त्वान्नुमित्याह--चन्दतीति। त्रदीति। अदुपधोऽयम्। इदित्त्वान्नुमित्याह-- त्रन्दतीति।क्रदि क्लदीति। अदुपधौ। क्लिदि परिदेवने इति। अनुदात्तेत्सुपठितस्येह पाठः परस्मैपदार्थः। शुन्ध शुद्धाविति। अकर्मकोऽयम्। शुन्धतीति। शुचिर्भवतीत्यर्थः। ननु शुधीत्येवमिदिदेवाऽयं कुतो न पठित इत्यत आह--नलोप इति। आशीर्लिङि "अनिदिता"मिति नलोपे शुध्यादिति रूपमिष्टम्। इदित्त्वे तु नलोपो न स्यादिति भावः। "अथ कवर्गीयान्ता" इत्यादि "लोकृ" इत्यन्तं स्पष्टम्। श्लोकृ इति। सङ्घातशब्दं व्याचष्टे-- ग्रन्थ इति। ननु वाक्यसमुदायात्मकस्य ग्रन्थस्य अक्रियात्वात् कथं धात्वर्थत्वमित्याशङ्क्याह-- स चेहेति। ग्रन्थनं ग्रन्थः-- सङ्घीभावःष सङ्घीकरणं वा। तत्र सङ्घीभवनं सङ्घनिष्ठम्। सङ्घीकरणं तु सङ्घीकर्तृनिष्ठम्। तत्र सङ्घीभवनार्थकत्वेऽकर्मकः। सङ्घीकरणार्थत्वे सकर्मकः इत्यर्थः। श्लोकत इति। सङ्घीभवतीत्यर्थः। सङ्घीकरोततीति वा। द्रेकृ ध्रेकृ इति। शब्दनं शब्दः। [एच इगिति ह्यस्व इति। लिट एशि द्वित्वे "हलादिः शेषे"देद्रेक् ए इति स्थिते अभ्यासे एकारस्य ह्यस्वो भवन् "एच इग्घ्रस्वादेशे" इति इकारो भवतीत्यर्थः]। दिध्रेके इति। अभ्यासे धकारस्य जश्त्वेन दकारः। एकारस्य तु ह्यस्व इकारः। रेकृ इति। शङ्का-- संशयः, आक्षेपो वा। शीकृ सेचने इत्यारभ्य एतत्पर्यन्ता ऋदितः। सेकृ इति। आद्यौ एकारमध्यौ ऋदितौ। इतरे त्रयोऽदुपधा इदितः। त्रय इति। पञ्चसु आद्यास्त्रय इत्यर्थः। अषोपदेशत्वादिति। सेकृधातोः पर्युदासान्न षत्वमिति भावः। "एच इग्घ्रस्वादेशे" इत्यभिप्रेत्याह-- सादित्वाऽभावान्न षोपदेशत्वं। ततश्च सकारस्यादेशसकारत्वाऽभावान्न षत्वमिति भावः। "एच इग्घ्रस्वादेशे" इत्यभिप्रेत्याह---सिसेक इत्यादि। "सरुआङ्के" इत्यादावदित्त्वान्नुम्। शकीति। इदित्त्वान्नुमित्याह---शङ्कते। शशङ्क इति। अकीति। लक्षणं--चिह्नीकरणम्। अङ्क इति। इदित्त्वान्नुम्। आनङ्क इति। "तस्मान्नुड् द्विहलः"इति नुट्।वकि कौटिल्ये इत्यादि स्पष्टम्। कुक वृकेति। द्वितीय ऋदुपधः। शपि लगूपधगुणं मत्वा आह-- कोकत इति। चुकुक इति। "असंयोगा"दिति कित्त्वान्न लघूपधगुणः। अभ्यासे चुत्वं। लघूपधगुणे रपरत्वं मत्वाह-- वर्कत इति। लिटि "असंयोगा"दिति कित्त्वान्न गुण इति मत्वाह-- ववृके इति। उरदत्वं, हलादिः शेषः। ननु कित्त्वात्परत्वाद्गुणः तृप्तावकर्मकः। प्रतिघाते सकर्मकः। एत्वाभ्यासलोपौ मत्वाह--चेक इति। ककीति। एते पञ्चदश धातवः। आद्याश्चत्वार इदितः। द्वितीयो वकारादिः। तृतीयस्तालव्यादिः। पञ्चमषष्ठौ दशमाद्याश्चत्वारश्च ऋदितः। दशमद्वादशौ इदुपधौ। रघिलघी इदितौ चतुर्थान्तौ। "कङ्कते" इत्यादाविदित्वान्नुम्। डुढौके तुत्रौक इति। अभ्यासे ढस्य जश्त्वेन डकारः, ओकारस्य ह्यस्व उकारः। अथ ष्वष्कधातोः षोपदेशपरिगणनाद्धात्वादेरिति सत्वे प्राप्ते आह--सुब्धात्विति। षष्वष्क इति। संयुक्तहल्मध्यस्थत्वादेत्त्वाभ्यासलोपौ न, संयोगात्परत्वेन लिटः कित्त्वाऽभावाच्च। तृतीय इति। तथा च "स्वष्कते" इति रूपं। केवलदन्त्यपरकसादित्वाऽभावेन षोपदेशत्वाऽभावः। टेकते इति। लघूपधगुणः। टीकत इति। दीर्घोपधत्वान्न गुणः। एवं तेकते तीकत इति। रङ्घते लङ्घते। इदित्त्वान्नुम्। लघि भोजननिवृत्तावपीति। निवृत्तिः- विमुखीभवनम्। लङ्घते। न भुङ्क्त इत्यर्थः। अघीति। त्रयोऽपि चतुर्थान्ता इदितः। आनङ्घ इति। "तस्मान्नुड् द्विहलः" इति नुट्। वङ्घत इति। इदित्त्वान्नुम्। लिटि तु ववङ्घे इति रूपम्। वादित्वात्संयुक्तहल्मद्यस्थत्वात्संयोगात्परत्वेन लिटः कित्त्वाऽभावाच्च एत्त्वाभ्यासलोपौ न। मघि कैतवे चेति। कैतवं वञ्चना। राघृ इचि त्रयोऽपि ऋदितः। सामथ्र्यं--कार्यक्षमीभवनम्। ध्राघृ इत्यपीति। चतुर्थादिमपि केचित् पठन्तीत्यर्थः। द्राघृ इति।आयामः-- दीर्घीभवनम्। श्लाघृ कत्थन इति। कत्थनं-स्तुतिः। शीकृ इत्यादयो द्विचत्वारिंशदात्मनेपदिनो गताः। फक्क नीचैरित्यादि स्पष्टं। प्रनिकखतीति। "शेषे विभाषे"त्यत्र अकखादाविति पर्युदासान्नेर्णत्वं नेति भावः। ओखृ इति। अलमर्थः- भूषणक्रिया, पर्याप्तिः, वारणं वा। ओखति। ओखांचकार।शाखृ श्लाखृ इति। श्लाघृ इति चतुर्थान्त आत्मनेपदेषु गतः। उख उखीति। पञ्चदशेति। "ईखि इत्यन्ता" इति शेषः। त्रयोदशेति। "वल्गादय" इति शेषः। तत्र इदित्त्वान्नुम्। आशीर्लिङि नलोपाऽभावश्च। पठन्तीति। तेषां मते खान्ता एकोनविंशतिरिति बोध्यम्। ओखतीति। शपि लघूपधगुणः।

तत्त्व-बोधिनी
आदिर्ञिटुडवः १०७, १।३।५

"उपदेशेऽजनुनासिक" इत्यतोऽनवर्तनादाह--उपदेशे इति। उपदेशे किम्। ञिकारीयति। ञिष्वप्। "ञीतः क्तः"॥। सुप्तः। "ट्वितोऽथुच्"। नन्दथुः। "ड्वितः क्रिः"। कृत्रिमम्। क्लिदि परिवेदने। अनुदात्तेत्सु पठितस्येह पाठः परस्मैपदार्थः। क्रियाफलस्य कर्तृगामित्वेऽपि परस्मैपदार्थं स्वरितेत्स्वयं न पठितः। शुन्ध शुद्धौ। अयं शौचकर्मणि युजादौ। माङ्गलिक एधतिरुक्तस्तवर्गीयान्तस्तदनुरोधेन कतिचित्तवर्गीयान्ताः पठिताः। इदानीं लोकप्रसिद्धकादिपाठक्रमेणाह--अथेत्यादि। चुकुके इति। परमपि गुणं बाधित्वा नित्यत्वात् "असंयोगा"दिति कित्त्वम्।

सुब्धातुष्ठिवुष्वष्कतीनां सत्वप्रतिषेधो वक्तव्यः। सुब्धात्वित्यादि। सुब्दातोरुदाहरणानि--षट् दन्ता अस्य षोडन्। तमाचष्टे। णिचि टिलोपः। षोडयति। एवं षण्()डं करोत्याचष्टे वा षण्डयति। षण्डीयतीत्यत्र तु षण्डशब्दात्क्यचि ईत्वं बोध्यम्। एतच्च वार्तिकं भाष्ये प्रत्याख्यातम्। तथाहि "धात्वादे"रिति उपदेश इति वर्तते। न च सुब्धातूनामुपदेशोऽस्ति। ष्ठिवुष्वष्कती तु यकारादी। "लोपो व्यो"रिति यलोपः। प्रनिकखतीति। "शेषे विभाषे"त्यत्र अकखादाविति पर्युदासान्नेर्णत्वं नेति भावः।