पूर्वम्: १।३।५६
अनन्तरम्: १।३।५८
 
प्रथमावृत्तिः

सूत्रम्॥ ज्ञाश्रुस्मृदृशां सनः॥ १।३।५७

पदच्छेदः॥ ज्ञाश्रुस्मृदृशाम् ६।३ सनः ५।१ १।१।५९ आत्मनेपदम् १।१ १२

काशिका-वृत्तिः
ज्ञाश्रुस्मृदृशां सनः १।३।५७

ज्ञा श्रु समृ दृशित्येतेषां सन्नन्तानाम् आत्मनेप्दं भवति। तत्र जानातेः अपह्नवे ज्ञः १।३।४४ इति त्रिभिः सूत्रैरात्मनेपदं विहितम्, श्रुदृशोरपि समो गम्यृच्छि १।३।२९ इत्यत्र विहितम्। तस्मिन् विषये पूर्ववत् सनः १।३।६२ इत्येव सिद्धम् आत्मनेपदम्। ततो ऽन्यत्र अनेन विधीयते। स्मरते पुनरप्राप्त एव विधानम्। धर्मं जिज्ञासते। गुरुं शुश्रूषते। नष्टं सुस्मूर्षते। नृपं दिदृक्षते। सनः इति किम्? जानाति, शृणोति, स्मरति, पष्यति।
न्यासः
ज्ञाश्रुस्मृदृशां सनः। , १।३।५७

"त्रिभिः सूत्रेः" इति। "अपह्नवे ज्ञः" १।३।४४ इत्यादिभिः। "धर्मं जिज्ञासते" इति। "ज्ञा अवबोधने" (धा।पा।१५०७), सन्, द्विर्वचनम्, अभ्यासस्य ह्यस्वत्वम्, "सन्यतः" ७।४।७९ इतीत्त्वम्। "शुश्रूषशते" इति। श्रु श्रवणे" (धा।पा।९४२), "इको झल्" १।२।९ इति सनः कित्तम्, "श्रयुकः किति" ७।२।११ इतीट्प्रतिषेधः, "अज्झनगमां सनि" ६।४।१६ इति दीर्घः। "सुस्मूर्षते" इति।"स्मृ आध्याने" (धा।पा।८०७) ; पूर्ववत् कित्त्वात् "उदोष्ठ()पूर्वस्य" ७।१।१०२ इत्युत्त्वम्, रपरत्वम्। "दिदृक्षते" इति। "हलन्ताच्च" १।२।१० इति कित्त्वम्, ततश्च व्रश्चादिना ८।२।३६ षत्वम्, "षढोः कः सि" ८।२।४१ इति कत्वम्॥
बाल-मनोरमा
ज्ञाश्रुस्मृदृशां सनः ५५५, १।३।५७

ज्ञानश्र। प्राग्वदिति। आत्मनेपदमित्यर्थः। यद्यपि "अपह्नवे ज्ञः, "अकर्मकाच्च" "सम्प्रतिभ्यानाध्याने" इति सूत्रैः, "अर्तिश्रुदृशिभ्यश्चे"ति वार्तिकेन च ज्ञादिभ्य आत्मनेपदे कृते "पूर्ववत्सनः" इत्यात्मनेपदं सिद्धम्, "तथाप्यपह्नवाद्यभावेऽप्यात्मनेपदार्थं ज्ञाश्रुदृशीनामिह ग्रहणमिति मत्वोदाहरति-- धर्मं जिज्ञासते इति। ज्ञातुमिच्छतीत्यर्थः। शुश्रूषते इति। "अज्झनगमां सनी"ति दीर्घः। "इको झ"लिति सनः कित्त्वम्। "श्र्युकः किती"ति इण्निषेधः। सुस्मूर्षते इति। स्मृधातोः सनि "अज्झने"ति दीर्घे "उदोष्ठ()पूर्वस्ये"त्युत्त्वे रपरत्वे "हलि चे"ति दीर्घः।

तत्त्व-बोधिनी
ज्ञाश्रुस्मृदृशां सनः ४६२, १।३।५७

ज्ञाश्रुस्मृ। "अपह्नवे ज्ञः" इत्यादिना ज्ञादातोः, "अर्तिश्रुदृशिभ्यश्चे"ति श्रुदृ शिभ्यां चात्मनेपदे कृते तस्मिन्विषये "पूर्ववत्सनः" इत्यनेन सिद्धेऽपि विषयान्तरे सन्नन्तादनेन विधीयत इति ज्ञेयम्।