पूर्वम्: १।३।५२
अनन्तरम्: १।३।५४
 
प्रथमावृत्तिः

सूत्रम्॥ उदश्चरः सकर्मकात्॥ १।३।५३

पदच्छेदः॥ उदः ५।१ चरः ५।१ ५४ सकर्मकात् ५।१ आत्मनेपदम् १।१ १२

काशिका-वृत्तिः
उदश् चरः सकर्मकात् १।३।५३

शेषात् कर्तरि परस्मैपदे प्राप्ते उत्पूर्वाच् चरतेः सकर्मकक्रियाऽवचनादात्मनेपदं भवति। गेहम् उच्चरते। कुटुम्बम् उच्चरते। गुरुवचनम् उच्चरते। उत्क्रम्य गच्छति इत्यर्थः। सकर्मकातिति किम्? वाष्पम् उच्चरति।
लघु-सिद्धान्त-कौमुदी
उदश्चरः सकर्मकात् ७४२, १।३।५३

धर्ममुच्चरते। उल्लङ्घ्य गच्छतीत्यर्थः॥
न्यासः
उदश्चरः सकर्मकात्। , १।३।५३

"गेहेमुच्वरते" इति। चरिर्गत्यर्थः। "गुरुवचनमुच्चरते" इति। अत्रोत्क्रमणात्मिकायां गतौ वत्र्तमानश्चरतिर्गुरुवचनेन कर्मणा सकर्मकः। "बाष्पमुच्चरति" इति। उपरिष्टाद्()गच्छतीत्यर्थः। नात्र किञ्चित्कर्म विवक्षितमित्यकर्मकत्वम्।
बाल-मनोरमा
उदश्चरः सकर्मकात् ५५०, १।३।५३

उदश्चरः। उत्पूर्वाच्चरधातोः सकर्मकदात्मनेपदमित्यर्थः।