पूर्वम्: १।३।५१
अनन्तरम्: १।३।५३
 
प्रथमावृत्तिः

सूत्रम्॥ समः प्रतिज्ञाने॥ १।३।५२

पदच्छेदः॥ समः ५।१ प्रतिज्ञाने ७।१ ग्रः ५।१ ५१ आत्मनेपदम् १।१ १२

काशिका-वृत्तिः
समः प्रतिज्ञाने १।३।५२

ग्रः इति वर्तते। संपूर्वात् गिरतेः प्रतिज्ञाने वर्तमानादात्मनेपदं भवति। प्रतिज्ञानम् अभ्युपगमः। शतं संगिरते। निर्यं शब्दं संगिरते। प्रतिज्ञाने इति किम्? सङ्गिरति ग्रासम्।
न्यासः
समः प्रतिज्ञाने। , १।३।५२

बाल-मनोरमा
समः प्रतिज्ञाने ५४९, १।३।५२

समः प्रतिज्ञाने। गिरतेरात्मनेपदमित्यर्थः। प्रतिज्ञानम् - अभ्युपगमः। सङ्गिरति ग्रासमिति। भक्षयतीत्यर्थः।