पूर्वम्: १।३।५३
अनन्तरम्: १।३।५५
 
प्रथमावृत्तिः

सूत्रम्॥ समस्तृतीयायुक्तात्॥ १।३।५४

पदच्छेदः॥ समः ५।१ ५५ तृतीयायुक्तात् ५।१ ५५ चरः ५।१ ५३ आत्मनेपदम् १।१ १२

काशिका-वृत्तिः
संस् तृतीयायुक्तात् १।३।५४

सम्पूर्वाच् चरतेस् तृतीयायुक्तादात्मनेपदं भवति। तृतीया इति तृतीयाविभक्तिर् गृह्यते, तया चरतेरर्थद्वारको योगः। अश्वेन सञ्चरते। तृतीयायुक्तातिति किम्? उभौ लोकौ सञ्चरसि इमं च अमुं च देवल। यद्यप्यत्र तदर्थयोगः सम्भवति, तृतीया तु न श्रूयते, इति प्रत्युदाहरणं भवति।
लघु-सिद्धान्त-कौमुदी
समस्तृतीयायुक्तात् ७४३, १।३।५४

रथेन सञ्चरते॥
न्यासः
समस्तृतीयायुक्तात्। , १।३।५४

यद्यत्र तृतीयेति गृह्रते, तदेहापि स्यात्-- उभौ लोकौ सञ्चरति इमाञ्चामुत्र देवलेति। अत्रापि तृतीयार्थो गम्यत एव। तपसा श्रुतेन वा विद्यत एवेत्येतच्चेतसि कृत्वाह-- "तृतीया" इति। " तृतीयाविभक्तिर्गृह्रते" इति। यद्येवं तया सह धातोः सम्बन्धो नोपपद्यते। न हि तृतीय धातुवाच्येत्याह-- "तया" इत्यादि। अर्थो द्वारं मुखमुपायो यस्य स तथोक्तः। तृतीयार्थेन धात्वर्थस्य युक्तवादौपचारिको धातोस्तृतीयीर्थेन योग इति दर्शयति। "यत्रप्यत्र तदर्थेन योगः सम्भवति" इति। विना करणेन क्रियानिष्पत्तेरभावात्, तथापि न भवति। "तृतीय तु" इत्यादि। तृतीयायपुक्तग्रहणं ह्रेवमर्थं क्रियते-- श्रूयमाणतृतीययुक्ताद्यथा स्यादिति, अन्यथा सम इत्येवं वक्तव्यं स्यात्? अनुक्तेऽपि सिद्ध्वतात् तृतीयाप्रयोगस्य। न हि तेन विना क्रियानिष्पत्तिरुपपद्यते। तस्माद्यत्र तृतीया श्रूयते तन्मूलोदाहरणम्, यत्र तु न श्रूयते तत्प्रत्युदाहरणम्॥
बाल-मनोरमा
समस्तृतीयायुक्तात् ५५१, १।३।५४

समस्तृतीया। सकर्मकादिति निवृत्तम्। संपूर्वात्तृतीयान्तसमभिव्याह्मताच्चरेरात्मनेपदमित्यर्थः। तृतीयायुक्तादिति किम्?। रथिकाः संचरन्ति। अत्र यद्यपि रथेनेत्यर्थाद्गम्यते, तथापि तृतीयान्तश्रवणाऽभावान्नात्मनेपदम्। एतदर्थमेव योगग्रहणम्। अन्यथा "तृतीयये"त्येवावक्ष्यत्। सकर्मकादप्येतदात्मनेपदं भवति, अविशेषात्, अत एव"तृतीयायुक्तादिति किम्?। उभौ लोकौ संचरसीभं चामुं च लोक"मिति भाष्यं सङ्गच्छते।